Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Aghasura
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
क्वचिद्वनाशाय
मनो
दधद्व्रजा-
त्प्रातःसमुत्थाय
वयस्यवत्सपान्
।
प्रबोधयञ्छृङ्गरवेण
चारुणा
विनिर्गतो
वत्सपुरःसरो
हरिः
2
▾
Meaning
Keep
तेनैव
साकं
पृथुकाः
सहस्रशः
स्निग्धाः
सुशिग्वेत्रविषाणवेणवः
।
स्वान्
स्वान्
सहस्रोपरिसंख्ययान्वितान्
वत्सान्
पुरस्कृत्य
विनिर्ययुर्मुदा
3
▾
Meaning
Keep
कृष्णवत्सैरसंख्यातैर्यूथीकृत्य
स्ववत्सकान्
।
चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र
तत्र
ह
4
▾
Meaning
Keep
फलप्रवालस्तबकसुमनःपिच्छधातुभिः
।
काचगुञ्जामणिस्वर्णभूषिता
अप्यभूषयन्
5
▾
Meaning
Keep
मुष्णन्तोऽन्योन्यशिक्यादीन्
ज्ञातानाराच्च
चिक्षिपुः
।
तत्रत्याश्च
पुनर्दूराद्धसन्तश्च
पुनर्ददुः
6
▾
Meaning
Keep
यदि
दूरं
गतः
कृष्णो
वनशोभेक्षणाय
तम्
।
अहं
पूर्वमहं
पूर्वमिति
संस्पृश्य
रेमिरे
7
▾
Meaning
Keep
केचिद्वेणून्
वादयन्तो
ध्मान्तः
शृङ्गाणि
केचन
।
केचिद्भृङ्गैः
प्रगायन्तः
कूजन्तः
कोकिलैः
परे
8
▾
Meaning
Keep
विच्छायाभिः
प्रधावन्तो
गच्छन्तः
साधु
हंसकैः
।
बकैरुपविशन्तश्च
नृत्यन्तश्च
कलापिभिः
9
▾
Meaning
Keep
विकर्षन्तः
कीशबालानारोहन्तश्च
तैर्द्रुमान्
।
विकुर्वन्तश्च
तैः
साकं
प्लवन्तश्च
पलाशिषु
10
▾
Meaning
Keep
साकं
भेकैर्विलङ्घन्तः
सरित्प्रस्रवसम्प्लुताः
।
विहसन्तः
प्रतिच्छायाः
शपन्तश्च
प्रतिस्वनान्
11
▾
Meaning
Keep
इत्थं
सतां
ब्रह्मसुखानुभूत्या
दास्यं
गतानां
परदैवतेन
।
मायाश्रितानां
नरदारकेण
साकं
विजह्रुः
कृतपुण्यपुञ्जाः
12
▾
Meaning
Keep
यत्पादपांसुर्बहुजन्मकृच्छ्रतो
धृतात्मभिर्योगिभिरप्यलभ्यः
।
स
एव
यद्दृग्विषयः
स्वयं
स्थितः
किं
वर्ण्यते
दिष्टमतो
व्रजौकसाम्
13
▾
Meaning
Keep
अथाघनामाभ्यपतन्महासुर-
स्तेषां
सुखक्रीडनवीक्षणाक्षमः
।
नित्यं
यदन्तर्निजजीवितेप्सुभिः
पीतामृतैरप्यमरैः
प्रतीक्ष्यते
14
▾
Meaning
Keep
दृष्ट्वार्भकान्
कृष्णमुखानघासुरः
कंसानुशिष्टः
स
बकीबकानुजः
।
अयं
तु
मे
सोदरनाशकृत्तयो-
र्द्वयोर्ममैनं
सबलं
हनिष्ये
15
▾
Meaning
Keep
एते
यदा
मत्सुहृदोस्तिलापः
कृतास्तदा
नष्टसमा
व्रजौकसः
।
प्राणे
गते
वर्ष्मसु
का
नु
चिन्ता
प्रजासवः
प्राणभृतो
हि
ये
ते
16
▾
Meaning
Keep
इति
व्यवस्याजगरं
बृहद्वपुः
स
योजनायाममहाद्रिपीवरम्
।
धृत्वाद्भुतं
व्यात्तगुहाननं
तदा
पथि
व्यशेत
ग्रसनाशया
खलः
17
▾
Meaning
Keep
धराधरोष्ठो
जलदोत्तरोष्ठो
दर्याननान्तो
गिरिशृङ्गदंष्ट्रः
।
ध्वान्तान्तरास्यो
वितताध्वजिह्वः
परुषानिलश्वासदवेक्षणोष्णः
18
▾
Meaning
Keep
दृष्ट्वा
तं
तादृशं
सर्वे
मत्वा
वृन्दावनश्रियम्
।
व्यात्ताजगरतुण्डेन
ह्युत्प्रेक्षन्ते
स्म
लीलया
19
▾
Meaning
Keep
अहो
मित्राणि
गदत
सत्त्वकूटं
पुरःस्थितम्
।
अस्मत्संग्रसनव्यात्तव्यालतुण्डायते
न
वा
20
▾
Meaning
Keep
सत्यमर्ककरारक्तमुत्तराहनुवद्घनम्
।
अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम्
21
▾
Meaning
Keep
प्रतिस्पर्धेते
सृक्किभ्यां
सव्यासव्ये
नगोदरे
।
तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च
पश्यत
22
▾
Meaning
Keep
आस्तृतायाममार्गोऽयं
रसनां
प्रतिगर्जति
।
एषामन्तर्गतं
ध्वान्तमेतदप्यन्तराननम्
23
▾
Meaning
Keep
दावोष्णखरवातोऽयं
श्वासवद्भाति
पश्यत
।
तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत्
24
▾
Meaning
Keep
अस्मान्
किमत्र
ग्रसिता
निविष्टा-
नयं
तथा
चेद्बकवद्विनङ्क्ष्यति
।
क्षणादनेनेति
बकार्युशन्मुखं
वीक्ष्योद्धसन्तः
करताडनैर्ययुः
25
▾
Meaning
Keep
इत्थं
मिथोऽतथ्यमतज्ज्ञभाषितं
श्रुत्वा
विचिन्त्येत्यमृषा
मृषायते
।
रक्षो
विदित्वाखिलभूतहृत्स्थितः
स्वानां
निरोद्धुं
भगवान्
मनो
दधे
26
▾
Meaning
Keep
तावत्प्रविष्टास्त्वसुरोदरान्तरं
परं
न
गीर्णाः
शिशवः
सवत्साः
।
प्रतीक्षमाणेन
बकारिवेशनं
हतस्वकान्तस्मरणेन
रक्षसा
27
▾
Meaning
Keep
तान्
वीक्ष्य
कृष्णः
सकलाभयप्रदो
ह्यनन्यनाथान्
स्वकरादवच्युतान्
।
दीनांश्च
मृत्योर्जठराग्निघासान्
घृणार्दितो
दिष्टकृतेन
विस्मितः
28
▾
Meaning
Keep
कृत्यं
किमत्रास्य
खलस्य
जीवनं
न
वा
अमीषां
च
सतां
विहिंसनम्
।
द्वयं
कथं
स्यादिति
संविचिन्त्य
तज्ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः
29
▾
Meaning
Keep
तदा
घनच्छदा
देवा
भयाद्धा
हेति
चुक्रुशुः
।
जहृषुर्ये
च
कंसाद्याः
कौणपास्त्वघबान्धवाः
30
▾
Meaning
Keep
तच्छ्रुत्वा
भगवान्
कृष्णस्त्वव्ययः
सार्भवत्सकम्
।
चूर्णीचिकीर्षोरात्मानं
तरसा
ववृधे
गले
31
▾
Meaning
Keep
ततोऽतिकायस्य
निरुद्धमार्गिणो
ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः
।
पूर्णोऽन्तरङ्गे
पवनो
निरुद्धो
मूर्धन्
विनिष्पाट्य
विनिर्गतो
बहिः
32
▾
Meaning
Keep
तेनैव
सर्वेषु
बहिर्गतेषु
प्राणेषु
वत्सान्
सुहृदः
परेतान्
।
दृष्ट्या
स्वयोत्थाप्य
तदन्वितः
पुन-
र्वक्त्रान्मुकुन्दो
भगवान्
विनिर्ययौ
33
▾
Meaning
Keep
पीनाहिभोगोत्थितमद्भुतं
मह-
ज्ज्योतिः
स्वधाम्ना
ज्वलयद्दिशो
दश
।
प्रतीक्ष्य
खेऽवस्थितमीश
निर्गमं
विवेश
तस्मिन्
मिषतां
दिवौकसाम्
34
▾
Meaning
Keep
ततोऽतिहृष्टाः
स्वकृतोऽकृतार्हणं
पुष्पैः
सुरा
अप्सरसश्च
नर्तनैः
।
गीतैः
सुगा
वाद्यधराश्च
वाद्यकैः
स्तवैश्च
विप्रा
जयनिःस्वनैर्गणाः
35
▾
Meaning
Keep
तदद्भुतस्तोत्रसुवाद्यगीतिका-
जयादिनैकोत्सवमङ्गलस्वनान्
।
श्रुत्वा
स्वधाम्नोऽन्त्यज
आगतोऽचिराद्
दृष्ट्वा
महीशस्य
जगाम
विस्मयम्
36
▾
Meaning
Keep
राजन्नाजगरं
चर्म
शुष्कं
वृन्दावनेऽद्भुतम्
।
व्रजौकसां
बहुतिथं
बभूवाक्रीडगह्वरम्
37
▾
Meaning
Keep
एतत्कौमारजं
कर्म
हरेरात्माहिमोक्षणम्
।
मृत्योः
पौगण्डके
बाला
दृष्ट्वोचुर्विस्मिता
व्रजे
38
▾
Meaning
Keep
नैतद्विचित्रं
मनुजार्भमायिनः
परावराणां
परमस्य
वेधसः
।
अघोऽपि
यत्स्पर्शनधौतपातकः
प्रापात्मसाम्यं
त्वसतां
सुदुर्लभम्
39
▾
Meaning
Keep
सकृद्यदङ्गप्रतिमान्तराहिता
मनोमयी
भागवतीं
ददौ
गतिम्
।
स
एव
नित्यात्मसुखानुभूत्यभि-
व्युदस्तमायोऽन्तर्गतो
हि
किं
पुनः
40
▾
Meaning
Keep
इत्थं
द्विजा
यादवदेवदत्तः
श्रुत्वा
स्वरातुश्चरितं
विचित्रम्
।
पप्रच्छ
भूयोऽपि
तदेव
पुण्यं
वैयासकिं
यन्निगृहीतचेताः
41
▾
Meaning
Keep
ब्रह्मन्
कालान्तरकृतं
तत्कालीनं
कथं
भवेत्
।
यत्कौमारे
हरिकृतं
जगुः
पौगण्डकेऽर्भकाः
42
▾
Meaning
Keep
तद्ब्रूहि
मे
महायोगिन्
परं
कौतूहलं
गुरो
।
नूनमेतद्धरेरेव
माया
भवति
नान्यथा
43
▾
Meaning
Keep
वयं
धन्यतमा
लोके
गुरोऽपि
क्षत्रबन्धवः
।
यद्
पिबामो
मुहुस्त्वत्तः
पुण्यं
कृष्णकथामृतम्
44
▾
Meaning
Keep
इत्थं
स्म
पृष्टः
स
तु
बादरायणि-
स्तत्स्मारितानन्तहृताखिलेन्द्रियः
।
कृच्छ्रात्पुनर्लब्धबहिर्दृशिः
शनैः
प्रत्याह
तं
भागवतोत्तमोत्तम
Previous
←
The Move to Vrndavana
Next
Brahma Steals the Boys
→