Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Move to Vrndavana
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
गोपा
नन्दादयः
श्रुत्वा
द्रुमयोः
पततो
रवम्
।
तत्राजग्मुः
कुरुश्रेष्ठ
निर्घातभयशङ्किताः
2
▾
Meaning
Keep
भूम्यां
निपतितौ
तत्र
ददृशुर्यमलार्जुनौ
।
बभ्रमुस्तदविज्ञाय
लक्ष्यं
पतनकारणम्
3
▾
Meaning
Keep
उलूखलं
विकर्षन्तं
दाम्ना
बद्धं
च
बालकम्
।
कस्येदं
कुत
आश्चर्यमुत्पात
इति
कातराः
4
▾
Meaning
Keep
बाला
ऊचुरनेनेति
तिर्यग्गतमुलूखलम्
।
विकर्षता
मध्यगेन
पुरुषावप्यचक्ष्महि
5
▾
Meaning
Keep
न
ते
तदुक्तं
जगृहुर्न
घटेतेति
तस्य
तत्
।
बालस्योत्पाटनं
तर्वोः
केचित्सन्दिग्धचेतसः
6
▾
Meaning
Keep
उलूखलं
विकर्षन्तं
दाम्ना
बद्धं
स्वमात्मजम्
।
विलोक्य
नन्दः
प्रहसद्वदनो
विमुमोच
ह
7
▾
Meaning
Keep
गोपीभिः
स्तोभितोऽनृत्यद्भगवान्
बालवत्क्वचित्
।
उद्गायति
क्वचिन्मुग्धस्तद्वशो
दारुयन्त्रवत्
8
▾
Meaning
Keep
बिभर्ति
क्वचिदाज्ञप्तः
पीठकोन्मानपादुकम्
।
बाहुक्षेपं
च
कुरुते
स्वानां
च
प्रीतिमावहन्
9
▾
Meaning
Keep
दर्शयंस्तद्विदां
लोक
आत्मनो
भृत्यवश्यताम्
।
व्रजस्योवाह
वै
हर्षं
भगवान्
बालचेष्टितैः
10
▾
Meaning
Keep
क्रीणीहि
भोः
फलानीति
श्रुत्वा
सत्वरमच्युतः
।
फलार्थी
धान्यमादाय
ययौ
सर्वफलप्रदः
11
▾
Meaning
Keep
फलविक्रयिणी
तस्य
च्युतधान्यं
करद्वयम्
।
फलैरपूरयद्रत्नैः
फलभाण्डमपूरि
च
12
▾
Meaning
Keep
सरित्तीरगतं
कृष्णं
भग्नार्जुनमथाह्वयत्
।
रामं
च
रोहिणीदेवी
क्रीडन्तं
बालकैर्भृशम्
13
▾
Meaning
Keep
नोपेयातां
यदाऽऽहूतौ
क्रीडासङ्गेन
पुत्रकौ
।
यशोदां
प्रेषयामास
रोहिणी
पुत्रवत्सलाम्
14
▾
Meaning
Keep
क्रीडन्तं
सा
सुतं
बालैरतिवेलं
सहाग्रजम्
।
यशोदाजोहवीत्कृष्णं
पुत्रस्नेहस्नुतस्तनी
15
▾
Meaning
Keep
कृष्ण
कृष्णारविन्दाक्ष
तात
एहि
स्तनं
पिब
।
अलं
विहारैः
क्षुत्क्षान्तः
क्रीडाश्रान्तोऽसि
पुत्रक
16
▾
Meaning
Keep
हे
रामागच्छ
ताताशु
सानुजः
कुलनन्दन
।
प्रातरेव
कृताहारस्तद्भवान्
भोक्तुमर्हति
17
▾
Meaning
Keep
प्रतीक्षते
त्वां
दाशार्ह
भोक्ष्यमाणो
व्रजाधिपः
।
एह्यावयोः
प्रियं
धेहि
स्वगृहान्
यात
बालकाः
18
▾
Meaning
Keep
धूलिधूसरिताङ्गस्त्वं
पुत्र
मज्जनमावह
।
जन्मर्क्षमद्य
भवति
विप्रेभ्यो
देहि
गाः
शुचिः
19
▾
Meaning
Keep
पश्य
पश्य
वयस्यांस्ते
मातृमृष्टान्
स्वलङ्कृतान्
।
त्वं
च
स्नातः
कृताहारो
विहरस्व
स्वलङ्कृतः
20
▾
Meaning
Keep
इत्थं
यशोदा
तमशेषशेखरं
मत्वा
सुतं
स्नेहनिबद्धधीर्नृप
।
हस्ते
गृहीत्वा
सह
राममच्युतं
नीत्वा
स्ववाटं
कृतवत्यथोदयम्
21
▾
Meaning
Keep
गोपवृद्धा
महोत्पाताननुभूय
बृहद्वने
।
नन्दादयः
समागम्य
व्रजकार्यममन्त्रयन्
22
▾
Meaning
Keep
तत्रोपनन्दनामाऽऽह
गोपो
ज्ञानवयोऽधिकः
।
देशकालार्थतत्त्वज्ञः
प्रियकृद्
रामकृष्णयोः
23
▾
Meaning
Keep
उत्थातव्यमितोऽस्माभिर्गोकुलस्य
हितैषिभिः
।
आयान्त्यत्र
महोत्पाता
बालानां
नाशहेतवः
24
▾
Meaning
Keep
मुक्तः
कथञ्चिद्राक्षस्या
बालघ्न्या
बालको
ह्यसौ
।
हरेरनुग्रहान्नूनमनश्चोपरि
नापतत्
25
▾
Meaning
Keep
चक्रवातेन
नीतोऽयं
दैत्येन
विपदं
वियत्
।
शिलायां
पतितस्तत्र
परित्रातः
सुरेश्वरैः
26
▾
Meaning
Keep
यन्न
म्रियेत
द्रुमयोरन्तरं
प्राप्य
बालकः
।
असावन्यतमो
वापि
तदप्यच्युतरक्षणम्
27
▾
Meaning
Keep
यावदौत्पातिकोऽरिष्टो
व्रजं
नाभिभवेदितः
।
तावद्बालानुपादाय
यास्यामोऽन्यत्र
सानुगाः
28
▾
Meaning
Keep
वनं
वृन्दावनं
नाम
पशव्यं
नवकाननम्
।
गोपगोपीगवां
सेव्यं
पुण्याद्रितृणवीरुधम्
29
▾
Meaning
Keep
तत्तत्राद्यैव
यास्यामः
शकटान्
युङ्क्त
मा
चिरम्
।
गोधनान्यग्रतो
यान्तु
भवतां
यदि
रोचते
30
▾
Meaning
Keep
तच्छ्रुत्वैकधियो
गोपाः
साधु
साध्विति
वादिनः
।
व्रजान्
स्वान्
स्वान्
समायुज्य
ययू
रूढपरिच्छदाः
31
▾
Meaning
Keep
वृद्धान्
बालान्
स्त्रियो
राजन्
सर्वोपकरणानि
च
।
अनःस्वारोप्य
गोपाला
यत्ता
आत्तशरासनाः
32
▾
Meaning
Keep
गोधनानि
पुरस्कृत्य
शृङ्गाण्यापूर्य
सर्वतः
।
तूर्यघोषेण
महता
ययुः
सह
पुरोहिताः
33
▾
Meaning
Keep
गोप्यो
रूढरथा
नूत्नकुचकुङ्कुमकान्तयः
।
कृष्णलीला
जगुः
प्रीत्या
निष्ककण्ठ्यः
सुवाससः
34
▾
Meaning
Keep
तथा
यशोदारोहिण्यावेकं
शकटमास्थिते
।
रेजतुः
कृष्णरामाभ्यां
तत्कथाश्रवणोत्सुके
35
▾
Meaning
Keep
वृन्दावनं
सम्प्रविश्य
सर्वकालसुखावहम्
।
तत्र
चक्रुर्व्रजावासं
शकटैरर्धचन्द्रवत्
36
▾
Meaning
Keep
वृन्दावनं
गोवर्धनं
यमुनापुलिनानि
च
।
वीक्ष्यासीदुत्तमा
प्रीती
राममाधवयोर्नृप
37
▾
Meaning
Keep
एवं
व्रजौकसां
प्रीतिं
यच्छन्तौ
बालचेष्टितैः
।
कलवाक्यैः
स्वकालेन
वत्सपालौ
बभूवतुः
38
▾
Meaning
Keep
अविदूरे
व्रजभुवः
सह
गोपालदारकैः
।
चारयामासतुर्वत्सान्
नानाक्रीडापरिच्छदौ
39
▾
Meaning
Keep
क्वचिद्वादयतो
वेणुं
क्षेपणैः
क्षिपतः
क्वचित्
।
क्वचित्पादैः
किङ्किणीभिः
क्वचित्कृत्रिमगोवृषैः
40
▾
Meaning
Keep
वृषायमाणौ
नर्दन्तौ
युयुधाते
परस्परम्
।
अनुकृत्य
रुतैर्जन्तूंश्चेरतुः
प्राकृतौ
यथा
41
▾
Meaning
Keep
कदाचिद्यमुनातीरे
वत्सांश्चारयतोः
स्वकैः
।
वयस्यैः
कृष्णबलयोर्जिघांसुर्दैत्य
आगमत्
42
▾
Meaning
Keep
तं
वत्सरूपिणं
वीक्ष्य
वत्सयूथगतं
हरिः
।
दर्शयन्
बलदेवाय
शनैर्मुग्ध
इवासदत्
43
▾
Meaning
Keep
गृहीत्वापरपादाभ्यां
सहलाङ्गूलमच्युतः
।
भ्रामयित्वा
कपित्थाग्रे
प्राहिणोद्गतजीवितम्
।
स
कपित्थैर्महाकायः
पात्यमानैः
पपात
ह
44
▾
Meaning
Keep
तं
वीक्ष्य
विस्मिता
बालाः
शशंसुः
साधु
साध्विति
।
देवाश्च
परिसंतुष्टा
बभूवुः
पुष्पवर्षिणः
45
▾
Meaning
Keep
तौ
वत्सपालकौ
भूत्वा
सर्वलोकैकपालकौ
।
सप्रातराशौ
गोवत्सांश्चारयन्तौ
विचेरतुः
46
▾
Meaning
Keep
स्वं
स्वं
वत्सकुलं
सर्वे
पाययिष्यन्त
एकदा
।
गत्वा
जलाशयाभ्याशं
पाययित्वा
पपुर्जलम्
47
▾
Meaning
Keep
ते
तत्र
ददृशुर्बाला
महासत्त्वमवस्थितम्
।
तत्रसुर्वज्रनिर्भिन्नं
गिरेः
शृङ्गमिव
च्युतम्
48
▾
Meaning
Keep
स
वै
बको
नाम
महानसुरो
बकरूपधृक्
।
आगत्य
सहसा
कृष्णं
तीक्ष्णतुण्डोऽग्रसद्बली
49
▾
Meaning
Keep
कृष्णं
महाबकग्रस्तं
दृष्ट्वा
रामादयोऽर्भकाः
।
बभूवुरिन्द्रियाणीव
विना
प्राणं
विचेतसः
50
▾
Meaning
Keep
तं
तालुमूलं
प्रदहन्तमग्निव-
द्गोपालसूनुं
पितरं
जगद्गुरोः
।
चच्छर्द
सद्योऽतिरुषाक्षतं
बक-
स्तुण्डेन
हन्तुं
पुनरभ्यपद्यत
51
▾
Meaning
Keep
तमापतन्तं
स
निगृह्य
तुण्डयो-
र्दोर्भ्यां
बकं
कंससखं
सतां
पतिः
।
पश्यत्सु
बालेषु
ददार
लीलया
मुदावहो
वीरणवद्दिवौकसाम्
52
▾
Meaning
Keep
तदा
बकारिं
सुरलोकवासिनः
समाकिरन्
नन्दनमल्लिकादिभिः
।
समीडिरे
चानकशङ्खसंस्तवै-
स्तद्वीक्ष्य
गोपालसुता
विसिस्मिरे
53
▾
Meaning
Keep
मुक्तं
बकास्यादुपलभ्य
बालका
रामादयः
प्राणमिवेन्द्रियो
गणः
।
स्थानागतं
तं
परिरभ्य
निर्वृताः
प्रणीय
वत्सान्
व्रजमेत्य
तज्जगुः
54
▾
Meaning
Keep
श्रुत्वा
तद्विस्मिता
गोपा
गोप्यश्चातिप्रियादृताः
।
प्रेत्यागतमिवौत्सुक्यादैक्षन्त
तृषितेक्षणाः
55
▾
Meaning
Keep
अहो
बतास्य
बालस्य
बहवो
मृत्यवोऽभवन्
।
अप्यासीद्विप्रियं
तेषां
कृतं
पूर्वं
यतो
भयम्
56
▾
Meaning
Keep
अथाप्यभिभवन्त्येनं
नैव
ते
घोरदर्शनाः
।
जिघांसयैनमासाद्य
नश्यन्त्यग्नौ
पतङ्गवत्
57
▾
Meaning
Keep
अहो
ब्रह्मविदां
वाचो
नासत्याः
सन्ति
कर्हिचित्
।
गर्गो
यदाह
भगवानन्वभावि
तथैव
तत्
58
▾
Meaning
Keep
इति
नन्दादयो
गोपाः
कृष्णरामकथां
मुदा
।
कुर्वन्तो
रममाणाश्च
नाविन्दन्
भववेदनाम्
59
▾
Meaning
Keep
एवं
विहारैः
कौमारैः
कौमारं
जहतुर्व्रजे
।
निलायनैः
सेतुबन्धैर्मर्कटोत्प्लवनादिभिः
Previous
←
The Twin Arjuna Trees
Next
Aghasura
→