Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Brahma's Praise
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नौमीड्य
तेऽभ्रवपुषे
तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय
।
वन्यस्रजे
कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये
मृदुपदे
पशुपाङ्गजाय
2
▾
Meaning
Keep
अस्यापि
देव
वपुषो
मदनुग्रहस्य
स्वेच्छामयस्य
न
तु
भूतमयस्य
कोऽपि
।
नेशे
महि
त्ववसितुं
मनसाऽऽन्तरेण
साक्षात्तवैव
किमुतात्मसुखानुभूतेः
3
▾
Meaning
Keep
ज्ञाने
प्रयासमुदपास्य
नमन्त
एव
जीवन्ति
सन्मुखरितां
भवदीयवार्ताम्
।
स्थाने
स्थिताः
श्रुतिगतां
तनुवाङ्मनोभिर्ये
प्रायशोऽजित
जितोऽप्यसि
तैस्त्रिलोक्याम्
4
▾
Meaning
Keep
श्रेयःसृतिं
भक्तिमुदस्य
ते
विभो
क्लिश्यन्ति
ये
केवलबोधलब्धये
।
तेषामसौ
क्लेशल
एव
शिष्यते
नान्यद्
यथा
स्थूलतुषावघातिनाम्
5
▾
Meaning
Keep
पुरेह
भूमन्
बहवोऽपि
योगिन-
स्त्वदर्पितेहा
निजकर्मलब्धया
।
विबुध्य
भक्त्यैव
कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत
ते
गतिं
पराम्
6
▾
Meaning
Keep
तथापि
भूमन्
महिमागुणस्य
ते
विबोद्धुमर्हत्यमलान्तरात्मभिः
।
अविक्रियात्स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मतया
न
चान्यथा
7
▾
Meaning
Keep
गुणात्मनस्तेऽपि
गुणान्
विमातुं
हितावतीर्णस्य
क
ईशिरेऽस्य
।
कालेन
यैर्वा
विमिताः
सुकल्पैर्भूपांसवः
खे
मिहिका
द्युभासः
8
▾
Meaning
Keep
तत्तेऽनुकम्पां
सुसमीक्षमाणो
भुञ्जान
एवात्मकृतं
विपाकम्
।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत
यो
मुक्तिपदे
स
दायभाक्
9
▾
Meaning
Keep
पश्येश
मेऽनार्यमनन्त
आद्ये
परात्मनि
त्वय्यपि
मायिमायिनि
।
मायां
वितत्येक्षितुमात्मवैभवं
ह्यहं
कियानैच्छमिवार्चिरग्नौ
10
▾
Meaning
Keep
अतः
क्षमस्वाच्युत
मे
रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिनः
।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो
मयि
नाथवानिति
11
▾
Meaning
Keep
क्वाहं
तमोमहदहंखचराग्निवार्भू
संवेष्टिताण्डघटसप्तवितस्तिकायः
।
क्वेदृग्विधाविगणिताण्डपराणुचर्या
वाताध्वरोमविवरस्य
च
ते
महित्वम्
12
▾
Meaning
Keep
उत्क्षेपणं
गर्भगतस्य
पादयोः
किं
कल्पते
मातुरधोक्षजागसे
।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति
कुक्षेः
कियदप्यनन्तः
13
▾
Meaning
Keep
जगत्त्रयान्तोदधिसम्प्लवोदे
नारायणस्योदरनाभिनालात्
।
विनिर्गतोऽजस्त्विति
वाङ्
न
वै
मृषा
किं
त्वीश्वर
त्वन्न
विनिर्गतोऽस्मि
14
▾
Meaning
Keep
नारायणस्त्वं
न
हि
सर्वदेहिना-
मात्मास्यधीशाखिललोकसाक्षी
।
नारायणोऽङ्गं
नरभूजलायनात्
तच्चापि
सत्यं
न
तवैव
माया
15
▾
Meaning
Keep
तच्चेज्जलस्थं
तव
सज्जगद्वपुः
किं
मे
न
दृष्टं
भगवंस्तदैव
।
किं
वा
सुदृष्टं
हृदि
मे
तदैव
किं
नो
सपद्येव
पुनर्व्यदर्शि
16
▾
Meaning
Keep
अत्रैव
मायाधमनावतारे
ह्यस्य
प्रपञ्चस्य
बहिः
स्फुटस्य
।
कृत्स्नस्य
चान्तर्जठरे
जनन्या
मायात्वमेव
प्रकटीकृतं
ते
17
▾
Meaning
Keep
यस्य
कुक्षाविदं
सर्वं
सात्मं
भाति
यथा
तथा
।
तत्त्वय्यपीह
तत्सर्वं
किमिदं
मायया
विना
18
▾
Meaning
Keep
अद्यैव
त्वदृतेऽस्य
किं
मम
न
ते
मायात्वमादर्शित-
मेकोऽसि
प्रथमं
ततो
व्रजसुहृद्वत्साः
समस्ता
अपि
।
तावन्तोऽसि
चतुर्भुजास्तदखिलैः
साकं
मयोपासिता-
स्तावन्त्येव
जगन्त्यभूस्तदमितं
ब्रह्माद्वयं
शिष्यते
19
▾
Meaning
Keep
अजानतां
त्वत्पदवीमनात्म-
न्यात्माऽऽत्मना
भासि
वितत्य
मायाम्
।
सृष्टाविवाहं
जगतो
विधान
इव
त्वमेषोऽन्त
इव
त्रिनेत्रः
20
▾
Meaning
Keep
सुरेष्वृषिष्वीश
तथैव
नृष्वपि
तिर्यक्षु
यादस्स्वपि
तेऽजनस्य
।
जन्मासतां
दुर्मदनिग्रहाय
प्रभो
विधातः
सदनुग्रहाय
च
21
▾
Meaning
Keep
को
वेत्ति
भूमन्
भगवन्
परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम्
।
क्व
वा
कथं
वा
कति
वा
कदेति
विस्तारयन्
क्रीडसि
योगमायाम्
22
▾
Meaning
Keep
तस्मादिदं
जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं
पुरुदुःखदुःखम्
।
त्वय्येव
नित्यसुखबोधतनावनन्ते
मायात
उद्यदपि
यत्सदिवावभाति
23
▾
Meaning
Keep
एकस्त्वमात्मा
पुरुषः
पुराणः
सत्यः
स्वयंज्योतिरनन्त
आद्यः
।
नित्योऽक्षरोऽजस्रसुखो
निरञ्जनः
पूर्णोऽद्वयो
मुक्त
उपाधितोऽमृतः
24
▾
Meaning
Keep
एवंविधं
त्वां
सकलात्मनामपि
स्वात्मानमात्मात्मतया
विचक्षते
।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा
ये
ते
तरन्तीव
भवानृताम्बुधिम्
25
▾
Meaning
Keep
आत्मानमेवात्मतयाविजानतां
तेनैव
जातं
निखिलं
प्रपञ्चितम्
।
ज्ञानेन
भूयोऽपि
च
तत्प्रलीयते
रज्ज्वामहेर्भोगभवाभवौ
यथा
26
▾
Meaning
Keep
अज्ञानसंज्ञौ
भवबन्धमोक्षौ
द्वौ
नाम
नान्यौ
स्त
ऋतज्ञभावात्
।
अजस्रचित्यात्मनि
केवले
परे
विचार्यमाणे
तरणाविवाहनी
27
▾
Meaning
Keep
त्वामात्मानं
परं
मत्वा
परमात्मानमेव
च
।
आत्मा
पुनर्बहिर्मृग्य
अहोऽज्ञजनताज्ञता
28
▾
Meaning
Keep
अन्तर्भवेऽनन्त
भवन्तमेव
ह्यतत्त्यजन्तो
मृगयन्ति
सन्तः
।
असन्तमप्यन्त्यहिमन्तरेण
सन्तं
गुणं
तं
किमु
यन्ति
सन्तः
29
▾
Meaning
Keep
अथापि
ते
देव
पदाम्बुजद्वय-
प्रसादलेशानुगृहीत
एव
हि
।
जानाति
तत्त्वं
भगवन्
महिम्नो-
न
चान्य
एकोऽपि
चिरं
विचिन्वन्
30
▾
Meaning
Keep
तदस्तु
मे
नाथ
स
भूरिभागो
भवेऽत्र
वान्यत्र
तु
वा
तिरश्चाम्
।
येनाहमेकोऽपि
भवज्जनानां
भूत्वा
निषेवे
तव
पादपल्लवम्
31
▾
Meaning
Keep
अहोऽतिधन्या
व्रजगोरमण्यः
स्तन्यामृतं
पीतमतीव
ते
मुदा
।
यासां
विभो
वत्सतरात्मजात्मना
यत्तृप्तयेऽद्यापि
न
चालमध्वराः
32
▾
Meaning
Keep
अहोभाग्यमहोभाग्यं
नन्दगोपव्रजौकसाम्
।
यन्मित्रं
परमानन्दं
पूर्णं
ब्रह्म
सनातनम्
33
▾
Meaning
Keep
एषां
तु
भाग्यमहिमाच्युत
तावदास्ता-
मेकादशैव
हि
वयं
बत
भूरिभागाः
।
एतद्धृषीकचषकैरसकृत्पिबामः
शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं
ते
34
▾
Meaning
Keep
तद्
भूरिभाग्यमिह
जन्म
किमप्यटव्यां
यद्
गोकुलेऽपि
कतमाङ्घ्रिरजोऽभिषेकम्
।
यज्जीवितं
तु
निखिलं
भगवान्
मुकुन्दस्त्वद्यापि
यत्पदरजः
श्रुतिमृग्यमेव
35
▾
Meaning
Keep
एषां
घोषनिवासिनामुत
भवान्
किं
देव
रातेति
नश्चेतो
विश्वफलात्
फलं
त्वदपरं
कुत्राप्ययन्
मुह्यति
।
सद्वेषादिव
पूतनापि
सकुला
त्वामेव
देवापिता
यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते
36
▾
Meaning
Keep
तावद्रागादयः
स्तेनास्तावत्कारागृहं
गृहम्
।
तावन्मोहोऽङ्घ्रिनिगडो
यावत्कृष्ण
न
ते
जनाः
37
▾
Meaning
Keep
प्रपञ्चं
निष्प्रपञ्चोऽपि
विडम्बयसि
भूतले
।
प्रपन्नजनतानन्दसन्दोहं
प्रथितुं
प्रभो
38
▾
Meaning
Keep
जानन्त
एव
जानन्तु
किं
बहूक्त्या
न
मे
प्रभो
।
मनसो
वपुषो
वाचो
वैभवं
तव
गोचरः
39
▾
Meaning
Keep
अनुजानीहि
मां
कृष्ण
सर्वं
त्वं
वेत्सि
सर्वदृक्
।
त्वमेव
जगतां
नाथो
जगदेतत्तवार्पितम्
40
▾
Meaning
Keep
श्रीकृष्ण
वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन्
।
उद्धर्मशार्वरहर
क्षितिराक्षसध्रु-
गाकल्पमार्कमर्हन्
भगवन्
नमस्ते
41
▾
Meaning
Keep
इत्यभिष्टूय
भूमानं
त्रिः
परिक्रम्य
पादयोः
।
नत्वाभीष्टं
जगद्धाता
स्वधाम
प्रत्यपद्यत
42
▾
Meaning
Keep
ततोऽनुज्ञाप्य
भगवान्
स्वभुवं
प्रागवस्थितान्
।
वत्सान्
पुलिनमानिन्ये
यथापूर्वसखं
स्वकम्
43
▾
Meaning
Keep
एकस्मिन्नपि
यातेऽब्दे
प्राणेशं
चान्तराऽऽत्मनः
।
कृष्णमायाहता
राजन्
क्षणार्धं
मेनिरेऽर्भकाः
44
▾
Meaning
Keep
किं
किं
न
विस्मरन्तीह
मायामोहितचेतसः
।
यन्मोहितं
जगत्सर्वमभीक्ष्णं
विस्मृतात्मकम्
45
▾
Meaning
Keep
ऊचुश्च
सुहृदः
कृष्णं
स्वागतं
तेऽतिरंहसा
।
नैकोऽप्यभोजि
कवल
एहीतः
साधु
भुज्यताम्
46
▾
Meaning
Keep
ततो
हसन्
हृषीकेशोऽभ्यवहृत्य
सहार्भकैः
।
दर्शयंश्चर्माजगरं
न्यवर्तत
वनाद्व्रजम्
47
▾
Meaning
Keep
बर्हप्रसूननवधातुविचित्रिताङ्गः
प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः
।
वत्सान्
गृणन्ननुगगीतपवित्रकीर्ति-
र्गोपीदृगुत्सवदृशिः
प्रविवेश
गोष्ठम्
48
▾
Meaning
Keep
अद्यानेन
महाव्यालो
यशोदानन्दसूनुना
।
हतोऽविता
वयं
चास्मादिति
बाला
व्रजे
जगुः
49
▾
Meaning
Keep
ब्रह्मन्
परोद्भवे
कृष्णे
इयान्
प्रेमा
कथं
भवेत्
।
योऽभूतपूर्वस्तोकेषु
स्वोद्भवेष्वपि
कथ्यताम्
50
▾
Meaning
Keep
सर्वेषामपि
भूतानां
नृप
स्वात्मैव
वल्लभः
।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव
हि
51
▾
Meaning
Keep
तद्राजेन्द्र
यथा
स्नेहः
स्वस्वकात्मनि
देहिनाम्
।
न
तथा
ममतालम्बिपुत्रवित्तगृहादिषु
52
▾
Meaning
Keep
देहात्मवादिनां
पुंसामपि
राजन्यसत्तम
।
यथा
देहः
प्रियतमस्तथा
न
ह्यनु
ये
च
तम्
53
▾
Meaning
Keep
देहोऽपि
ममताभाक्चेत्तर्ह्यसौ
नात्मवत्प्रियः
।
यज्जीर्यत्यपि
देहेऽस्मिन्
जीविताशा
बलीयसी
54
▾
Meaning
Keep
तस्मात्प्रियतमः
स्वात्मा
सर्वेषामपि
देहिनाम्
।
तदर्थमेव
सकलं
जगदेतच्चराचरम्
55
▾
Meaning
Keep
कृष्णमेनमवेहि
त्वमात्मानमखिलात्मनाम्
।
जगद्धिताय
सोऽप्यत्र
देहीवाभाति
मायया
56
▾
Meaning
Keep
वस्तुतो
जानतामत्र
कृष्णं
स्थास्नु
चरिष्णु
च
।
भगवद्रूपमखिलं
नान्यद्वस्त्विह
किञ्चन
57
▾
Meaning
Keep
सर्वेषामपि
वस्तूनां
भावार्थो
भवति
स्थितः
।
तस्यापि
भगवान्
कृष्णः
किमतद्वस्तु
रूप्यताम्
58
▾
Meaning
Keep
समाश्रिता
ये
पदपल्लवप्लवं
महत्पदं
पुण्ययशो
मुरारेः
।
भवाम्बुधिर्वत्सपदं
परं
पदं
पदं
पदं
यद्विपदां
न
तेषाम्
59
▾
Meaning
Keep
एतत्ते
सर्वमाख्यातं
यत्पृष्टोऽहमिह
त्वया
।
यत्कौमारे
हरिकृतं
पौगण्डे
परिकीर्तितम्
60
▾
Meaning
Keep
एतत्सुहृद्भिश्चरितं
मुरारे-
रघार्दनं
शाद्वलजेमनं
च
।
व्यक्तेतरद्रूपमजोर्वभिष्टवं
शृण्वन्
गृणन्नेति
नरोऽखिलार्थान्
61
▾
Meaning
Keep
एवं
विहारैः
कौमारैः
कौमारं
जहतुर्व्रजे
।
निलायनैः
सेतुबन्धैर्मर्कटोत्प्लवनादिभिः
Previous
←
Brahma Steals the Boys
Next
Dhenuka and the Poisoned Pool
→