Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dhenuka and the Poisoned Pool
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ततश्च
पौगण्डवयः
श्रितौ
व्रजे
बभूवतुस्तौ
पशुपालसम्मतौ
।
गाश्चारयन्तौ
सखिभिः
समं
पदैर्वृन्दावनं
पुण्यमतीव
चक्रतुः
2
▾
Meaning
Keep
तन्माधवो
वेणुमुदीरयन्
वृतो
गोपैर्गृणद्भिः
स्वयशो
बलान्वितः
।
पशून्
पुरस्कृत्य
पशव्यमाविश-
द्विहर्तुकामः
कुसुमाकरं
वनम्
3
▾
Meaning
Keep
तन्मञ्जुघोषालिमृगद्विजाकुलं
महन्मनःप्रख्यपयःसरस्वता
।
वातेन
जुष्टं
शतपत्रगन्धिना
निरीक्ष्य
रन्तुं
भगवान्
मनो
दधे
4
▾
Meaning
Keep
स
तत्र
तत्रारुणपल्लवश्रिया
फलप्रसूनोरुभरेण
पादयोः
।
स्पृशच्छिखान्
वीक्ष्य
वनस्पतीन्
मुदा
स्मयन्निवाहाग्रजमादिपूरुषः
5
▾
Meaning
Keep
श्रीभगवानुवाच ।
अहो अमी देव वरामरार्चितं
पादाम्बुजं ते सुमनःफलार्हणम् ।
नमन्त्युपादाय शिखाभिरात्मन-
स्तमोऽपहत्यै तरुजन्म यत्कृतम्
6
▾
Meaning
Keep
एतेऽलिनस्तव
यशोऽखिललोकतीर्थं
गायन्त
आदिपुरुषानुपथं
भजन्ते
।
प्रायो
अमी
मुनिगणा
भवदीयमुख्या
गूढं
वनेऽपि
न
जहत्यनघात्मदैवम्
7
▾
Meaning
Keep
नृत्यन्त्यमी
शिखिन
ईड्य
मुदा
हरिण्यः
कुर्वन्ति
गोप्य
इव
ते
प्रियमीक्षणेन
।
सूक्तैश्च
कोकिलगणा
गृहमागताय
धन्या
वनौकस
इयान्
हि
सतां
निसर्गः
8
▾
Meaning
Keep
धन्येयमद्य
धरणी
तृणवीरुधस्त्वत्-
पादस्पृशो
द्रुमलताः
करजाभिमृष्टाः
।
नद्योऽद्रयः
खगमृगाः
सदयावलोकै-
र्गोप्योऽन्तरेण
भुजयोरपि
यत्स्पृहा
श्रीः
9
▾
Meaning
Keep
एवं
वृन्दावनं
श्रीमत्
कृष्णः
प्रीतमनाः
पशून्
।
रेमे
सञ्चारयन्नद्रेः
सरिद्रोधस्सु
सानुगः
10
▾
Meaning
Keep
क्वचिद्
गायति
गायत्सु
मदान्धालिष्वनुव्रतैः
।
उपगीयमानचरितः
स्रग्वी
सङ्कर्षणान्वितः
11
▾
Meaning
Keep
क्वचिच्च
कालहंसानामनुकूजति
कूजितम्
।
अभिनृत्यति
नृत्यन्तं
बर्हिणं
हासयन्
क्वचित्
12
▾
Meaning
Keep
मेघगम्भीरया
वाचा
नामभिर्दूरगान्
पशून्
।
क्वचिदाह्वयति
प्रीत्या
गोगोपालमनोज्ञया
13
▾
Meaning
Keep
चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च
बर्हिणः
।
अनुरौति
स्म
सत्त्वानां
भीतवद्व्याघ्रसिंहयोः
14
▾
Meaning
Keep
क्वचित्क्रीडापरिश्रान्तं
गोपोत्सङ्गोपबर्हणम्
।
स्वयं
विश्रमयत्यार्यं
पादसंवाहनादिभिः
15
▾
Meaning
Keep
नृत्यतो
गायतः
क्वापि
वल्गतो
युध्यतो
मिथः
।
गृहीतहस्तौ
गोपालान्
हसन्तौ
प्रशशंसतुः
16
▾
Meaning
Keep
क्वचित्पल्लवतल्पेषु
नियुद्धश्रमकर्शितः
।
वृक्षमूलाश्रयः
शेते
गोपोत्सङ्गोपबर्हणः
17
▾
Meaning
Keep
पादसंवाहनं
चक्रुः
केचित्तस्य
महात्मनः
।
अपरे
हतपाप्मानो
व्यजनैः
समवीजयन्
18
▾
Meaning
Keep
अन्ये
तदनुरूपाणि
मनोज्ञानि
महात्मनः
।
गायन्ति
स्म
महाराज
स्नेहक्लिन्नधियः
शनैः
19
▾
Meaning
Keep
एवं
निगूढात्मगतिः
स्वमायया
गोपात्मजत्वं
चरितैर्विडम्बयन्
।
रेमे
रमालालितपादपल्लवो
ग्राम्यैः
समं
ग्राम्यवदीशचेष्टितः
20
▾
Meaning
Keep
श्रीदामा
नाम
गोपालो
रामकेशवयोः
सखा
।
सुबलस्तोककृष्णाद्या
गोपाः
प्रेम्णेदमब्रुवन्
21
▾
Meaning
Keep
राम
राम
महाबाहो
कृष्ण
दुष्टनिबर्हण
।
इतोऽविदूरे
सुमहद्वनं
तालालिसङ्कुलम्
22
▾
Meaning
Keep
फलानि
तत्र
भूरीणि
पतन्ति
पतितानि
च
।
सन्ति
किंत्ववरुद्धानि
धेनुकेन
दुरात्मना
23
▾
Meaning
Keep
सोऽतिवीर्योऽसुरो
राम
हे
कृष्ण
खररूपधृक्
।
आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः
24
▾
Meaning
Keep
तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन्
।
न
सेव्यते
पशुगणैः
पक्षिसङ्घैर्विवर्जितम्
25
▾
Meaning
Keep
विद्यन्तेऽभुक्तपूर्वाणि
फलानि
सुरभीणि
च
।
एष
वै
सुरभिर्गन्धो
विषूचीनोऽवगृह्यते
26
▾
Meaning
Keep
प्रयच्छ
तानि
नः
कृष्ण
गन्धलोभितचेतसाम्
।
वाञ्छास्ति
महती
राम
गम्यतां
यदि
रोचते
27
▾
Meaning
Keep
एवं
सुहृद्वचः
श्रुत्वा
सुहृत्प्रियचिकीर्षया
।
प्रहस्य
जग्मतुर्गोपैर्वृतौ
तालवनं
प्रभू
28
▾
Meaning
Keep
बलः
प्रविश्य
बाहुभ्यां
तालान्
सम्परिकम्पयन्
।
फलानि
पातयामास
मतङ्गज
इवौजसा
29
▾
Meaning
Keep
फलानां
पततां
शब्दं
निशम्यासुररासभः
।
अभ्यधावत्क्षितितलं
सनगं
परिकम्पयन्
30
▾
Meaning
Keep
समेत्य
तरसा
प्रत्यग्द्वाभ्यां
पद्भ्यां
बलं
बली
।
निहत्योरसि
का
शब्दं
मुञ्चन्
पर्यसरत्खलः
31
▾
Meaning
Keep
पुनरासाद्य
संरब्ध
उपक्रोष्टा
पराक्स्थितः
।
चरणावपरौ
राजन्
बलाय
प्राक्षिपद्रुषा
32
▾
Meaning
Keep
स
तं
गृहीत्वा
प्रपदोर्भ्रामयित्वैकपाणिना
।
चिक्षेप
तृणराजाग्रे
भ्रामणत्यक्तजीवितम्
33
▾
Meaning
Keep
तेनाहतो
महातालो
वेपमानो
बृहच्छिराः
।
पार्श्वस्थं
कम्पयन्
भग्नः
स
चान्यं
सोऽपि
चापरम्
34
▾
Meaning
Keep
बलस्य
लीलयोत्सृष्टखरदेहहताहताः
।
तालाश्चकम्पिरे
सर्वे
महावातेरिता
इव
35
▾
Meaning
Keep
नैतच्चित्रं
भगवति
ह्यनन्ते
जगदीश्वरे
।
ओतप्रोतमिदं
यस्मिंस्तन्तुष्वङ्ग
यथा
पटः
36
▾
Meaning
Keep
ततः
कृष्णं
च
रामं
च
ज्ञातयो
धेनुकस्य
ये
।
क्रोष्टारोऽभ्यद्रवन्
सर्वे
संरब्धा
हतबान्धवाः
37
▾
Meaning
Keep
तांस्तानापततः
कृष्णो
रामश्च
नृप
लीलया
।
गृहीतपश्चाच्चरणान्
प्राहिणोत्तृणराजसु
38
▾
Meaning
Keep
फलप्रकरसङ्कीर्णं
दैत्यदेहैर्गतासुभिः
।
रराज
भूः
सतालाग्रैर्घनैरिव
नभस्तलम्
39
▾
Meaning
Keep
तयोस्तत्
सुमहत्
कर्म
निशम्य
विबुधादयः
।
मुमुचुः
पुष्पवर्षाणि
चक्रुर्वाद्यानि
तुष्टुवुः
40
▾
Meaning
Keep
अथ
तालफलान्यादन्
मनुष्या
गतसाध्वसाः
।
तृणं
च
पशवश्चेरुर्हतधेनुककानने
41
▾
Meaning
Keep
कृष्णः
कमलपत्राक्षः
पुण्यश्रवणकीर्तनः
।
स्तूयमानोऽनुगैर्गोपैः
साग्रजो
व्रजमाव्रजत्
42
▾
Meaning
Keep
तं
गोरजश्छुरितकुन्तलबद्धबर्ह-
वन्यप्रसूनरुचिरेक्षणचारुहासम्
।
वेणुं
क्वणन्तमनुगैरुपगीतकीर्तिं
गोप्यो
दिदृक्षितदृशोऽभ्यगमन्
समेताः
43
▾
Meaning
Keep
पीत्वा
मुकुन्दमुखसारघमक्षिभृङ्गै-
स्तापं
जहुर्विरहजं
व्रजयोषितोऽह्नि
।
तत्सत्कृतिं
समधिगम्य
विवेश
गोष्ठं
सव्रीडहासविनयं
यदपाङ्गमोक्षम्
44
▾
Meaning
Keep
तयोर्यशोदारोहिण्यौ
पुत्रयोः
पुत्रवत्सले
।
यथाकामं
यथाकालं
व्यधत्तां
परमाशिषः
45
▾
Meaning
Keep
गताध्वानश्रमौ
तत्र
मज्जनोन्मर्दनादिभिः
।
नीवीं
वसित्वा
रुचिरां
दिव्यस्रग्गन्धमण्डितौ
46
▾
Meaning
Keep
जनन्युपहृतं
प्राश्य
स्वाद्वन्नमुपलालितौ
।
संविश्य
वरशय्यायां
सुखं
सुषुपतुर्व्रजे
47
▾
Meaning
Keep
एवं
स
भगवान्
कृष्णो
वृन्दावनचरः
क्वचित्
।
ययौ
राममृते
राजन्
कालिन्दीं
सखिभिर्वृतः
48
▾
Meaning
Keep
अथ
गावश्च
गोपाश्च
निदाघातपपीडिताः
।
दुष्टं
जलं
पपुस्तस्यास्तृष्णार्ता
विषदूषितम्
49
▾
Meaning
Keep
विषाम्भस्तदुपस्पृश्य
दैवोपहतचेतसः
।
निपेतुर्व्यसवः
सर्वे
सलिलान्ते
कुरूद्वह
50
▾
Meaning
Keep
वीक्ष्य
तान्
वै
तथाभूतान्
कृष्णो
योगेश्वरेश्वरः
।
ईक्षयामृतवर्षिण्या
स्वनाथान्
समजीवयत्
51
▾
Meaning
Keep
ते
सम्प्रतीतस्मृतयः
समुत्थाय
जलान्तिकात्
।
आसन्
सुविस्मिताः
सर्वे
वीक्षमाणाः
परस्परम्
52
▾
Meaning
Keep
अन्वमंसत
तद्राजन्
गोविन्दानुग्रहेक्षितम्
।
पीत्वा
विषं
परेतस्य
पुनरुत्थानमात्मनः
Previous
←
Brahma's Praise
Next
Kaliya Subdued
→