Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Girls' Vow, and the Clothes on the Bank
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
हेमन्ते
प्रथमे
मासि
नन्दव्रजकुमारिकाः
।
चेरुर्हविष्यं
भुञ्जानाः
कात्यायन्यर्चनव्रतम्
2
▾
Meaning
Keep
आप्लुत्याम्भसि
कालिन्द्या
जलान्ते
चोदितेऽरुणे
।
कृत्वा
प्रतिकृतिं
देवीमानर्चुर्नृप
सैकतीम्
3
▾
Meaning
Keep
गन्धैर्माल्यैः
सुरभिभिर्बलिभिर्धूपदीपकैः
।
उच्चावचैश्चोपहारैः
प्रवालफलतण्डुलैः
4
▾
Meaning
Keep
कात्यायनि
महामाये
महायोगिन्यधीश्वरि
।
नन्दगोपसुतं
देवि
पतिं
मे
कुरु
ते
नमः
।
इति
मन्त्रं
जपन्त्यस्ताः
पूजां
चक्रुः
कुमारिकाः
5
▾
Meaning
Keep
एवं
मासं
व्रतं
चेरुः
कुमार्यः
कृष्णचेतसः
।
भद्रकालीं
समानर्चुर्भूयान्नन्दसुतः
पतिः
6
▾
Meaning
Keep
उषस्युत्थाय
गोत्रैः
स्वैरन्योन्याबद्धबाहवः
।
कृष्णमुच्चैर्जगुर्यान्त्यः
कालिन्द्यां
स्नातुमन्वहम्
7
▾
Meaning
Keep
नद्याः
कदाचिदागत्य
तीरे
निक्षिप्य
पूर्ववत्
।
वासांसि
कृष्णं
गायन्त्यो
विजह्रुः
सलिले
मुदा
8
▾
Meaning
Keep
भगवांस्तदभिप्रेत्य
कृष्णो
योगेश्वरेश्वरः
।
वयस्यैरावृतस्तत्र
गतस्तत्कर्मसिद्धये
9
▾
Meaning
Keep
तासां
वासांस्युपादाय
नीपमारुह्य
सत्वरः
।
हसद्भिः
प्रहसन्
बालैः
परिहासमुवाच
ह
10
▾
Meaning
Keep
अत्रागत्याबलाः
कामं
स्वं
स्वं
वासः
प्रगृह्यताम्
।
सत्यं
ब्रवाणि
नो
नर्म
यद्यूयं
व्रतकर्शिताः
11
▾
Meaning
Keep
न
मयोदितपूर्वं
वा
अनृतं
तदिमे
विदुः
।
एकैकशः
प्रतीच्छध्वं
सहैवेति
सुमध्यमाः
12
▾
Meaning
Keep
तस्य
तत्क्ष्वेलितं
दृष्ट्वा
गोप्यः
प्रेमपरिप्लुताः
।
व्रीडिताः
प्रेक्ष्य
चान्योन्यं
जातहासा
न
निर्ययुः
13
▾
Meaning
Keep
एवं
ब्रुवति
गोविन्दे
नर्मणाऽऽक्षिप्तचेतसः
।
आकण्ठमग्नाः
शीतोदे
वेपमानास्तमब्रुवन्
14
▾
Meaning
Keep
मानयं
भोः
कृथास्त्वां
तु
नन्दगोपसुतं
प्रियम्
।
जानीमोऽङ्ग
व्रजश्लाघ्यं
देहि
वासांसि
वेपिताः
15
▾
Meaning
Keep
श्यामसुन्दर
ते
दास्यः
करवाम
तवोदितम्
।
देहि
वासांसि
धर्मज्ञ
नो
चेद्राज्ञे
ब्रुवामहे
16
▾
Meaning
Keep
श्रीभगवानुवाच ।
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः
17
▾
Meaning
Keep
ततो
जलाशयात्सर्वा
दारिकाः
शीतवेपिताः
।
पाणिभ्यां
योनिमाच्छाद्य
प्रोत्तेरुः
शीतकर्शिताः
18
▾
Meaning
Keep
भगवानाह
ता
वीक्ष्य
शुद्धभावप्रसादितः
।
स्कन्धे
निधाय
वासांसि
प्रीतः
प्रोवाच
सस्मितम्
19
▾
Meaning
Keep
यूयं
विवस्त्रा
यदपो
धृतव्रता
व्यगाहतैतत्तदु
देवहेलनम्
।
बद्ध्वाञ्जलिं
मूर्ध्न्यपनुत्तयेंऽहसः
कृत्वा
नमोऽधो
वसनं
प्रगृह्यताम्
20
▾
Meaning
Keep
इत्यच्युतेनाभिहितं
व्रजाबला
मत्वा
विवस्त्राप्लवनं
व्रतच्युतिम्
।
तत्पूर्तिकामास्तदशेषकर्मणां
साक्षात्कृतं
नेमुरवद्यमृग्
यतः
21
▾
Meaning
Keep
तास्तथावनता
दृष्ट्वा
भगवान्
देवकीसुतः
।
वासांसि
ताभ्यः
प्रायच्छत्करुणस्तेन
तोषितः
22
▾
Meaning
Keep
दृढं
प्रलब्धास्त्रपया
च
हापिताः
प्रस्तोभिताः
क्रीडनवच्च
कारिताः
।
वस्त्राणि
चैवापहृतान्यथाप्यमुं
ता
नाभ्यसूयन्
प्रियसङ्गनिर्वृताः
23
▾
Meaning
Keep
परिधाय
स्ववासांसि
प्रेष्ठसङ्गमसज्जिताः
।
गृहीतचित्ता
नो
चेलुस्तस्मिँल्लज्जायितेक्षणाः
24
▾
Meaning
Keep
तासां
विज्ञाय
भगवान्
स्वपादस्पर्शकाम्यया
।
धृतव्रतानां
सङ्कल्पमाह
दामोदरोऽबलाः
25
▾
Meaning
Keep
सङ्कल्पो
विदितः
साध्व्यो
भवतीनां
मदर्चनम्
।
मयानुमोदितः
सोऽसौ
सत्यो
भवितुमर्हति
26
▾
Meaning
Keep
न
मय्यावेशितधियां
कामः
कामाय
कल्पते
।
भर्जिता
क्वथिता
धानाः
प्रायो
बीजाय
नेष्यते
27
▾
Meaning
Keep
याताबला
व्रजं
सिद्धा
मयेमा
रंस्यथा
क्षपाः
।
यदुद्दिश्य
व्रतमिदं
चेरुरार्यार्चनं
सतीः
28
▾
Meaning
Keep
इत्यादिष्टा
भगवता
लब्धकामाः
कुमारिकाः
।
ध्यायन्त्यस्तत्पदाम्भोजं
कृच्छ्रान्निर्विविशुर्व्रजम्
29
▾
Meaning
Keep
अथ
गोपैः
परिवृतो
भगवान्
देवकीसुतः
।
वृन्दावनाद्गतो
दूरं
चारयन्
गाः
सहाग्रजः
30
▾
Meaning
Keep
निदघार्कातपे
तिग्मे
छायाभिः
स्वाभिरात्मनः
।
आतपत्रायितान्
वीक्ष्य
द्रुमानाह
व्रजौकसः
31
▾
Meaning
Keep
हे
स्तोककृष्ण
हे
अंशो
श्रीदामन्
सुबलार्जुन
।
विशालवृषभ
तेजस्विन्
देवप्रस्थ
वरूथप
32
▾
Meaning
Keep
पश्यतैतान्
महाभागान्
परार्थैकान्तजीवितान्
।
वातवर्षातपहिमान्
सहन्तो
वारयन्ति
नः
33
▾
Meaning
Keep
अहो
एषां
वरं
जन्म
सर्वप्राण्युपजीवनम्
।
सुजनस्येव
येषां
वै
विमुखा
यान्ति
नार्थिनः
34
▾
Meaning
Keep
पत्रपुष्पफलच्छाया
मूलवल्कलदारुभिः
।
गन्धनिर्यासभस्मास्थितोक्मैः
कामान्
वितन्वते
35
▾
Meaning
Keep
एतावज्जन्मसाफल्यं
देहिनामिह
देहिषु
।
प्राणैरर्थैर्धिया
वाचा
श्रेय
एवाचरेत्
सदा
36
▾
Meaning
Keep
इति
प्रवालस्तबकफलपुष्पदलोत्करैः
।
तरूणां
नम्रशाखानां
मध्यतो
यमुनां
गतः
37
▾
Meaning
Keep
तत्र
गाः
पाययित्वापः
सुमृष्टाः
शीतलाः
शिवाः
।
ततो
नृप
स्वयं
गोपाः
कामं
स्वादु
पपुर्जलम्
38
▾
Meaning
Keep
तस्या
उपवने
कामं
चारयन्तः
पशून्
नृप
।
कृष्णरामावुपागम्य
क्षुधार्ता
इदमब्रवन्
Previous
←
The Song of the Flute
Next
The Wives of the Brahmanas
→