Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Wives of the Brahmanas
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
राम
राम
महावीर्य
कृष्ण
दुष्टनिबर्हण
।
एषा
वै
बाधते
क्षुन्नस्तच्छान्तिं
कर्तुमर्हथः
2
▾
Meaning
Keep
इति
विज्ञापितो
गोपैर्भगवान्
देवकीसुतः
।
भक्ताया
विप्रभार्यायाः
प्रसीदन्निदमब्रवीत्
3
▾
Meaning
Keep
प्रयात
देवयजनं
ब्राह्मणा
ब्रह्मवादिनः
।
सत्रमाङ्गिरसं
नाम
ह्यासते
स्वर्गकाम्यया
4
▾
Meaning
Keep
तत्र
गत्वौदनं
गोपा
याचतास्मद्विसर्जिताः
।
कीर्तयन्तो
भगवत
आर्यस्य
मम
चाभिधाम्
5
▾
Meaning
Keep
इत्यादिष्टा
भगवता
गत्वायाचन्त
ते
तथा
।
कृताञ्जलिपुटा
विप्रान्
दण्डवत्पतिता
भुवि
6
▾
Meaning
Keep
हे
भूमिदेवाः
शृणुत
कृष्णस्यादेशकारिणः
।
प्राप्ताञ्जानीत
भद्रं
वो
गोपान्नो
रामचोदितान्
7
▾
Meaning
Keep
गाश्चारयन्तावविदूर
ओदनं
रामाच्युतौ
वो
लषतो
बुभुक्षितौ
।
तयोर्द्विजा
ओदनमर्थिनोर्यदि
श्रद्धा
च
वो
यच्छत
धर्मवित्तमाः
8
▾
Meaning
Keep
दीक्षायाः
पशुसंस्थायाः
सौत्रामण्याश्च
सत्तमाः
।
अन्यत्र
दीक्षितस्यापि
नान्नमश्नन्
हि
दुष्यति
9
▾
Meaning
Keep
इति
ते
भगवद्याच्ञां
शृण्वन्तोऽपि
न
शुश्रुवुः
।
क्षुद्राशा
भूरिकर्माणो
बालिशा
वृद्धमानिनः
10
▾
Meaning
Keep
देशः
कालः
पृथग्द्रव्यं
मन्त्रतन्त्रर्त्विजोऽग्नयः
।
देवता
यजमानश्च
क्रतुर्धर्मश्च
यन्मयः
11
▾
Meaning
Keep
तं
ब्रह्म
परमं
साक्षाद्भगवन्तमधोक्षजम्
।
मनुष्यदृष्ट्या
दुष्प्रज्ञा
मर्त्यात्मानो
न
मेनिरे
12
▾
Meaning
Keep
न
ते
यदोमिति
प्रोचुर्न
नेति
च
परंतप
।
गोपा
निराशाः
प्रत्येत्य
तथोचुः
कृष्णरामयोः
13
▾
Meaning
Keep
तदुपाकर्ण्य
भगवान्
प्रहस्य
जगदीश्वरः
।
व्याजहार
पुनर्गोपान्
दर्शयँल्लौकिकीं
गतिम्
14
▾
Meaning
Keep
मां
ज्ञापयत
पत्नीभ्यः
ससंकर्षणमागतम्
।
दास्यन्ति
काममन्नं
वः
स्निग्धा
मय्युषिता
धिया
15
▾
Meaning
Keep
गत्वाथ
पत्नीशालायां
दृष्ट्वाऽऽसीनाः
स्वलङ्कृताः
।
नत्वा
द्विजसतीर्गोपाः
प्रश्रिता
इदमब्रुवन्
16
▾
Meaning
Keep
नमो
वो
विप्रपत्नीभ्यो
निबोधत
वचांसि
नः
।
इतोऽविदूरे
चरता
कृष्णेनेहेषिता
वयम्
17
▾
Meaning
Keep
गाश्चारयन्
स
गोपालैः
सरामो
दूरमागतः
।
बुभुक्षितस्य
तस्यान्नं
सानुगस्य
प्रदीयताम्
18
▾
Meaning
Keep
श्रुत्वाच्युतमुपायातं
नित्यं
तद्दर्शनोत्सुकाः
।
तत्कथाक्षिप्तमनसो
बभूवुर्जातसम्भ्रमाः
19
▾
Meaning
Keep
चतुर्विधं
बहुगुणमन्नमादाय
भाजनैः
।
अभिसस्रुः
प्रियं
सर्वाः
समुद्रमिव
निम्नगाः
20
▾
Meaning
Keep
निषिध्यमानाः
पतिभिर्भ्रातृभिर्बन्धुभिः
सुतैः
।
भगवत्युत्तमश्लोके
दीर्घश्रुतधृताशयाः
21
▾
Meaning
Keep
यमुनोपवनेऽशोकनवपल्लवमण्डिते
।
विचरन्तं
वृतं
गोपैः
साग्रजं
ददृशुः
स्त्रियः
22
▾
Meaning
Keep
श्यामं
हिरण्यपरिधिं
वनमाल्यबर्ह-
धातुप्रवालनटवेषमनुव्रतांसे
।
विन्यस्तहस्तमितरेण
धुनानमब्जं
कर्णोत्पलालककपोलमुखाब्जहासम्
23
▾
Meaning
Keep
प्रायः
श्रुतप्रियतमोदयकर्णपूरै-
र्यस्मिन्निमग्नमनसस्तमथाक्षिरन्ध्रैः
।
अन्तः
प्रवेश्य
सुचिरं
परिरभ्य
तापं
प्राज्ञं
यथाभिमतयो
विजहुर्नरेन्द्र
24
▾
Meaning
Keep
तास्तथा
त्यक्तसर्वाशाः
प्राप्ता
आत्मदिदृक्षया
।
विज्ञायाखिलदृग्द्रष्टा
प्राह
प्रहसिताननः
25
▾
Meaning
Keep
स्वागतं
वो
महाभागा
आस्यतां
करवाम
किम्
।
यन्नो
दिदृक्षया
प्राप्ता
उपपन्नमिदं
हि
वः
26
▾
Meaning
Keep
नन्वद्धा
मयि
कुर्वन्ति
कुशलाः
स्वार्थदर्शिनः
।
अहैतुक्यव्यवहितां
भक्तिमात्मप्रिये
यथा
27
▾
Meaning
Keep
प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः
।
यत्सम्पर्कात्प्रिया
आसंस्ततः
को
न्वपरः
प्रियः
28
▾
Meaning
Keep
तद्यात
देवयजनं
पतयो
वो
द्विजातयः
।
स्वसत्रं
पारयिष्यन्ति
युष्माभिर्गृहमेधिनः
29
▾
Meaning
Keep
मैवं
विभोऽर्हति
भवान्
गदितुं
नृशंसं
सत्यं
कुरुष्व
निगमं
तव
पादमूलम्
।
प्राप्ता
वयं
तुलसिदामपदावसृष्टं
केशैर्निवोढुमतिलङ्घ्य
समस्तबन्धून्
30
▾
Meaning
Keep
गृह्णन्ति
नो
न
पतयः
पितरौ
सुता
वा
न
भ्रातृबन्धुसुहृदः
कुत
एव
चान्ये
।
तस्माद्भवत्प्रपदयोः
पतितात्मनां
नो
नान्या
भवेद्गतिररिन्दम
तद्विधेहि
31
▾
Meaning
Keep
श्रीभगवानुवाच ।
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।
लोकाश्च वो मयोपेता देवा अप्यनुमन्वते
32
▾
Meaning
Keep
न
प्रीतयेऽनुरागाय
ह्यङ्गसङ्गो
नृणामिह
।
तन्मनो
मयि
युञ्जाना
अचिरान्मामवाप्स्यथ
33
▾
Meaning
Keep
इत्युक्ता
मुनिपत्न्यस्ता
यज्ञवाटं
पुनर्गताः
।
ते
चानसूयवःस्वाभिः
स्त्रीभिः
सत्रमपारयन्
34
▾
Meaning
Keep
तत्रैका
विधृता
भर्त्रा
भगवन्तं
यथाश्रुतम्
।
हृदोपगुह्य
विजहौ
देहं
कर्मानुबन्धनम्
35
▾
Meaning
Keep
भगवानपि
गोविन्दस्तेनैवान्नेन
गोपकान्
।
चतुर्विधेनाशयित्वा
स्वयं
च
बुभुजे
प्रभुः
36
▾
Meaning
Keep
एवं
लीलानरवपुर्नृलोकमनुशीलयन्
।
रेमे
गोगोपगोपीनां
रमयन्
रूपवाक्कृतैः
37
▾
Meaning
Keep
अथानुस्मृत्य
विप्रास्ते
अन्वतप्यन्
कृतागसः
।
यद्विश्वेश्वरयोर्याच्ञामहन्म
नृविडम्बयोः
38
▾
Meaning
Keep
दृष्ट्वा
स्त्रीणां
भगवति
कृष्णे
भक्तिमलौकिकीम्
।
आत्मानं
च
तया
हीनमनुतप्ता
व्यगर्हयन्
39
▾
Meaning
Keep
धिग्जन्म
नस्त्रिवृद्विद्यां
धिग्व्रतं
धिग्बहुज्ञताम्
।
धिक्कुलं
धिक्क्रियादाक्ष्यं
विमुखा
ये
त्वधोक्षजे
40
▾
Meaning
Keep
नूनं
भगवतो
माया
योगिनामपि
मोहिनी
।
यद्वयं
गुरवो
नृणां
स्वार्थे
मुह्यामहे
द्विजाः
41
▾
Meaning
Keep
अहो
पश्यत
नारीणामपि
कृष्णे
जगद्गुरौ
।
दुरन्तभावं
योऽविध्यन्
मृत्युपाशान्
गृहाभिधान्
42
▾
Meaning
Keep
नासां
द्विजातिसंस्कारो
न
निवासो
गुरावपि
।
न
तपो
नात्ममीमांसा
न
शौचं
न
क्रियाः
शुभाः
43
▾
Meaning
Keep
तथापि
ह्युत्तमश्लोके
कृष्णे
योगेश्वरेश्वरे
।
भक्तिर्दृढा
न
चास्माकं
संस्कारादिमतामपि
44
▾
Meaning
Keep
ननु
स्वार्थविमूढानां
प्रमत्तानां
गृहेहया
।
अहो
नः
स्मारयामास
गोपवाक्यैः
सतां
गतिः
45
▾
Meaning
Keep
अन्यथा
पूर्णकामस्य
कैवल्याद्यशिषां
पतेः
।
ईशितव्यैः
किमस्माभिरीशस्यैतद्
विडम्बनम्
46
▾
Meaning
Keep
हित्वान्यान्
भजते
यं
श्रीः
पादस्पर्शाशया
सकृत्
।
आत्मदोषापवर्गेण
तद्याच्ञा
जनमोहिनी
47
▾
Meaning
Keep
देशः
कालः
पृथग्द्रव्यं
मन्त्रतन्त्रर्त्विजोऽग्नयः
।
देवता
यजमानश्च
क्रतुर्धर्मश्च
यन्मयः
48
▾
Meaning
Keep
स
एव
भगवान्
साक्षाद्
विष्णुर्योगेश्वरेश्वरः
।
जातो
यदुष्वित्यशृण्म
ह्यपि
मूढा
न
विद्महे
49
▾
Meaning
Keep
अहो
वयं
धन्यतमा
येषां
नस्तादृशीः
स्त्रियः
।
भक्त्या
यासां
मतिर्जाता
अस्माकं
निश्चला
हरौ
50
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
कृष्णायाकुण्ठमेधसे
।
यन्मायामोहितधियो
भ्रमामः
कर्मवर्त्मसु
51
▾
Meaning
Keep
स
वै
न
आद्यः
पुरुषः
स्वमायामोहितात्मनाम्
।
अविज्ञातानुभावानां
क्षन्तुमर्हत्यतिक्रमम्
52
▾
Meaning
Keep
इति
स्वाघमनुस्मृत्य
कृष्णे
ते
कृतहेलनाः
।
दिदृक्षवोऽप्यच्युतयोः
कंसाद्भीता
न
चाचलन्
Previous
←
The Girls' Vow, and the Clothes on the Bank
Next
The Sacrifice to the Hill
→