Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Looking for Him in the Wood
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अन्तर्हिते
भगवति
सहसैव
व्रजाङ्गनाः
।
अतप्यंस्तमचक्षाणाः
करिण्य
इव
यूथपम्
2
▾
Meaning
Keep
गत्यानुरागस्मितविभ्रमेक्षितै-
र्मनोरमालापविहारविभ्रमैः
।
आक्षिप्तचित्ताः
प्रमदा
रमापते-
स्तास्ता
विचेष्टा
जगृहुस्तदात्मिकाः
3
▾
Meaning
Keep
गतिस्मितप्रेक्षणभाषणादिषु
प्रियाः
प्रियस्य
प्रतिरूढमूर्तयः
।
असावहं
त्वित्यबलास्तदात्मिका
न्यवेदिषुः
कृष्णविहारविभ्रमाः
4
▾
Meaning
Keep
गायन्त्य
उच्चैरमुमेव
संहता
विचिक्युरुन्मत्तकवद्वनाद्वनम्
।
पप्रच्छुराकाशवदन्तरं
बहि-
र्भूतेषु
सन्तं
पुरुषं
वनस्पतीन्
5
▾
Meaning
Keep
दृष्टो
वः
कच्चिदश्वत्थ
प्लक्ष
न्यग्रोध
नो
मनः
।
नन्दसूनुर्गतो
हृत्वा
प्रेमहासावलोकनैः
6
▾
Meaning
Keep
कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः
।
रामानुजो
मानिनीनामितो
दर्पहरस्मितः
7
▾
Meaning
Keep
कच्चित्तुलसि
कल्याणि
गोविन्दचरणप्रिये
।
सह
त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः
8
▾
Meaning
Keep
मालत्यदर्शि
वः
कच्चिन्मल्लिके
जाति
यूथिके
।
प्रीतिं
वो
जनयन्
यातः
करस्पर्शेन
माधवः
9
▾
Meaning
Keep
चूतप्रियालपनसासनकोविदार-
जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः
।
येऽन्ये
परार्थभवका
यमुनोपकूलाः
शंसन्तु
कृष्णपदवीं
रहितात्मनां
नः
10
▾
Meaning
Keep
किं
ते
कृतं
क्षिति
तपो
बत
केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि
।
अप्यङ्घ्रिसम्भव
उरुक्रमविक्रमाद्वा
आहो
वराहवपुषः
परिरम्भणेन
11
▾
Meaning
Keep
अप्येणपत्न्युपगतः
प्रिययेह
गात्रै-
स्तन्वन्
दृशां
सखि
सुनिर्वृतिमच्युतो
वः
।
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः
कुन्दस्रजः
कुलपतेरिह
वाति
गन्धः
12
▾
Meaning
Keep
बाहुं
प्रियांस
उपधाय
गृहीतपद्मो
रामानुजस्तुलसिकालिकुलैर्मदान्धैः
।
अन्वीयमान
इह
वस्तरवः
प्रणामं
किं
वाभिनन्दति
चरन्
प्रणयावलोकैः
13
▾
Meaning
Keep
पृच्छतेमा
लता
बाहूनप्याश्लिष्टा
वनस्पतेः
।
नूनं
तत्करजस्पृष्टा
बिभ्रत्युत्पुलकान्यहो
14
▾
Meaning
Keep
इत्युन्मत्तवचो
गोप्यः
कृष्णान्वेषणकातराः
।
लीला
भगवतस्तास्ता
ह्यनुचक्रुस्तदात्मिकाः
15
▾
Meaning
Keep
कस्याश्चित्
पूतनायन्त्याः
कृष्णायन्त्यपिबत्
स्तनम्
।
तोकायित्वा
रुदत्यन्या
पदाहन्शकटायतीम्
16
▾
Meaning
Keep
दैत्यायित्वा
जहारान्यामेको
कृष्णार्भभावनाम्
।
रिङ्गयामास
काप्यङ्घ्री
कर्षन्ती
घोषनिःस्वनैः
17
▾
Meaning
Keep
कृष्णरामायिते
द्वे
तु
गोपायन्त्यश्च
काश्चन
।
वत्सायतीं
हन्ति
चान्या
तत्रैका
तु
बकायतीम्
18
▾
Meaning
Keep
आहूय
दूरगा
यद्वत्
कृष्णस्तमनुवर्ततीम्
।
वेणुं
क्वणन्तीं
क्रीडन्तीमन्याः
शंसन्ति
साध्विति
19
▾
Meaning
Keep
कस्यांचित्
स्वभुजं
न्यस्य
चलन्त्याहापरा
ननु
।
कृष्णोऽहं
पश्यत
गतिं
ललितामिति
तन्मनाः
20
▾
Meaning
Keep
मा
भैष्ट
वातवर्षाभ्यां
तत्त्राणं
विहितं
मया
।
इत्युक्त्वैकेन
हस्तेन
यतन्त्युन्निदधेऽम्बरम्
21
▾
Meaning
Keep
आरुह्यैका
पदाऽऽक्रम्य
शिरस्याहापरां
नृप
।
दुष्टाहे
गच्छ
जातोऽहं
खलानां
ननु
दण्डधृत्
22
▾
Meaning
Keep
तत्रैकोवाच
हे
गोपा
दावाग्निं
पश्यतोल्बणम्
।
चक्षूंष्याश्वपिदध्वं
वो
विधास्ये
क्षेममञ्जसा
23
▾
Meaning
Keep
बद्धान्यया
स्रजा
काचित्तन्वी
तत्र
उलूखले
।
भीता
सुदृक्
पिधायास्यं
भेजे
भीतिविडम्बनम्
24
▾
Meaning
Keep
एवं
कृष्णं
पृच्छमाना
वृन्दावनलतास्तरून्
।
व्यचक्षत
वनोद्देशे
पदानि
परमात्मनः
25
▾
Meaning
Keep
पदानि
व्यक्तमेतानि
नन्दसूनोर्महात्मनः
।
लक्ष्यन्ते
हि
ध्वजाम्भोजवज्राङ्कुशयवादिभिः
26
▾
Meaning
Keep
तैस्तैः
पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः
।
वध्वाः
पदैः
सुपृक्तानि
विलोक्यार्ताः
समब्रुवन्
27
▾
Meaning
Keep
कस्याः
पदानि
चैतानि
याताया
नन्दसूनुना
।
अंसन्यस्तप्रकोष्ठायाः
करेणोः
करिणा
यथा
28
▾
Meaning
Keep
अनयाऽऽराधितो
नूनं
भगवान्
हरिरीश्वरः
।
यन्नो
विहाय
गोविन्दः
प्रीतो
यामनयद्रहः
29
▾
Meaning
Keep
धन्या
अहो
अमी
आल्यो
गोविन्दाङ्घ्र्यब्जरेणवः
।
यान्
ब्रह्मेशौ
रमादेवी
दधुर्मूर्ध्न्यघनुत्तये
30
▾
Meaning
Keep
तस्या
अमूनि
नः
क्षोभं
कुर्वन्त्युच्चैः
पदानि
यत्
।
यैकापहृत्य
गोपीनां
रहो
भुङ्क्तेऽच्युताधरम्
31
▾
Meaning
Keep
न
लक्ष्यन्ते
पदान्यत्र
तस्या
नूनं
तृणाङ्कुरैः
।
खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये
प्रेयसीं
प्रियः
32
▾
Meaning
Keep
इमान्यधिकमग्नानि
पदानि
वहतो
वधूम्
।
गोप्यः
पश्यत
कृष्णस्य
भाराक्रान्तस्य
कामिनः
33
▾
Meaning
Keep
अत्रावरोपिता
कान्ता
पुष्पहेतोर्महात्मना
।
अत्र
प्रसूनावचयः
प्रियार्थे
प्रेयसा
कृतः
।
प्रपदाक्रमणे
एते
पश्यतासकले
पदे
34
▾
Meaning
Keep
केशप्रसाधनं
त्वत्र
कामिन्याः
कामिना
कृतम्
।
तानि
चूडयता
कान्तामुपविष्टमिह
ध्रुवम्
35
▾
Meaning
Keep
रेमे
तया
चात्मरत
आत्मारामोऽप्यखण्डितः
।
कामिनां
दर्शयन्
दैन्यं
स्त्रीणां
चैव
दुरात्मताम्
36
▾
Meaning
Keep
इत्येवं
दर्शयन्त्यस्ताश्चेरुर्गोप्यो
विचेतसः
।
यां
गोपीमनयत्कृष्णो
विहायान्याः
स्त्रियो
वने
37
▾
Meaning
Keep
सा
च
मेने
तदाऽऽत्मानं
वरिष्ठं
सर्वयोषिताम्
।
हित्वा
गोपीः
कामयाना
मामसौ
भजते
प्रियः
38
▾
Meaning
Keep
ततो
गत्वा
वनोद्देशं
दृप्ता
केशवमब्रवीत्
।
न
पारयेऽहं
चलितुं
नय
मां
यत्र
ते
मनः
39
▾
Meaning
Keep
एवमुक्तः
प्रियामाह
स्कन्ध
आरुह्यतामिति
।
ततश्चान्तर्दधे
कृष्णः
सा
वधूरन्वतप्यत
40
▾
Meaning
Keep
हा
नाथ
रमण
प्रेष्ठ
क्वासि
क्वासि
महाभुज
।
दास्यास्ते
कृपणाया
मे
सखे
दर्शय
सन्निधिम्
41
▾
Meaning
Keep
अन्विच्छन्त्यो
भगवतो
मार्गं
गोप्योऽविदूरितः
।
ददृशुः
प्रियविश्लेषमोहितां
दुःखितां
सखीम्
42
▾
Meaning
Keep
तया
कथितमाकर्ण्य
मानप्राप्तिं
च
माधवात्
।
अवमानं
च
दौरात्म्याद्विस्मयं
परमं
ययुः
43
▾
Meaning
Keep
ततोऽविशन्
वनं
चन्द्रज्योत्स्ना
यावद्विभाव्यते
।
तमः
प्रविष्टमालक्ष्य
ततो
निववृतुः
स्त्रियः
44
▾
Meaning
Keep
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः
।
तद्गुणानेव
गायन्त्यो
नात्मगाराणि
सस्मरुः
45
▾
Meaning
Keep
पुनः
पुलिनमागत्य
कालिन्द्याः
कृष्णभावनाः
।
समवेता
जगुः
कृष्णं
तदागमनकाङ्क्षिताः
Previous
←
The Night of the Flute
Next
The Song of the Cowherd Women
→