Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Night of the Flute
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवानपि
ता
रात्रीः
शरदोत्फुल्लमल्लिकाः
।
वीक्ष्य
रन्तुं
मनश्चक्रे
योगमायामुपाश्रितः
2
▾
Meaning
Keep
तदोडुराजः
ककुभः
करैर्मुखं
प्राच्या
विलिम्पन्नरुणेन
शन्तमैः
।
स
चर्षणीनामुदगाच्छुचो
मृजन्
प्रियः
प्रियाया
इव
दीर्घदर्शनः
3
▾
Meaning
Keep
दृष्ट्वा
कुमुद्वन्तमखण्डमण्डलं
रमाननाभं
नवकुङ्कुमारुणम्
।
वनं
च
तत्कोमलगोभिरञ्जितं
जगौ
कलं
वामदृशां
मनोहरम्
4
▾
Meaning
Keep
निशम्य
गीतं
तदनङ्गवर्धनं
व्रजस्त्रियः
कृष्णगृहीतमानसाः
।
आजग्मुरन्योन्यमलक्षितोद्यमाः
स
यत्र
कान्तो
जवलोलकुण्डलाः
5
▾
Meaning
Keep
दुहन्त्योऽभिययुः
काश्चिद्दोहं
हित्वा
समुत्सुकाः
।
पयोऽधिश्रित्य
संयावमनुद्वास्यापरा
ययुः
6
▾
Meaning
Keep
परिवेषयन्त्यस्तद्धित्वा
पाययन्त्यः
शिशून्
पयः
।
शुश्रूषन्त्यः
पतीन्
काश्चिदश्नन्त्योऽपास्य
भोजनम्
7
▾
Meaning
Keep
लिम्पन्त्यः
प्रमृजन्त्योऽन्या
अञ्जन्त्यः
काश्च
लोचने
।
व्यत्यस्तवस्त्राभरणाः
काश्चित्कृष्णान्तिकं
ययुः
8
▾
Meaning
Keep
ता
वार्यमाणाः
पतिभिः
पितृभिर्भ्रातृबन्धुभिः
।
गोविन्दापहृतात्मानो
न
न्यवर्तन्त
मोहिताः
9
▾
Meaning
Keep
अन्तर्गृहगताः
काश्चिद्गोप्योऽलब्धविनिर्गमाः
।
कृष्णं
तद्भावनायुक्ता
दध्युर्मीलितलोचनाः
10
▾
Meaning
Keep
दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः
।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या
क्षीणमङ्गलाः
11
▾
Meaning
Keep
तमेव
परमात्मानं
जारबुद्ध्यापि
सङ्गताः
।
जहुर्गुणमयं
देहं
सद्यः
प्रक्षीणबन्धनाः
12
▾
Meaning
Keep
कृष्णं
विदुः
परं
कान्तं
न
तु
ब्रह्मतया
मुने
।
गुणप्रवाहोपरमस्तासां
गुणधियां
कथम्
13
▾
Meaning
Keep
उक्तं
पुरस्तादेतत्ते
चैद्यः
सिद्धिं
यथा
गतः
।
द्विषन्नपि
हृषीकेशं
किमुताधोक्षजप्रियाः
14
▾
Meaning
Keep
नृणां
निःश्रेयसार्थाय
व्यक्तिर्भगवतो
नृप
।
अव्ययस्याप्रमेयस्य
निर्गुणस्य
गुणात्मनः
15
▾
Meaning
Keep
कामं
क्रोधं
भयं
स्नेहमैक्यं
सौहृदमेव
च
।
नित्यं
हरौ
विदधतो
यान्ति
तन्मयतां
हि
ते
16
▾
Meaning
Keep
न
चैवं
विस्मयः
कार्यो
भवता
भगवत्यजे
।
योगेश्वरेश्वरे
कृष्णे
यत
एतद्विमुच्यते
17
▾
Meaning
Keep
ता
दृष्ट्वान्तिकमायाता
भगवान्
व्रजयोषितः
।
अवदद्वदतां
श्रेष्ठो
वाचः
पेशैर्विमोहयन्
18
▾
Meaning
Keep
श्रीभगवानुवाच ।
स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।
व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम्
19
▾
Meaning
Keep
रजन्येषा
घोररूपा
घोरसत्त्वनिषेविता
।
प्रतियात
व्रजं
नेह
स्थेयं
स्त्रीभिः
सुमध्यमाः
20
▾
Meaning
Keep
मातरः
पितरः
पुत्रा
भ्रातरः
पतयश्च
वः
।
विचिन्वन्ति
ह्यपश्यन्तो
मा
कृढ्वं
बन्धुसाध्वसम्
21
▾
Meaning
Keep
दृष्टं
वनं
कुसुमितं
राकेशकररञ्जितम्
।
यमुनानिललीलैजत्तरुपल्लवशोभितम्
22
▾
Meaning
Keep
तद्यात
मा
चिरं
गोष्ठं
शुश्रूषध्वं
पतीन्
सतीः
।
क्रन्दन्ति
वत्सा
बालाश्च
तान्पाययत
दुह्यत
23
▾
Meaning
Keep
अथ
वा
मदभिस्नेहाद्भवत्यो
यन्त्रिताशयाः
।
आगता
ह्युपपन्नं
वः
प्रीयन्ते
मयि
जन्तवः
24
▾
Meaning
Keep
भर्तुः
शुश्रूषणं
स्त्रीणां
परो
धर्मो
ह्यमायया
।
तद्बन्धूनां
च
कल्याणः
प्रजानां
चानुपोषणम्
25
▾
Meaning
Keep
दुःशीलो
दुर्भगो
वृद्धो
जडो
रोग्यधनोऽपि
वा
।
पतिः
स्त्रीभिर्न
हातव्यो
लोकेप्सुभिरपातकी
26
▾
Meaning
Keep
अस्वर्ग्यमयशस्यं
च
फल्गु
कृच्छ्रं
भयावहम्
।
जुगुप्सितं
च
सर्वत्र
औपपत्यं
कुलस्त्रियः
27
▾
Meaning
Keep
श्रवणाद्दर्शनाद्ध्यानान्मयि
भावोऽनुकीर्तनात्
।
न
तथा
सन्निकर्षेण
प्रतियात
ततो
गृहान्
28
▾
Meaning
Keep
इति
विप्रियमाकर्ण्य
गोप्यो
गोविन्दभाषितम्
।
विषण्णा
भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम्
29
▾
Meaning
Keep
कृत्वा
मुखान्यव
शुचः
श्वसनेन
शुष्य-
द्बिम्बाधराणि
चरणेन
भुवं
लिखन्त्यः
।
अस्रैरुपात्तमषिभिः
कुचकुङ्कुमानि
तस्थुर्मृजन्त्य
उरुदुःखभराः
स्म
तूष्णीम्
30
▾
Meaning
Keep
प्रेष्ठं
प्रियेतरमिव
प्रतिभाषमाणं
कृष्णं
तदर्थविनिवर्तितसर्वकामाः
।
नेत्रे
विमृज्य
रुदितोपहते
स्म
किञ्चित्
संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः
31
▾
Meaning
Keep
मैवं
विभोऽर्हति
भवान्
गदितुं
नृशंसं
संत्यज्य
सर्वविषयांस्तव
पादमूलम्
।
भक्ता
भजस्व
दुरवग्रह
मा
त्यजास्मान्
देवो
यथाऽऽदिपुरुषो
भजते
मुमुक्षून्
32
▾
Meaning
Keep
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग
स्त्रीणां
स्वधर्म
इति
धर्मविदा
त्वयोक्तम्
।
अस्त्वेवमेतदुपदेशपदे
त्वयीशे
प्रेष्ठो
भवांस्तनुभृतां
किल
बन्धुरात्मा
33
▾
Meaning
Keep
कुर्वन्ति
हि
त्वयि
रतिं
कुशलाः
स्व
आत्मन्
नित्यप्रिये
पतिसुतादिभिरार्तिदैः
किम्
।
तन्नः
प्रसीद
परमेश्वर
मा
स्म
छिन्द्या
आशां
धृतां
त्वयि
चिरादरविन्दनेत्र
34
▾
Meaning
Keep
चित्तं
सुखेन
भवतापहृतं
गृहेषु
यन्निर्विशत्युत
करावपि
गृह्यकृत्ये
।
पादौ
पदं
न
चलतस्तव
पादमूला-
द्यामः
कथं
व्रजमथो
करवाम
किं
वा
35
▾
Meaning
Keep
सिञ्चाङ्ग
नस्त्वदधरामृतपूरकेण
हासावलोककलगीतजहृच्छयाग्निम्
।
नो
चेद्वयं
विरहजाग्न्युपयुक्तदेहा
ध्यानेन
याम
पदयोः
पदवीं
सखे
ते
36
▾
Meaning
Keep
यर्ह्यम्बुजाक्ष
तव
पादतलं
रमाया
दत्तक्षणं
क्वचिदरण्यजनप्रियस्य
।
अस्प्राक्ष्म
तत्प्रभृति
नान्यसमक्षमङ्ग
स्थातुं
त्वयाभिरमिता
बत
पारयामः
37
▾
Meaning
Keep
श्रीर्यत्पदाम्बुजरजश्चकमे
तुलस्या
लब्ध्वापि
वक्षसि
पदं
किल
भृत्यजुष्टम्
।
यस्याः
स्ववीक्षणकृतेऽन्यसुरप्रयासस्तद्वद्
वयं
च
तव
पादरजः
प्रपन्नाः
38
▾
Meaning
Keep
तन्नः
प्रसीद
वृजिनार्दन
तेऽङ्घ्रिमूलं
प्राप्ता
विसृज्य
वसतीस्त्वदुपासनाशाः
।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम-
तप्तात्मनां
पुरुषभूषण
देहि
दास्यम्
39
▾
Meaning
Keep
वीक्ष्यालकावृतमुखं
तव
कुण्डलश्री-
गण्डस्थलाधरसुधं
हसितावलोकम्
।
दत्ताभयं
च
भुजदण्डयुगं
विलोक्य
वक्षःश्रियैकरमणं
च
भवाम
दास्यः
40
▾
Meaning
Keep
का
स्त्र्यङ्ग
ते
कलपदायतमूर्च्छितेन
सम्मोहिताऽऽर्यचरितान्न
चलेत्त्रिलोक्याम्
।
त्रैलोक्यसौभगमिदं
च
निरीक्ष्य
रूपं
यद्
गोद्विजद्रुममृगाः
पुलकान्यबिभ्रन्
41
▾
Meaning
Keep
व्यक्तं
भवान्
व्रजभयार्तिहरोऽभिजातो
देवो
यथाऽऽदिपुरुषः
सुरलोकगोप्ता
।
तन्नो
निधेहि
करपङ्कजमार्तबन्धो
तप्तस्तनेषु
च
शिरस्सु
च
किङ्करीणाम्
42
▾
Meaning
Keep
इति
विक्लवितं
तासां
श्रुत्वा
योगेश्वरेश्वरः
।
प्रहस्य
सदयं
गोपीरात्मारामोऽप्यरीरमत्
43
▾
Meaning
Keep
ताभिः
समेताभिरुदारचेष्टितः
प्रियेक्षणोत्फुल्लमुखीभिरच्युतः
।
उदारहासद्विजकुन्ददीधति-
र्व्यरोचतैणाङ्क
इवोडुभिर्वृतः
44
▾
Meaning
Keep
उपगीयमान
उद्गायन्
वनिताशतयूथपः
।
मालां
बिभ्रद्वैजयन्तीं
व्यचरन्मण्डयन्
वनम्
45
▾
Meaning
Keep
नद्याः
पुलिनमाविश्य
गोपीभिर्हिमवालुकम्
।
जुष्टं
तत्तरलानन्दिकुमुदामोदवायुना
46
▾
Meaning
Keep
बाहुप्रसारपरिरम्भकरालकोरुनीवीस्तनालभननर्मनखाग्रपातैः
।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन्
रतिपतिं
रमयाञ्चकार
47
▾
Meaning
Keep
एवं
भगवतः
कृष्णाल्लब्धमाना
महात्मनः
।
आत्मानं
मेनिरे
स्त्रीणां
मानिन्योऽभ्यधिकं
भुवि
48
▾
Meaning
Keep
तासां
तत्सौभगमदं
वीक्ष्य
मानं
च
केशवः
।
प्रशमाय
प्रसादाय
तत्रैवान्तरधीयत
Previous
←
Nanda Taken from the Water
Next
Looking for Him in the Wood
→