Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Why He Hid Himself
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
गोप्यः
प्रगायन्त्यः
प्रलपन्त्यश्च
चित्रधा
।
रुरुदुः
सुस्वरं
राजन्
कृष्णदर्शनलालसाः
2
▾
Meaning
Keep
तासामाविरभूच्छौरिः
स्मयमानमुखाम्बुजः
।
पीताम्बरधरः
स्रग्वी
साक्षान्मन्मथमन्मथः
3
▾
Meaning
Keep
तं
विलोक्यागतं
प्रेष्ठं
प्रीत्युत्फुल्लदृशोऽबलाः
।
उत्तस्थुर्युगपत्सर्वास्तन्वः
प्राणमिवागतम्
4
▾
Meaning
Keep
काचित्कराम्बुजं
शौरेर्जगृहेऽञ्जलिना
मुदा
।
काचिद्दधार
तद्बाहुमंसे
चन्दनरूषितम्
5
▾
Meaning
Keep
काचिदञ्जलिनागृह्णात्तन्वी
ताम्बूलचर्वितम्
।
एका
तदङ्घ्रिकमलं
संतप्ता
स्तनयोरधात्
6
▾
Meaning
Keep
एका
भ्रुकुटिमाबध्य
प्रेमसंरम्भविह्वला
।
घ्नन्तीवैक्षत्
कटाक्षेपैः
संदष्टदशनच्छदा
7
▾
Meaning
Keep
अपरानिमिषद्दृग्भ्यां
जुषाणा
तन्मुखाम्बुजम्
।
आपीतमपि
नातृप्यत्सन्तस्तच्चरणं
यथा
8
▾
Meaning
Keep
तं
काचिन्नेत्ररन्ध्रेण
हृदिकृत्य
निमील्य
च
।
पुलकाङ्ग्युपगुह्यास्ते
योगीवानन्दसम्प्लुता
9
▾
Meaning
Keep
सर्वास्ताः
केशवालोकपरमोत्सवनिर्वृताः
।
जहुर्विरहजं
तापं
प्राज्ञं
प्राप्य
यथा
जनाः
10
▾
Meaning
Keep
ताभिर्विधूतशोकाभिर्भगवानच्युतो
वृतः
।
व्यरोचताधिकं
तात
पुरुषः
शक्तिभिर्यथा
11
▾
Meaning
Keep
ताः
समादाय
कालिन्द्या
निर्विश्य
पुलिनं
विभुः
।
विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम्
12
▾
Meaning
Keep
शरच्चन्द्रांशुसंदोहध्वस्तदोषातमः
शिवम्
।
कृष्णाया
हस्ततरलाचितकोमलवालुकम्
13
▾
Meaning
Keep
तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं
श्रुतयो
यथा
ययुः
।
स्वैरुत्तरीयैः
कुचकुङ्कुमाङ्कितै-
रचीकॢपन्नासनमात्मबन्धवे
14
▾
Meaning
Keep
तत्रोपविष्टो
भगवान्
स
ईश्वरो
योगेश्वरान्तर्हृदि
कल्पितासनः
।
चकास
गोपीपरिषद्गतोऽर्चित-
स्त्रैलोक्यलक्ष्म्येकपदं
वपुर्दधत्
15
▾
Meaning
Keep
सभाजयित्वा
तमनङ्गदीपनं
सहासलीलेक्षणविभ्रमभ्रुवा
।
संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः
संस्तुत्य
ईषत्कुपिता
बभाषिरे
16
▾
Meaning
Keep
भजतोऽनुभजन्त्येक
एक
एतद्विपर्ययम्
।
नोभयांश्च
भजन्त्येक
एतन्नो
ब्रूहि
साधु
भोः
17
▾
Meaning
Keep
श्रीभगवानुवाच ।
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा
18
▾
Meaning
Keep
भजन्त्यभजतो
ये
वै
करुणाः
पितरो
यथा
।
धर्मो
निरपवादोऽत्र
सौहृदं
च
सुमध्यमाः
19
▾
Meaning
Keep
भजतोऽपि
न
वै
केचिद्भजन्त्यभजतः
कुतः
।
आत्मारामा
ह्याप्तकामा
अकृतज्ञा
गुरुद्रुहः
20
▾
Meaning
Keep
नाहं
तु
सख्यो
भजतोऽपि
जन्तून्
भजाम्यमीषामनुवृत्तिवृत्तये
।
यथाधनो
लब्धधने
विनष्टे
तच्चिन्तयान्यन्निभृतो
न
वेद
21
▾
Meaning
Keep
एवं
मदर्थोज्झितलोकवेद-
स्वानां
हि
वो
मय्यनुवृत्तयेऽबलाः
।
मया
परोक्षं
भजता
तिरोहितं
मासूयितुं
मार्हथ
तत्प्रियं
प्रियाः
22
▾
Meaning
Keep
न
पारयेऽहं
निरवद्यसंयुजां
स्वसाधुकृत्यं
विबुधायुषापि
वः
।
या
माभजन्
दुर्जरगेहशृङ्खलाः
संवृश्च्य
तद्वः
प्रतियातु
साधुना
Previous
←
The Song of the Cowherd Women
Next
The Circle of the Rasa
→