Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Circle of the Rasa
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्थं
भगवतो
गोप्यः
श्रुत्वा
वाचः
सुपेशलाः
।
जहुर्विरहजं
तापं
तदङ्गोपचिताशिषः
2
▾
Meaning
Keep
तत्रारभत
गोविन्दो
रासक्रीडामनुव्रतैः
।
स्त्रीरत्नैरन्वितः
प्रीतैरन्योन्याबद्धबाहुभिः
3
▾
Meaning
Keep
रासोत्सवः
सम्प्रवृत्तो
गोपीमण्डलमण्डितः
।
योगेश्वरेण
कृष्णेन
तासां
मध्ये
द्वयोर्द्वयोः
।
प्रविष्टेन
गृहीतानां
कण्ठे
स्वनिकटं
स्त्रियः
4
▾
Meaning
Keep
य
मन्येरन्
नभस्तावद्
विमानशतसङ्कुलम्
।
दिवौकसां
सदाराणामौत्सुक्यापहृतात्मनाम्
5
▾
Meaning
Keep
ततो
दुन्दुभयो
नेदुर्निपेतुः
पुष्पवृष्टयः
।
जगुर्गन्धर्वपतयः
सस्त्रीकास्तद्यशोऽमलम्
6
▾
Meaning
Keep
वलयानां
नूपुराणां
किङ्किणीनां
च
योषिताम्
।
सप्रियाणामभूच्छब्दस्तुमुलो
रासमण्डले
7
▾
Meaning
Keep
तत्रातिशुशुभे
ताभिर्भगवान्
देवकीसुतः
।
मध्ये
मणीनां
हैमानां
महामरकतो
यथा
8
▾
Meaning
Keep
पादन्यासैर्भुजविधुतिभिः
सस्मितैर्भ्रूविलासैर्भज्यन्मध्यैश्चलकुचपटैः
कुण्डलैर्गण्डलोलैः
।
स्विद्यन्मुख्यः
कबररशनाग्रन्थयः
कृष्णवध्वो
गायन्त्यस्तं
तडित
इव
ता
मेघचक्रे
विरेजुः
9
▾
Meaning
Keep
उच्चैर्जगुर्नृत्यमाना
रक्तकण्ठ्यो
रतिप्रियाः
।
कृष्णाभिमर्शमुदिता
यद्गीतेनेदमावृतम्
10
▾
Meaning
Keep
काचित्समं
मुकुन्देन
स्वरजातीरमिश्रिताः
।
उन्निन्ये
पूजिता
तेन
प्रीयता
साधु
साध्विति
।
तदेव
ध्रुवमुन्निन्ये
तस्यै
मानं
च
बह्वदात्
11
▾
Meaning
Keep
काचिद्रासपरिश्रान्ता
पार्श्वस्थस्य
गदाभृतः
।
जग्राह
बाहुना
स्कन्धं
श्लथद्वलयमल्लिका
12
▾
Meaning
Keep
तत्रैकांसगतं
बाहुं
कृष्णस्योत्पलसौरभम्
।
चन्दनालिप्तमाघ्राय
हृष्टरोमा
चुचुम्ब
ह
13
▾
Meaning
Keep
कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम्
।
गण्डं
गण्डे
सन्दधत्या
आदात्ताम्बूलचर्वितम्
14
▾
Meaning
Keep
नृत्यन्ती
गायती
काचित्
कूजन्नूपुरमेखला
।
पार्श्वस्थाच्युतहस्ताब्जं
श्रान्ताधात्
स्तनयोः
शिवम्
15
▾
Meaning
Keep
गोप्यो
लब्ध्वाच्युतं
कान्तं
श्रिय
एकान्तवल्लभम्
।
गृहीतकण्ठ्यस्तद्दोर्भ्यां
गायन्त्यस्तं
विजह्रिरे
16
▾
Meaning
Keep
कर्णोत्पलालकविटङ्ककपोलघर्म-
वक्त्रश्रियो
वलयनूपुरघोषवाद्यैः
।
गोप्यः
समं
भगवता
ननृतुः
स्वकेश-
स्रस्तस्रजो
भ्रमरगायकरासगोष्ठ्याम्
17
▾
Meaning
Keep
एवं
परिष्वङ्गकराभिमर्श-
स्निग्धेक्षणोद्दामविलासहासैः
।
रेमे
रमेशो
व्रजसुन्दरीभि-
र्यथार्भकः
स्वप्रतिबिम्बविभ्रमः
18
▾
Meaning
Keep
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः
केशान्
दुकूलं
कुचपट्टिकां
वा
।
नाञ्जः
प्रतिव्योढुमलं
व्रजस्त्रियो
विस्रस्तमालाभरणाः
कुरूद्वह
19
▾
Meaning
Keep
कृष्णविक्रीडितं
वीक्ष्य
मुमुहुः
खेचरस्त्रियः
।
कामार्दिताः
शशाङ्कश्च
सगणो
विस्मितोऽभवत्
20
▾
Meaning
Keep
कृत्वा
तावन्तमात्मानं
यावतीर्गोपयोषितः
।
रेमे
स
भगवांस्ताभिरात्मारामोऽपि
लीलया
21
▾
Meaning
Keep
तासामतिविहारेण
श्रान्तानां
वदनानि
सः
।
प्रामृजत्करुणः
प्रेम्णा
शन्तमेनाङ्गपाणिना
22
▾
Meaning
Keep
गोप्यः
स्फुरत्पुरटकुण्डलकुन्तलत्विड्-
गण्डश्रिया
सुधितहासनिरीक्षणेन
।
मानं
दधत्य
ऋषभस्य
जगुः
कृतानि
पुण्यानि
तत्कररुहस्पर्शप्रमोदाः
23
▾
Meaning
Keep
ताभिर्युतः
श्रममपोहितुमङ्गसङ्ग-
घृष्टस्रजः
स
कुचकुङ्कुमरञ्जितायाः
।
गन्धर्वपालिभिरनुद्रुत
आविशद्वाः
श्रान्तो
गजीभिरिभराडिव
भिन्नसेतुः
24
▾
Meaning
Keep
सोऽम्भस्यलं
युवतिभिः
परिषिच्यमानः
प्रेम्णेक्षितः
प्रहसतीभिरितस्ततोऽङ्ग
।
वैमानिकैः
कुसुमवर्षिभिरीड्यमानो
रेमे
स्वयं
स्वरतिरत्र
गजेन्द्रलीलः
25
▾
Meaning
Keep
ततश्च
कृष्णोपवने
जलस्थल-
प्रसूनगन्धानिलजुष्टदिक्तटे
।
चचार
भृङ्गप्रमदागणावृतो
यथा
मदच्युद्द्विरदः
करेणुभिः
26
▾
Meaning
Keep
एवं
शशाङ्कांशुविराजिता
निशाः
स
सत्यकामोऽनुरताबलागणः
।
सिषेव
आत्मन्यवरुद्धसौरतः
सर्वाः
शरत्काव्यकथारसाश्रयाः
27
▾
Meaning
Keep
संस्थापनाय
धर्मस्य
प्रशमायेतरस्य
च
।
अवतीर्णो
हि
भगवानंशेन
जगदीश्वरः
28
▾
Meaning
Keep
स
कथं
धर्मसेतूनां
वक्ता
कर्ताभिरक्षिता
।
प्रतीपमाचरद्ब्रह्मन्
परदाराभिमर्शनम्
29
▾
Meaning
Keep
आप्तकामो
यदुपतिः
कृतवान्
वै
जुगुप्सितम्
।
किमभिप्राय
एतं
नः
संशयं
छिन्धि
सुव्रत
30
▾
Meaning
Keep
धर्मव्यतिक्रमो
दृष्ट
ईश्वराणां
च
साहसम्
।
तेजीयसां
न
दोषाय
वह्नेः
सर्वभुजो
यथा
31
▾
Meaning
Keep
नैतत्समाचरेज्जातु
मनसापि
ह्यनीश्वरः
।
विनश्यत्याचरन्
मौढ्याद्यथा
रुद्रोऽब्धिजं
विषम्
32
▾
Meaning
Keep
ईश्वराणां
वचः
सत्यं
तथैवाचरितं
क्वचित्
।
तेषां
यत्स्ववचोयुक्तं
बुद्धिमांस्तत्समाचरेत्
33
▾
Meaning
Keep
कुशलाचरितेनैषामिह
स्वार्थो
न
विद्यते
।
विपर्ययेण
वानर्थो
निरहंकारिणां
प्रभो
34
▾
Meaning
Keep
किमुताखिलसत्त्वानां
तिर्यङ्मर्त्यदिवौकसाम्
।
ईशितुश्चेशितव्यानां
कुशलाकुशलान्वयः
35
▾
Meaning
Keep
यत्पादपङ्कजपरागनिषेवतृप्ता
योगप्रभावविधुताखिलकर्मबन्धाः
।
स्वैरं
चरन्ति
मुनयोऽपि
न
नह्यमाना-
स्तस्येच्छयाऽऽत्तवपुषः
कुत
एव
बन्धः
36
▾
Meaning
Keep
गोपीनां
तत्पतीनां
च
सर्वेषामेव
देहिनाम्
।
योऽन्तश्चरति
सोऽध्यक्षः
क्रीडनेनेह
देहभाक्
37
▾
Meaning
Keep
अनुग्रहाय
भूतानां
मानुषं
देहमास्थितः
।
भजते
तादृशीः
क्रीडा
याः
श्रुत्वा
तत्परो
भवेत्
38
▾
Meaning
Keep
नासूयन्
खलु
कृष्णाय
मोहितास्तस्य
मायया
।
मन्यमानाः
स्वपार्श्वस्थान्
स्वान्
स्वान्
दारान्
व्रजौकसः
39
▾
Meaning
Keep
ब्रह्मरात्र
उपावृत्ते
वासुदेवानुमोदिताः
।
अनिच्छन्त्यो
ययुर्गोप्यः
स्वगृहान्
भगवत्प्रियाः
40
▾
Meaning
Keep
विक्रीडितं
व्रजवधूभिरिदं
च
विष्णोः
श्रद्धान्वितोऽनुशृणुयादथ
वर्णयेद्यः
।
भक्तिं
परां
भगवति
प्रतिलभ्य
कामं
हृद्रोगमाश्वपहिनोत्यचिरेण
धीरः
Previous
←
Why He Hid Himself
Next
Sudarsana Freed and Sankhacuda Killed
→