Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Kesi and Vyoma, and Narada's Praise
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
केशी
तु
कंसप्रहितः
खुरैर्महीं
महाहयो
निर्जरयन्
मनोजवः
।
सटावधूताभ्रविमानसङ्कुलं
कुर्वन्नभो
हेषितभीषिताखिलः
2
▾
Meaning
Keep
विशालनेत्रो
विकटास्यकोटरो
बृहद्गलो
नीलमहाम्बुदोपमः
।
दुराशयः
कंसहितं
चिकीर्षु-
र्व्रजं
स
नन्दस्य
जगाम
कम्पयन्
3
▾
Meaning
Keep
तं
त्रासयन्तं
भगवान्
स्वगोकुलं
तद्धेषितैर्वालविघूर्णिताम्बुदम्
।
आत्मानमाजौ
मृगयन्तमग्रणी-
रुपाह्वयत्स
व्यनदन्मृगेन्द्रवत्
4
▾
Meaning
Keep
स
तं
निशाम्याभिमुखो
मुखेन
खं
पिबन्निवाभ्यद्रवदत्यमर्षणः
।
जघान
पद्भ्यामरविन्दलोचनं
दुरासदश्चण्डजवो
दुरत्ययः
5
▾
Meaning
Keep
तद्वञ्चयित्वा
तमधोक्षजो
रुषा
प्रगृह्य
दोर्भ्यां
परिविध्य
पादयोः
।
सावज्ञमुत्सृज्य
धनुः
शतान्तरे
यथोरगं
तार्क्ष्यसुतो
व्यवस्थितः
6
▾
Meaning
Keep
स
लब्धसंज्ञः
पुनरुत्थितो
रुषा
व्यादाय
केशी
तरसाऽऽपतद्धरिम्
।
सोऽप्यस्य
वक्त्रे
भुजमुत्तरं
स्मयन्
प्रवेशयामास
यथोरगं
बिले
7
▾
Meaning
Keep
दन्ता
निपेतुर्भगवद्भुजस्पृश-
स्ते
केशिनस्तप्तमयःस्पृशो
यथा
।
बाहुश्च
तद्देहगतो
महात्मनो
यथाऽऽमयः
संववृधे
उपेक्षितः
8
▾
Meaning
Keep
समेधमानेन
स
कृष्णबाहुना
निरुद्धवायुश्चरणांश्च
विक्षिपन्
।
प्रस्विन्नगात्रः
परिवृत्तलोचनः
पपात
लेण्डं
विसृजन्
क्षितौ
व्यसुः
9
▾
Meaning
Keep
तद्देहतः
कर्कटिकाफलोपमाद्
व्यसोरपाकृष्य
भुजं
महाभुजः
।
अविस्मितोऽयत्नहतारिरुत्स्मयैः
प्रसूनवषैदिविषद्भिरीडितः
10
▾
Meaning
Keep
देवर्षिरुपसङ्गम्य
भागवतप्रवरो
नृप
।
कृष्णमक्लिष्टकर्माणं
रहस्येतदभाषत
11
▾
Meaning
Keep
कृष्ण
कृष्णाप्रमेयात्मन्
योगेश
जगदीश्वर
।
वासुदेवाखिलावास
सात्वतां
प्रवर
प्रभो
12
▾
Meaning
Keep
त्वमात्मा
सर्वभूतानामेको
ज्योतिरिवैधसाम्
।
गूढो
गुहाशयः
साक्षी
महापुरुष
ईश्वरः
13
▾
Meaning
Keep
आत्मनाऽऽमाश्रयः
पूर्वं
मायया
ससृजे
गुणान्
।
तैरिदं
सत्यसङ्कल्पः
सृजस्यत्स्यवसीश्वरः
14
▾
Meaning
Keep
स
त्वं
भूधरभूतानां
दैत्यप्रमथरक्षसाम्
।
अवतीर्णो
विनाशाय
साधुनां
रक्षणाय
च
15
▾
Meaning
Keep
दिष्ट्या
ते
निहतो
दैत्यो
लीलयायं
हयाकृतिः
।
यस्य
हेषितसंत्रस्तास्त्यजन्त्यनिमिषा
दिवम्
16
▾
Meaning
Keep
चाणूरं
मुष्टिकं
चैव
मल्लानन्यांश्च
हस्तिनम्
।
कंसं
च
निहतं
द्रक्ष्ये
परश्वोऽहनि
ते
विभो
17
▾
Meaning
Keep
तस्यानु
शङ्खयवनमुराणां
नरकस्य
च
।
पारिजातापहरणमिन्द्रस्य
च
पराजयम्
18
▾
Meaning
Keep
उद्वाहं
वीरकन्यानां
वीर्यशुल्कादिलक्षणम्
।
नृगस्य
मोक्षणं
शापाद्द्वारकायां
जगत्पते
19
▾
Meaning
Keep
स्यमन्तकस्य
च
मणेरादानं
सह
भार्यया
।
मृतपुत्रप्रदान
च
ब्राह्मणस्य
स्वधामतः
20
▾
Meaning
Keep
पौण्ड्रकस्य
वधं
पश्चात्
काशिपुर्याश्च
दीपनम्
।
दन्तवक्रस्य
निधनं
चैद्यस्य
च
महाक्रतौ
21
▾
Meaning
Keep
यानि
चान्यानि
वीर्याणि
द्वारकामावसन्
भवान्
।
कर्ता
द्रक्ष्याम्यहं
तानि
गेयानि
कविभिर्भुवि
22
▾
Meaning
Keep
अथ
ते
कालरूपस्य
क्षपयिष्णोरमुष्य
वै
।
अक्षौहिणीनां
निधनं
द्रक्ष्याम्यर्जुनसारथेः
23
▾
Meaning
Keep
विशुद्धविज्ञानघनं
स्वसंस्थया
समाप्तसर्वार्थममोघवाञ्छितम्
।
स्वतेजसा
नित्यनिवृत्तमाया-
गुणप्रवाहं
भगवन्तमीमहि
24
▾
Meaning
Keep
त्वामीश्वरं
स्वाश्रयमात्ममायया
विनिर्मिताशेषविशेषकल्पनम्
।
क्रीडार्थमद्यात्तमनुष्यविग्रहं
नतोऽस्मि
धुर्यं
यदुवृष्णिसात्वताम्
25
▾
Meaning
Keep
एवं
यदुपतिं
कृष्णं
भागवतप्रवरो
मुनिः
।
प्रणिपत्याभ्यनुज्ञातो
ययौ
तद्दर्शनोत्सवः
26
▾
Meaning
Keep
भगवानपि
गोविन्दो
हत्वा
केशिनमाहवे
।
पशूनपालयत्
पालैः
प्रीतैर्व्रजसुखावह
27
▾
Meaning
Keep
एकदा
ते
पशून्
पालाश्चारयन्तोऽद्रिसानुषु
।
चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः
28
▾
Meaning
Keep
तत्रासन्
कतिचिच्चोराः
पालाश्च
कतिचिन्नृप
।
मेषायिताश्च
तत्रैके
विजह्रुरकुतोभयाः
29
▾
Meaning
Keep
मयपुत्रो
महामायो
व्योमो
गोपालवेषधृक्
।
मेषायितानपोवाह
प्रायश्चोरायितो
बहून्
30
▾
Meaning
Keep
गिरिदर्यां
विनिक्षिप्य
नीतं
नीतं
महासुरः
।
शिलया
पिदधे
द्वारं
चतुःपञ्चावशेषिताः
31
▾
Meaning
Keep
तस्य
तत्कर्म
विज्ञाय
कृष्णः
शरणदः
सताम्
।
गोपान्
नयन्तं
जग्राह
वृकं
हरिरिवौजसा
32
▾
Meaning
Keep
स
निजं
रूपमास्थाय
गिरीन्द्रसदृशं
बली
।
इच्छन्
विमोक्तुमात्मानं
नाशक्नोद्ग्रहणातुरः
33
▾
Meaning
Keep
तं
निगृह्याच्युतो
दोर्भ्यां
पातयित्वा
महीतले
।
पश्यतां
दिवि
देवानां
पशुमारममारयत्
34
▾
Meaning
Keep
गुहापिधानं
निर्भिद्य
गोपान्निःसार्य
कृच्छ्रतः
।
स्तूयमानः
सुरैर्गोपैः
प्रविवेश
स्वगोकुलम्
Previous
←
Arista, and the Sending of Akrura
Next
Akrura Goes to Vrndavana
→