Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Arista, and the Sending of Akrura
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
तर्ह्यागतो
गोष्ठमरिष्टो
वृषभासुरः
।
महीं
महाककुत्कायः
कम्पयन्
खुरविक्षताम्
2
▾
Meaning
Keep
रम्भमाणः
खरतरं
पदा
च
विलिखन्
महीम्
।
उद्यम्य
पुच्छं
वप्राणि
विषाणाग्रेण
चोद्धरन्
3
▾
Meaning
Keep
किञ्चित्किञ्चिच्छकृन्मुञ्चन्
मूत्रयन्
स्तब्धलोचनः
।
यस्य
निर्ह्रादितेनाङ्ग
निष्ठुरेण
गवां
नृणाम्
4
▾
Meaning
Keep
पतन्त्यकालतो
गर्भाः
स्रवन्ति
स्म
भयेन
वै
।
निर्विशन्ति
घना
यस्य
ककुद्यचलशङ्कया
5
▾
Meaning
Keep
तं
तीक्ष्णशृङ्गमुद्वीक्ष्य
गोप्यो
गोपाश्च
तत्रसुः
।
पशवो
दुद्रुवुर्भीता
राजन्
संत्यज्य
गोकुलम्
6
▾
Meaning
Keep
कृष्ण
कृष्णेति
ते
सर्वे
गोविन्दं
शरणं
ययुः
।
भगवानपि
तद्वीक्ष्य
गोकुलं
भयविद्रुतम्
7
▾
Meaning
Keep
मा
भैष्टेति
गिराऽऽश्वास्य
वृषासुरमुपाह्वयत्
।
गोपालैः
पशुभिर्मन्द
त्रासितैः
किमसत्तम
8
▾
Meaning
Keep
बलदर्पहाहं
दुष्टानां
त्वद्विधानां
दुरात्मनाम्
।
इत्यास्फोट्याच्युतोऽरिष्टं
तलशब्देन
कोपयन्
9
▾
Meaning
Keep
सख्युरंसे
भुजाभोगं
प्रसार्यावस्थितो
हरिः
।
सोऽप्येवं
कोपितोऽरिष्टः
खुरेणावनिमुल्लिखन्
।
उद्यत्पुच्छभ्रमन्मेघः
क्रुद्धः
कृष्णमुपाद्रवत्
10
▾
Meaning
Keep
अग्रन्यस्तविषाणाग्रः
स्तब्धासृग्लोचनोऽच्युतम्
।
कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा
11
▾
Meaning
Keep
गृहीत्वा
शृङ्गयोस्तं
वा
अष्टादश
पदानि
सः
।
प्रत्यपोवाह
भगवान्
गजः
प्रतिगजं
यथा
12
▾
Meaning
Keep
सोऽपविद्धो
भगवता
पुनरुत्थाय
सत्वरम्
।
आपतत्
स्विन्नसर्वाङ्गो
निःश्वसन्
क्रोधमूर्च्छितः
13
▾
Meaning
Keep
तमापतन्तं
स
निगृह्य
शृङ्गयोः
पदा
समाक्रम्य
निपात्य
भूतले
।
निष्पीडयामास
यथाऽऽर्द्रमम्बरं
कृत्वा
विषाणेन
जघान
सोऽपतत्
14
▾
Meaning
Keep
असृग्वमन्
मूत्रशकृत्समुत्सृजन्
क्षिपंश्च
पादाननवस्थितेक्षणः
।
जगाम
कृच्छ्रं
निरृतेरथ
क्षयं
पुष्पैः
किरन्तो
हरिमीडिरे
सुराः
15
▾
Meaning
Keep
एवं
कुकुद्मिनं
हत्वा
स्तूयमानः
स्वजातिभिः
।
विवेश
गोष्ठं
सबलो
गोपीनां
नयनोत्सवः
16
▾
Meaning
Keep
अरिष्टे
निहते
दैत्ये
कृष्णेनाद्भुतकर्मणा
।
कंसायाथाह
भगवान्
नारदो
देवदर्शनः
17
▾
Meaning
Keep
यशोदायाः
सुतां
कन्यां
देवक्याः
कृष्णमेव
च
।
रामं
च
रोहिणीपुत्रं
वसुदेवेन
बिभ्यता
18
▾
Meaning
Keep
न्यस्तौ
स्वमित्रे
नन्दे
वै
याभ्यां
ते
पुरुषा
हताः
।
निशम्य
तद्भोजपतिः
कोपात्प्रचलितेन्द्रियः
19
▾
Meaning
Keep
निशातमसिमादत्त
वसुदेवजिघांसया
।
निवारितो
नारदेन
तत्सुतौ
मृत्युमात्मनः
20
▾
Meaning
Keep
ज्ञात्वा
लोहमयैः
पाशैर्बबन्ध
सहभार्यया
।
प्रतियाते
तु
देवर्षौ
कंस
आभाष्य
केशिनम्
21
▾
Meaning
Keep
प्रेषयामास
हन्येतां
भवता
रामकेशवौ
।
ततो
मुष्टिकचाणूरशलतोशलकादिकान्
22
▾
Meaning
Keep
अमात्यान्
हस्तिपांश्चैव
समाहूयाह
भोजराट्
।
भो
भो
निशम्यतामेतद्वीरचाणूरमुष्टिकौ
23
▾
Meaning
Keep
नन्दव्रजे
किलासाते
सुतावानकदुन्दुभेः
।
रामकृष्णौ
ततो
मह्यं
मृत्युः
किल
निदर्शितः
24
▾
Meaning
Keep
भवद्भ्यामिह
सम्प्राप्तौ
हन्येतां
मल्ललीलया
।
मञ्चाः
क्रियन्तां
विविधा
मल्लरङ्गपरिश्रिताः
।
पौरा
जानपदाः
सर्वे
पश्यन्तु
स्वैरसंयुगम्
25
▾
Meaning
Keep
महामात्र
त्वया
भद्र
रङ्गद्वार्युपनीयताम्
।
द्विपः
कुवलयापीडो
जहि
तेन
ममाहितौ
26
▾
Meaning
Keep
आरभ्यतां
धनुर्यागश्चतुर्दश्यां
यथाविधि
।
विशसन्तु
पशून्
मेध्यान्
भूतराजाय
मीढुषे
27
▾
Meaning
Keep
इत्याज्ञाप्यार्थतन्त्रज्ञ
आहूय
यदुपुङ्गवम्
।
गृहीत्वा
पाणिना
पाणिं
ततोऽक्रूरमुवाच
ह
28
▾
Meaning
Keep
भो
भो
दानपते
मह्यं
क्रियतां
मैत्रमादृतः
।
नान्यस्त्वत्तो
हिततमो
विद्यते
भोजवृष्णिषु
29
▾
Meaning
Keep
अतस्त्वामाश्रितः
सौम्य
कार्यगौरवसाधनम्
।
यथेन्द्रो
विष्णुमाश्रित्य
स्वार्थमध्यगमद्विभुः
30
▾
Meaning
Keep
गच्छ
नन्दव्रजं
तत्र
सुतावानकदुन्दुभेः
।
आसाते
ताविहानेन
रथेनानय
मा
चिरम्
31
▾
Meaning
Keep
निसृष्टः
किल
मे
मृत्युर्देवैर्वैकुण्ठसंश्रयैः
।
तावानय
समं
गोपैर्नन्दाद्यैः
साभ्युपायनैः
32
▾
Meaning
Keep
घातयिष्य
इहानीतौ
कालकल्पेन
हस्तिना
।
यदि
मुक्तौ
ततो
मल्लैर्घातये
वैद्युतोपमैः
33
▾
Meaning
Keep
तयोर्निहतयोस्तप्तान्
वसुदेवपुरोगमान्
।
तद्बन्धून्निहनिष्यामि
वृष्णिभोजदशार्हकान्
34
▾
Meaning
Keep
उग्रसेनं
च
पितरं
स्थविरं
राज्यकामुकम्
।
तद्भ्रातरं
देवकं
च
ये
चान्ये
विद्विषो
मम
35
▾
Meaning
Keep
ततश्चैषा
मही
मित्र
भवित्री
नष्टकण्टका
।
जरासन्धो
मम
गुरुर्द्विविदो
दयितः
सखा
36
▾
Meaning
Keep
शम्बरो
नरको
बाणो
मय्येव
कृतसौहृदाः
।
तैरहं
सुरपक्षीयान्
हत्वा
भोक्ष्ये
महीं
नृपान्
37
▾
Meaning
Keep
एतज्ज्ञात्वाऽऽनय
क्षिप्रं
रामकृष्णाविहार्भकौ
।
धनुर्मखनिरीक्षार्थं
द्रष्टुं
यदुपुरश्रियम्
38
▾
Meaning
Keep
राजन्
मनीषितं
सध्र्यक्
तव
स्वावद्यमार्जनम्
।
सिद्ध्यसिद्ध्योः
समं
कुर्याद्दैवं
हि
फलसाधनम्
39
▾
Meaning
Keep
मनोरथान्
करोत्युच्चैर्जनो
दैवहतानपि
।
युज्यते
हर्षशोकाभ्यां
तथाप्याज्ञां
करोमि
ते
40
▾
Meaning
Keep
एवमादिश्य
चाक्रूरं
मन्त्रिणश्च
विसृज्य
सः
।
प्रविवेश
गृहं
कंसस्तथाक्रूरः
स्वमालयम्
Previous
←
The Song of the Cowherd Women
Next
Kesi and Vyoma, and Narada's Praise
→