Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Entering Mathura
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स्तुवतस्तस्य
भगवान्
दर्शयित्वा
जले
वपुः
।
भूयः
समाहरत्कृष्णो
नटो
नाट्यमिवात्मनः
2
▾
Meaning
Keep
सोऽपि
चान्तर्हितं
वीक्ष्य
जलादुन्मज्य
सत्वरः
।
कृत्वा
चावश्यकं
सर्वं
विस्मितो
रथमागमत्
3
▾
Meaning
Keep
तमपृच्छद्धृषीकेशः
किं
ते
दृष्टमिवाद्भुतम्
।
भूमौ
वियति
तोये
वा
तथा
त्वां
लक्षयामहे
4
▾
Meaning
Keep
अद्भुतानीह
यावन्ति
भूमौ
वियति
वा
जले
।
त्वयि
विश्वात्मके
तानि
किं
मेऽदृष्टं
विपश्यतः
5
▾
Meaning
Keep
यत्राद्भुतानि
सर्वाणि
भूमौ
वियति
वा
जले
।
तं
त्वानुपश्यतो
ब्रह्मन्
किं
मे
दृष्टमिहाद्भुतम्
6
▾
Meaning
Keep
इत्युक्त्वा
चोदयामास
स्यन्दनं
गान्दिनीसुतः
।
मथुरामनयद्रामं
कृष्णं
चैव
दिनात्यये
7
▾
Meaning
Keep
मार्गे
ग्रामजना
राजंस्तत्र
तत्रोपसंगताः
।
वसुदेवसुतौ
वीक्ष्य
प्रीता
दृष्टिं
न
चाददुः
8
▾
Meaning
Keep
तावद्व्रजौकसस्तत्र
नन्दगोपादयोऽग्रतः
।
पुरोपवनमासाद्य
प्रतीक्षन्तोऽवतस्थिरे
9
▾
Meaning
Keep
तान्
समेत्याह
भगवानक्रूरं
जगदीश्वरः
।
गृहीत्वा
पाणिना
पाणिं
प्रश्रितं
प्रहसन्निव
10
▾
Meaning
Keep
भवान्
प्रविशतामग्रे
सह
यानः
पुरीं
गृहम्
।
वयं
त्विहावमुच्याथ
ततो
द्रक्ष्यामहे
पुरीम्
11
▾
Meaning
Keep
नाहं
भवद्भ्यां
रहितः
प्रवेक्ष्ये
मथुरां
प्रभो
।
त्यक्तुं
नार्हसि
मां
नाथ
भक्तं
ते
भक्तवत्सल
12
▾
Meaning
Keep
आगच्छ
याम
गेहान्नः
सनाथान्
कुर्वधोक्षज
।
सहाग्रजः
सगोपालैः
सुहृद्भिश्च
सुहृत्तम
13
▾
Meaning
Keep
पुनीहि
पादरजसा
गृहान्नो
गृहमेधिनाम्
।
यच्छौचेनानुतृप्यन्ति
पितरः
साग्नयः
सुराः
14
▾
Meaning
Keep
अवनिज्याङ्घ्रियुगलमासीच्छ्लोक्यो
बलिर्महान्
।
ऐश्वर्यमतुलं
लेभे
गतिं
चैकान्तिनां
तु
या
15
▾
Meaning
Keep
आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकाञ्छुचयोऽपुनन्
।
शिरसाधत्त
याः
शर्वःस्वर्याताः
सगरात्मजाः
16
▾
Meaning
Keep
देवदेव
जगन्नाथ
पुण्यश्रवणकीर्तन
।
यदूत्तमोत्तमःश्लोक
नारायण
नमोऽस्तु
ते
17
▾
Meaning
Keep
श्रीभगवानुवाच
आयास्ये भवतो गेहमहमार्यसमन्वितः ।
यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम्
18
▾
Meaning
Keep
एवमुक्तो
भगवता
सोऽक्रूरो
विमना
इव
।
पुरीं
प्रविष्टः
कंसाय
कर्मावेद्य
गृहं
ययौ
19
▾
Meaning
Keep
अथापराह्ने
भगवान्
कृष्णः
सङ्कर्षणान्वितः
।
मथुरां
प्राविशद्गोपैर्दिदृक्षुः
परिवारितः
20
▾
Meaning
Keep
ददर्श
तां
स्फाटिकतुङ्गगोपुर-
द्वारां
बृहद्धेमकपाटतोरणाम्
।
ताम्रारकोष्ठां
परिखादुरासदा-
मुद्यानरम्योपवनोपशोभिताम्
21
▾
Meaning
Keep
सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः
श्रेणीसभाभिर्भवनैरुपस्कृताम्
।
वैदूर्यवज्रामलनीलविद्रुमै-
र्मुक्ताहरिद्भिर्वलभीषु
वेदिषु
22
▾
Meaning
Keep
जुष्टेषु
जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम्
।
संसिक्तरथ्यापणमार्गचत्वरां
प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम्
23
▾
Meaning
Keep
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः
प्रसूनदीपावलिभिः
सपल्लवैः
।
सवृन्दरम्भाक्रमुकैः
सकेतुभिः
स्वलङ्कृतद्वारगृहां
सपट्टिकैः
24
▾
Meaning
Keep
तां
सम्प्रविष्टौ
वसुदेवनन्दनौ
वृतौ
वयस्यैर्नरदेववर्त्मना
।
द्रष्टुं
समीयुस्त्वरिताः
पुरस्त्रियो
हर्म्याणि
चैवारुरुहुर्नृपोत्सुकाः
25
▾
Meaning
Keep
काश्चिद्विपर्यग्धृतवस्त्रभूषणा
विस्मृत्य
चैकं
युगलेष्वथापराः
।
कृतैकपत्रश्रवणैकनूपुरा
नाङ्क्त्वा
द्वितीयं
त्वपराश्च
लोचनम्
26
▾
Meaning
Keep
अश्नन्त्य
एकास्तदपास्य
सोत्सवा
अभ्यज्यमाना
अकृतोपमज्जनाः
।
स्वपन्त्य
उत्थाय
निशम्य
निःस्वनं
प्रपाययन्त्योऽर्भमपोह्य
मातरः
27
▾
Meaning
Keep
मनांसि
तासामरविन्दलोचनः
प्रगल्भलीलाहसितावलोकैः
।
जहार
मत्तद्विरदेन्द्रविक्रमो
दृशां
ददच्छ्रीरमणात्मनोत्सवम्
28
▾
Meaning
Keep
दृष्ट्वा
मुहुः
श्रुतमनुद्रुतचेतसस्तं
तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः
।
आनन्दमूर्तिमुपगुह्य
दृशाऽऽत्मलब्धं
हृष्यत्त्वचो
जहुरनन्तमरिन्दमाधिम्
29
▾
Meaning
Keep
प्रासादशिखरारूढाः
प्रीत्युत्फुल्लमुखाम्बुजाः
।
अभ्यवर्षन्
सौमनस्यैः
प्रमदा
बलकेशवौ
30
▾
Meaning
Keep
दध्यक्षतैः
सोदपात्रैः
स्रग्गन्धैरभ्युपायनैः
।
तावानर्चुः
प्रमुदितास्तत्र
तत्र
द्विजातयः
31
▾
Meaning
Keep
ऊचुः
पौरा
अहो
गोप्यस्तपः
किमचरन्
महत्
।
या
ह्येतावनुपश्यन्ति
नरलोकमहोत्सवौ
32
▾
Meaning
Keep
रजकं
कञ्चिदायान्तं
रङ्गकारं
गदाग्रजः
।
दृष्ट्वायाचत
वासांसि
धौतान्यत्युत्तमानि
च
33
▾
Meaning
Keep
देह्यावयोः
समुचितान्यङ्ग
वासांसि
चार्हतोः
।
भविष्यति
परं
श्रेयो
दातुस्ते
नात्र
संशयः
34
▾
Meaning
Keep
स
याचितो
भगवता
परिपूर्णेन
सर्वतः
।
साक्षेपं
रुषितः
प्राह
भृत्यो
राज्ञः
सुदुर्मदः
35
▾
Meaning
Keep
ईदृशान्येव
वासांसी
नित्यं
गिरिवनेचराः
।
परिधत्त
किमुद्वृत्ता
राजद्रव्याण्यभीप्सथ
36
▾
Meaning
Keep
याताशु
बालिशा
मैवं
प्रार्थ्यं
यदि
जिजीवीषा
।
बध्नन्ति
घ्नन्ति
लुम्पन्ति
दृप्तं
राजकुलानि
वै
37
▾
Meaning
Keep
एवं
विकत्थमानस्य
कुपितो
देवकीसुतः
।
रजकस्य
कराग्रेण
शिरः
कायादपातयत्
38
▾
Meaning
Keep
तस्यानुजीविनः
सर्वे
वासः
कोशान्
विसृज्य
वै
।
दुद्रुवुः
सर्वतो
मार्गं
वासांसि
जगृहेऽच्युतः
39
▾
Meaning
Keep
वसित्वाऽऽत्मप्रिये
वस्त्रे
कृष्णः
सङ्कर्षणस्तथा
।
शेषाण्यादत्त
गोपेभ्यो
विसृज्य
भुवि
कानिचित्
40
▾
Meaning
Keep
ततस्तु
वायकः
प्रीतस्तयोर्वेषमकल्पयत्
।
विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः
41
▾
Meaning
Keep
नानालक्षणवेषाभ्यां
कृष्णरामौ
विरेजतुः
।
स्वलङ्कृतौ
बालगजौ
पर्वणीव
सितेतरौ
42
▾
Meaning
Keep
तस्य
प्रसन्नो
भगवान्
प्रादात्सारूप्यमात्मनः
।
श्रियं
च
परमां
लोके
बलैश्वर्यस्मृतीन्द्रियम्
43
▾
Meaning
Keep
ततः
सुदाम्नो
भवनं
मालाकारस्य
जग्मतुः
।
तौ
दृष्ट्वा
स
समुत्थाय
ननाम
शिरसा
भुवि
44
▾
Meaning
Keep
तयोरासनमानीय
पाद्यं
चार्घ्यार्हणादिभिः
।
पूजां
सानुगयोश्चक्रे
स्रक्ताम्बूलानुलेपनैः
45
▾
Meaning
Keep
प्राह
नः
सार्थकं
जन्म
पावितं
च
कुलं
प्रभो
।
पितृदेवर्षयो
मह्यं
तुष्टा
ह्यागमनेन
वाम्
46
▾
Meaning
Keep
भवन्तौ
किल
विश्वस्य
जगतः
कारणं
परम्
।
अवतीर्णाविहांशेन
क्षेमाय
च
भवाय
च
47
▾
Meaning
Keep
न
हि
वां
विषमा
दृष्टिः
सुहृदोर्जगदात्मनोः
।
समयोः
सर्वभूतेषु
भजन्तं
भजतोरपि
48
▾
Meaning
Keep
तावाज्ञापयतं
भृत्यं
किमहं
करवाणि
वाम्
।
पुंसोऽत्यनुग्रहो
ह्येष
भवद्भिर्यन्नियुज्यते
49
▾
Meaning
Keep
इत्यभिप्रेत्य
राजेन्द्र
सुदामा
प्रीतमानसः
।
शस्तैः
सुगन्धैः
कुसुमैर्माला
विरचिता
ददौ
50
▾
Meaning
Keep
ताभिः
स्वलङ्कृतौ
प्रीतौ
कृष्णरामौ
सहानुगौ
।
प्रणताय
प्रपन्नाय
ददतुर्वरदौ
वरान्
51
▾
Meaning
Keep
सोऽपि
वव्रेऽचलां
भक्तिं
तस्मिन्नेवाखिलात्मनि
।
तद्भक्तेषु
च
सौहार्दं
भूतेषु
च
दयां
पराम्
52
▾
Meaning
Keep
इति
तस्मै
वरं
दत्त्वा
श्रियं
चान्वयवर्धिनीम्
।
बलमायुर्यशःकान्तिं
निर्जगाम
सहाग्रजः
Previous
←
Akrura's Praise
Next
The Bow, and the Night Before
→