Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Bow, and the Night Before
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
व्रजन्
राजपथेन
माधवः
स्त्रियं
गृहीताङ्गविलेपभाजनाम्
।
विलोक्य
कुब्जां
युवतीं
वराननां
पप्रच्छ
यान्तीं
प्रहसन्
रसप्रदः
2
▾
Meaning
Keep
का
त्वं
वरोर्वेतदु
हानुलेपनं
कस्याङ्गने
वा
कथयस्व
साधु
नः
।
देह्यावयोरङ्गविलेपमुत्तमं
श्रेयस्ततस्ते
न
चिराद्भविष्यति
3
▾
Meaning
Keep
सैरन्ध्र्युवाच ।
दास्यस्म्यहं सुन्दर कंससम्मता
त्रिवक्रनामा ह्यनुलेपकर्मणि ।
मद्भावितं भोजपतेरतिप्रियं
विना युवां कोऽन्यतमस्तदर्हति
4
▾
Meaning
Keep
रूपपेशलमाधुर्यहसितालापवीक्षितैः
।
धर्षितात्मा
ददौ
सान्द्रमुभयोरनुलेपनम्
5
▾
Meaning
Keep
ततस्तावङ्गरागेण
स्ववर्णेतरशोभिना
।
सम्प्राप्तपरभागेन
शुशुभातेऽनुरञ्जितौ
6
▾
Meaning
Keep
प्रसन्नो
भगवान्
कुब्जां
त्रिवक्रां
रुचिराननाम्
।
ऋज्वीं
कर्तुं
मनश्चक्रे
दर्शयन्
दर्शने
फलम्
7
▾
Meaning
Keep
पद्भ्यामाक्रम्य
प्रपदे
द्व्यङ्गुल्युत्तानपाणिना
।
प्रगृह्य
चिबुकेऽध्यात्ममुदनीनमदच्युतः
8
▾
Meaning
Keep
सा
तदर्जुसमानाङ्गी
बृहच्छ्रोणिपयोधरा
।
मुकुन्दस्पर्शनात्सद्यो
बभूव
प्रमदोत्तमा
9
▾
Meaning
Keep
ततो
रूपगुणौदार्यसम्पन्ना
प्राह
केशवम्
।
उत्तरीयान्तमाकृष्य
स्मयन्ती
जातहृच्छया
10
▾
Meaning
Keep
एहि
वीर
गृहं
यामो
न
त्वां
त्यक्तुमिहोत्सहे
।
त्वयोन्मथितचित्तायाः
प्रसीद
पुरुषर्षभ
11
▾
Meaning
Keep
एवं
स्त्रिया
याच्यमानः
कृष्णो
रामस्य
पश्यतः
।
मुखं
वीक्ष्यानुगानां
च
प्रहसंस्तामुवाच
ह
12
▾
Meaning
Keep
एष्यामि
ते
गृहं
सुभ्रु
पुंसामाधिविकर्शनम्
।
साधितार्थोऽगृहाणां
नः
पान्थानां
त्वं
परायणम्
13
▾
Meaning
Keep
विसृज्य
माध्व्या
वाण्या
तां
व्रजन्
मार्गे
वणिक्पथैः
।
नानोपायनताम्बूलस्रग्गन्धैः
साग्रजोऽर्चितः
14
▾
Meaning
Keep
तद्दर्शनस्मरक्षोभादात्मानं
नाविदन्
स्त्रियः
।
विस्रस्तवासःकबरवलयालेख्यमूर्तयः
15
▾
Meaning
Keep
ततः
पौरान्
पृच्छमानो
धनुषः
स्थानमच्युतः
।
तस्मिन्
प्रविष्टो
ददृशे
धनुरैन्द्रमिवाद्भुतम्
16
▾
Meaning
Keep
पुरुषैर्बहुभिर्गुप्तमर्चितं
परमर्द्धिमत्
।
वार्यमाणो
नृभिः
कृष्णः
प्रसह्य
धनुराददे
17
▾
Meaning
Keep
करेण
वामेन
सलीलमुद्धृतं
सज्यं
च
कृत्वा
निमिषेण
पश्यताम्
।
नृणां
विकृष्य
प्रबभञ्ज
मध्यतो
यथेक्षुदण्डं
मदकर्युरुक्रमः
18
▾
Meaning
Keep
धनुषो
भज्यमानस्य
शब्दः
खं
रोदसी
दिशः
।
पूरयामास
यं
श्रुत्वा
कंसस्त्रासमुपागमत्
19
▾
Meaning
Keep
तद्रक्षिणः
सानुचराः
कुपिता
आततायिनः
।
गृहीतुकामा
आवव्रुर्गृह्यतां
वध्यतामिति
20
▾
Meaning
Keep
अथ
तान्
दुरभिप्रायान्
विलोक्य
बलकेशवौ
।
क्रुद्धौ
धन्वन
आदाय
शकले
तांश्च
जघ्नतुः
21
▾
Meaning
Keep
बलं
च
कंसप्रहितं
हत्वा
शालामुखात्ततः
।
निष्क्रम्य
चेरतुर्हृष्टौ
निरीक्ष्य
पुरसम्पदः
22
▾
Meaning
Keep
तयोस्तदद्भुतं
वीर्यं
निशाम्य
पुरवासिनः
।
तेजः
प्रागल्भ्यं
रूपं
च
मेनिरे
विबुधोत्तमौ
23
▾
Meaning
Keep
तयोर्विचरतोः
स्वैरमादित्योऽस्तमुपेयिवान्
।
कृष्णरामौ
वृतौ
गोपैः
पुराच्छकटमीयतुः
24
▾
Meaning
Keep
गोप्यो
मुकुन्दविगमे
विरहातुरा
या
आशासताशिष
ऋता
मधुपुर्यभूवन्
।
सम्पश्यतां
पुरुषभूषणगात्रलक्ष्मीं
हित्वेतरान्
नु
भजतश्चकमेऽयनं
श्रीः
25
▾
Meaning
Keep
अवनिक्ताङ्घ्रियुगलौ
भुक्त्वा
क्षीरोपसेचनम्
।
ऊषतुस्तां
सुखं
रात्रिं
ज्ञात्वा
कंसचिकीर्षितम्
26
▾
Meaning
Keep
कंसस्तु
धनुषो
भङ्गं
रक्षिणां
स्वबलस्य
च
।
वधं
निशम्य
गोविन्दरामविक्रीडितं
परम्
27
▾
Meaning
Keep
दीर्घप्रजागरो
भीतो
दुर्निमित्तानि
दुर्मतिः
।
बहून्यचष्टोभयथा
मृत्योर्दौत्यकराणि
च
28
▾
Meaning
Keep
अदर्शनं
स्वशिरसः
प्रतिरूपे
च
सत्यपि
।
असत्यपि
द्वितीये
च
द्वैरूप्यं
ज्योतिषां
तथा
29
▾
Meaning
Keep
छिद्रप्रतीतिश्छायायां
प्राणघोषानुपश्रुतिः
।
स्वर्णप्रतीतिर्वृक्षेषु
स्वपदानामदर्शनम्
30
▾
Meaning
Keep
स्वप्ने
प्रेतपरिष्वङ्गः
खरयानं
विषादनम्
।
यायान्नलदमाल्येकस्तैलाभ्यक्तो
दिगम्बरः
31
▾
Meaning
Keep
अन्यानि
चेत्थंभूतानि
स्वप्नजागरितानि
च
।
पश्यन्
मरणसंत्रस्तो
निद्रां
लेभे
न
चिन्तया
32
▾
Meaning
Keep
व्युष्टायां
निशि
कौरव्य
सूर्ये
चाद्भ्यः
समुत्थिते
।
कारयामास
वै
कंसो
मल्लक्रीडामहोत्सवम्
33
▾
Meaning
Keep
आनर्चुः
पुरुषा
रङ्गं
तूर्यभेर्यश्च
जघ्निरे
।
मञ्चाश्चालङ्कृताः
स्रग्भिः
पताकाचैलतोरणैः
34
▾
Meaning
Keep
तेषु
पौरा
जानपदा
ब्रह्मक्षत्रपुरोगमाः
।
यथोपजोषं
विविशू
राजानश्च
कृतासनाः
35
▾
Meaning
Keep
कंसः
परिवृतोऽमात्यै
राजमञ्च
उपाविशत्
।
मण्डलेश्वरमध्यस्थो
हृदयेन
विदूयता
36
▾
Meaning
Keep
वाद्यमानेषु
तूर्येषु
मल्लतालोत्तरेषु
च
।
मल्लाः
स्वलङ्कृताः
दृप्ताः
सोपाध्यायाः
समाविशन्
37
▾
Meaning
Keep
चाणूरो
मुष्टिकः
कूटः
शलस्तोशल
एव
च
।
त
आसेदुरुपस्थानं
वल्गुवाद्यप्रहर्षिताः
38
▾
Meaning
Keep
नन्दगोपादयो
गोपा
भोजराजसमाहुताः
।
निवेदितोपायनास्त
एकस्मिन्
मञ्च
आविशन्
Previous
←
Entering Mathura
Next
The Elephant at the Gate
→