Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Krsna Visits the Serving Woman and Akrura
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
विज्ञाय
भगवान्
सर्वात्मा
सर्वदर्शनः
।
सैरन्ध्र्याः
कामतप्तायाः
प्रियमिच्छन्
गृहं
ययौ
2
▾
Meaning
Keep
महार्होपस्करैराढ्यं
कामोपायोपबृंहितम्
।
मुक्तादामपताकाभिर्वितानशयनासनैः
।
धूपैः
सुरभिभिर्दीपैः
स्रग्गन्धैरपि
मण्डितम्
3
▾
Meaning
Keep
गृहं
तमायान्तमवेक्ष्य
साऽऽसनात्
सद्यःसमुत्थाय
हि
जातसम्भ्रमा
।
यथोपसङ्गम्य
सखीभिरच्युतं
सभाजयामास
सदासनादिभिः
4
▾
Meaning
Keep
तथोद्धवः
साधुतयाभिपूजितो
न्यषीददुर्व्यामभिमृश्य
चासनम्
।
कृष्णोऽपि
तूर्णं
शयनं
महाधनं
विवेश
लोकाचरितान्यनुव्रतः
5
▾
Meaning
Keep
सा
मज्जनालेपदुकूलभूषण-
स्रग्गन्धताम्बूलसुधासवादिभिः
।
प्रसाधितात्मोपससार
माधवं
सव्रीडलीलोत्स्मितविभ्रमेक्षितैः
6
▾
Meaning
Keep
आहूय
कान्तां
नवसङ्गमह्रिया
विशङ्कितां
कङ्कणभूषिते
करे
।
प्रगृह्य
शय्यामधिवेश्य
रामया
रेमेऽनुलेपार्पणपुण्यलेशया
7
▾
Meaning
Keep
सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो-
र्जिघ्रन्त्यनन्तचरणेन
रुजो
मृजन्ती
।
दोर्भ्यां
स्तनान्तरगतं
परिरभ्य
कान्त-
मानन्दमूर्तिमजहादतिदीर्घतापम्
8
▾
Meaning
Keep
सैवं
कैवल्यनाथं
तं
प्राप्य
दुष्प्राप्यमीश्वरम्
।
अङ्गरागार्पणेनाहो
दुर्भगेदमयाचत
9
▾
Meaning
Keep
आहोष्यतामिह
प्रेष्ठ
दिनानि
कतिचिन्मया
।
रमस्व
नोत्सहे
त्यक्तुं
सङ्गं
तेऽम्बुरुहेक्षण
10
▾
Meaning
Keep
तस्यै
कामवरं
दत्त्वा
मानयित्वा
च
मानदः
।
सहोद्धवेन
सर्वेशः
स्वधामागमदर्चिमत्
11
▾
Meaning
Keep
दुराराध्यं
समाराध्य
विष्णुं
सर्वेश्वरेश्वरम्
।
यो
वृणीते
मनोग्राह्यमसत्त्वात्
कुमनीष्यसौ
12
▾
Meaning
Keep
अक्रूरभवनं
कृष्णः
सहरामोद्धवः
प्रभुः
।
किञ्चिच्चिकीर्षयन्
प्रागादक्रूरप्रियकाम्यया
13
▾
Meaning
Keep
स
तान्नरवरश्रेष्ठानाराद्
वीक्ष्य
स्वबान्धवान्
।
प्रत्युत्थाय
प्रमुदितः
परिष्वज्याभिनन्द्य
च
14
▾
Meaning
Keep
ननाम
कृष्णं
रामं
च
स
तैरप्यभिवादितः
।
पूजयामास
विधिवत्कृतासनपरिग्रहान्
15
▾
Meaning
Keep
पादावनेजनीरापो
धारयञ्छिरसा
नृप
।
अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः
16
▾
Meaning
Keep
अर्चित्वा
शिरसाऽऽनम्य
पादावङ्कगतौ
मृजन्
।
प्रश्रयावनतोऽक्रूरः
कृष्णरामावभाषत
17
▾
Meaning
Keep
दिष्ट्या
पापो
हतः
कंसः
सानुगो
वामिदं
कुलम्
।
भवद्भ्यामुद्धृतं
कृच्छ्राद्दुरन्ताच्च
समेधितम्
18
▾
Meaning
Keep
युवां
प्रधानपुरुषौ
जगद्धेतू
जगन्मयौ
।
भवद्भ्यां
न
विना
किञ्चित्परमस्ति
न
चापरम्
19
▾
Meaning
Keep
आत्मसृष्टमिदं
विश्वमन्वाविश्य
स्वशक्तिभिः
।
ईयते
बहुधा
ब्रह्मन्
श्रुतप्रत्यक्षगोचरम्
20
▾
Meaning
Keep
यथा
हि
भूतेषु
चराचरेषु
मह्यादयो
योनिषु
भान्ति
नाना
।
एवं
भवान्
केवल
आत्मयोनि-
ष्वात्माऽऽत्मतन्त्रो
बहुधा
विभाति
21
▾
Meaning
Keep
सृजस्यथो
लुम्पसि
पासि
विश्वं
रजस्तमःसत्त्वगुणैः
स्वशक्तिभिः
।
न
बध्यसे
तद्गुणकर्मभिर्वा
ज्ञानात्मनस्ते
क्व
च
बन्धहेतुः
22
▾
Meaning
Keep
देहाद्युपाधेरनिरूपितत्वा-
द्भवो
न
साक्षान्न
भिदाऽऽत्मनः
स्यात्
।
अतो
न
बन्धस्तव
नैव
मोक्षः
स्यातां
निकामस्त्वयि
नोऽविवेकः
23
▾
Meaning
Keep
त्वयोदितोऽयं
जगतो
हिताय
यदा
यदा
वेदपथः
पुराणः
।
बाध्येत
पाखण्डपथैरसद्भिस्तदा
भवान्
सत्त्वगुणं
बिभर्ति
24
▾
Meaning
Keep
स
त्वं
प्रभोऽद्य
वसुदेवगृहेऽवतीर्णः
स्वांशेन
भारमपनेतुमिहासि
भूमेः
।
अक्षौहिणीशतवधेन
सुरेतरांश-
राज्ञाममुष्य
च
कुलस्य
यशो
वितन्वन्
25
▾
Meaning
Keep
अद्येश
नो
वसतयः
खलु
भूरिभागा
यः
सर्वदेवपितृभूतनृदेवमूर्तिः
।
यत्पादशौचसलिलं
त्रिजगत्पुनाति
स
त्वं
जगद्गुरुरधोक्षज
याः
प्रविष्टः
26
▾
Meaning
Keep
कः
पण्डितस्त्वदपरं
शरणं
समीयाद्भक्तप्रियादृतगिरः
सुहृदः
कृतज्ञात्
।
सर्वान्
ददाति
सुहृदो
भजतोऽभिकामानात्मानमप्युपचयापचयौ
न
यस्य
27
▾
Meaning
Keep
दिष्ट्या
जनार्दन
भवानिह
नः
प्रतीतो
योगेश्वरैरपि
दुरापगतिः
सुरेशैः
।
छिन्ध्याशु
नः
सुतकलत्रधनाप्तगेह-
देहादिमोहरशनां
भवदीयमायाम्
28
▾
Meaning
Keep
इत्यर्चितः
संस्तुतश्च
भक्तेन
भगवान्
हरिः
।
अक्रूरं
सस्मितं
प्राह
गीर्भिः
सम्मोहयन्निव
29
▾
Meaning
Keep
श्रीभगवानुवाच ।
त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।
वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः
30
▾
Meaning
Keep
भवद्विधा
महाभागा
निषेव्या
अर्हसत्तमाः
।
श्रेयस्कामैर्नृभिर्नित्यं
देवाः
स्वार्था
न
साधवः
31
▾
Meaning
Keep
न
ह्यम्मयानि
तीर्थानि
न
देवा
मृच्छिलामयाः
।
ते
पुनन्त्युरुकालेन
दर्शनादेव
साधवः
32
▾
Meaning
Keep
स
भवान्
सुहृदां
वै
नः
श्रेयाञ्छ्रेयश्चिकीर्षया
।
जिज्ञासार्थं
पाण्डवानां
गच्छस्व
त्वं
गजाह्वयम्
33
▾
Meaning
Keep
पितर्युपरते
बालाः
सह
मात्रा
सुदुःखिताः
।
आनीताः
स्वपुरं
राज्ञा
वसन्त
इति
शुश्रुम
34
▾
Meaning
Keep
तेषु
राजाम्बिकापुत्रो
भ्रातृपुत्रेषु
दीनधीः
।
समो
न
वर्तते
नूनं
दुष्पुत्रवशगोऽन्धदृक्
35
▾
Meaning
Keep
गच्छ
जानीहि
तद्वृत्तमधुना
साध्वसाधु
वा
।
विज्ञाय
तद्विधास्यामो
यथा
शं
सुहृदां
भवेत्
36
▾
Meaning
Keep
इत्यक्रूरं
समादिश्य
भगवान्
हरिरीश्वरः
।
सङ्कर्षणोद्धवाभ्यां
वै
ततः
स्वभवनं
ययौ
Previous
←
The Song to the Bee
Next
Akrura at Hastinapura
→