Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Akrura at Hastinapura
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स
गत्वा
हास्तिनपुरं
पौरवेन्द्रयशोऽङ्कितम्
।
ददर्श
तत्राम्बिकेयं
सभीष्मं
विदुरं
पृथाम्
2
▾
Meaning
Keep
सहपुत्रं
च
बाह्लीकं
भारद्वाजं
सगौतमम्
।
कर्णं
सुयोधनं
द्रौणिं
पाण्डवान्
सुहृदोऽपरान्
3
▾
Meaning
Keep
यथावदुपसङ्गम्य
बन्धुभिर्गान्दिनीसुतः
।
सम्पृष्टस्तैः
सुहृद्वार्तां
स्वयं
चापृच्छदव्ययम्
4
▾
Meaning
Keep
उवास
कतिचिन्मासान्
राज्ञो
वृत्तविवित्सया
।
दुष्प्रजस्याल्पसारस्य
खलच्छन्दानुवर्तिनः
5
▾
Meaning
Keep
तेज
ओजो
बलं
वीर्यं
प्रश्रयादींश्च
सद्गुणान्
।
प्रजानुरागं
पार्थेषु
न
सहद्भिश्चिकीर्षितम्
6
▾
Meaning
Keep
कृतं
च
धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम्
।
आचख्यौ
सर्वमेवास्मै
पृथा
विदुर
एव
च
7
▾
Meaning
Keep
पृथा
तु
भ्रातरं
प्राप्तमक्रूरमुपसृत्य
तम्
।
उवाच
जन्मनिलयं
स्मरन्त्यश्रुकलेक्षणा
8
▾
Meaning
Keep
अपि
स्मरन्ति
नः
सौम्य
पितरौ
भ्रातरश्च
मे
।
भगिन्यौ
भ्रातृपुत्राश्च
जामयः
सख्य
एव
च
9
▾
Meaning
Keep
भ्रात्रेयो
भगवान्
कृष्णः
शरण्यो
भक्तवत्सलः
।
पैतृष्वस्रेयान्
स्मरति
रामश्चाम्बुरुहेक्षणः
10
▾
Meaning
Keep
सापत्नमध्ये
शोचन्तीं
वृकानां
हरिणीमिव
।
सान्त्वयिष्यति
मां
वाक्यैः
पितृहीनांश्च
बालकान्
11
▾
Meaning
Keep
कृष्ण
कृष्ण
महायोगिन्
विश्वात्मन्
विश्वभावन
।
प्रपन्नां
पाहि
गोविन्द
शिशुभिश्चावसीदतीम्
12
▾
Meaning
Keep
नान्यत्तव
पदाम्भोजात्पश्यामि
शरणं
नृणाम्
।
बिभ्यतां
मृत्युसंसारादीश्वरस्यापवर्गिकात्
13
▾
Meaning
Keep
नमः
कृष्णाय
शुद्धाय
ब्रह्मणे
परमात्मने
।
योगेश्वराय
योगाय
त्वामहं
शरणं
गता
14
▾
Meaning
Keep
इत्यनुस्मृत्य
स्वजनं
कृष्णं
च
जगदीश्वरम्
।
प्रारुदद्दुःखिता
राजन्
भवतां
प्रपितामही
15
▾
Meaning
Keep
समदुःखसुखोऽक्रूरो
विदुरश्च
महायशाः
।
सान्त्वयामासतुः
कुन्तीं
तत्पुत्रोत्पत्तिहेतुभिः
16
▾
Meaning
Keep
यास्यन्
राजानमभ्येत्य
विषमं
पुत्रलालसम्
।
अवदत्सुहृदां
मध्ये
बन्धुभिः
सौहृदोदितम्
17
▾
Meaning
Keep
भो
भो
वैचित्रवीर्य
त्वं
कुरूणां
कीर्तिवर्धन
।
भ्रातर्युपरते
पाण्डावधुनाऽऽसनमास्थितः
18
▾
Meaning
Keep
धर्मेण
पालयन्नुर्वीं
प्रजाः
शीलेन
रञ्जयन्
।
वर्तमानः
समः
स्वेषु
श्रेयः
कीर्तिमवाप्स्यसि
19
▾
Meaning
Keep
अन्यथा
त्वाचरँल्लोके
गर्हितो
यास्यसे
तमः
।
तस्मात्
समत्वे
वर्तस्व
पाण्डवेष्वात्मजेषु
च
20
▾
Meaning
Keep
नेह
चात्यन्तसंवासः
कर्हिचित्
केनचित्
सह
।
राजन्
स्वेनापि
देहेन
किमु
जायात्मजादिभिः
21
▾
Meaning
Keep
एकः
प्रसूयते
जन्तुरेक
एव
प्रलीयते
।
एकोऽनुभुङ्क्ते
सुकृतमेक
एव
च
दुष्कृतम्
22
▾
Meaning
Keep
अधर्मोपचितं
वित्तं
हरन्त्यन्येऽल्पमेधसः
।
सम्भोजनीयापदेशैर्जलानीव
जलौकसः
23
▾
Meaning
Keep
पुष्णाति
यानधर्मेण
स्वबुद्ध्या
तमपण्डितम्
।
तेऽकृतार्थं
प्रहिण्वन्ति
प्राणा
रायः
सुतादयः
24
▾
Meaning
Keep
स्वयं
किल्बिषमादाय
तैस्त्यक्तो
नार्थकोविदः
।
असिद्धार्थो
विशत्यन्धं
स्वधर्मविमुखस्तमः
25
▾
Meaning
Keep
तस्माल्लोकमिमं
राजन्
स्वप्नमायामनोरथम्
।
वीक्ष्यायम्यात्मनाऽऽत्मानं
समः
शान्तो
भव
प्रभो
26
▾
Meaning
Keep
यथा
वदति
कल्याणीं
वाचं
दानपते
भवान्
।
तथानया
न
तृप्यामि
मर्त्यः
प्राप्य
यथामृतम्
27
▾
Meaning
Keep
तथापि
सूनृता
सौम्य
हृदि
न
स्थीयते
चले
।
पुत्रानुरागविषमे
विद्युत्सौदामनी
यथा
28
▾
Meaning
Keep
ईश्वरस्य
विधिं
को
नु
विधुनोत्यन्यथा
पुमान्
।
भूमेर्भारावताराय
योऽवतीर्णो
यदोःकुले
29
▾
Meaning
Keep
यो
दुर्विमर्शपथया
निजमाययेदं
सृष्ट्वा
गुणान्
विभजते
तदनुप्रविष्टः
।
तस्मै
नमो
दुरवबोधविहारतन्त्र-
संसारचक्रगतये
परमेश्वराय
30
▾
Meaning
Keep
इत्यभिप्रेत्य
नृपतेरभिप्रायं
स
यादवः
।
सुहृद्भिः
समनुज्ञातः
पुनर्यदुपुरीमगात्
31
▾
Meaning
Keep
शशंस
रामकृष्णाभ्यां
धृतराष्ट्रविचेष्टितम्
।
पाण्डवान्
प्रति
कौरव्य
यदर्थं
प्रेषितः
स्वयम्
Previous
←
Krsna Visits the Serving Woman and Akrura
Next
Jarasandha's Sieges and the City in the Sea
→