Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Syamantaka Jewel
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सत्राजितः
स्वतनयां
कृष्णाय
कृतकिल्बिषः
।
स्यमन्तकेन
मणिना
स्वयमुद्यम्य
दत्तवान्
2
▾
Meaning
Keep
सत्राजितः
किमकरोद्
ब्रह्मन्
कृष्णस्य
किल्बिषः
।
स्यमन्तकः
कुतस्तस्य
कस्माद्
दत्ता
सुता
हरेः
3
▾
Meaning
Keep
आसीत्
सत्राजितः
सूर्यो
भक्तस्य
परमः
सखा
।
प्रीतस्तस्मै
मणिं
प्रादात्
स
च
तुष्टः
स्यमन्तकम्
4
▾
Meaning
Keep
स
तं
बिभ्रन्
मणिं
कण्ठे
भ्राजमानो
यथा
रविः
।
प्रविष्टो
द्वारकां
राजंस्तेजसा
नोपलक्षितः
5
▾
Meaning
Keep
तं
विलोक्य
जना
दूरात्तेजसा
मुष्टदृष्टयः
।
दीव्यतेऽक्षैर्भगवते
शशंसुः
सूर्यशङ्किताः
6
▾
Meaning
Keep
नारायण
नमस्तेऽस्तु
शङ्खचक्रगदाधर
।
दामोदरारविन्दाक्ष
गोविन्द
यदुनन्दन
7
▾
Meaning
Keep
एष
आयाति
सविता
त्वां
दिदृक्षुर्जगत्पते
।
मुष्णन्
गभस्तिचक्रेण
नृणां
चक्षूंषि
तिग्मगुः
8
▾
Meaning
Keep
नन्वन्विच्छन्ति
ते
मार्गं
त्रिलोक्यां
विबुधर्षभाः
।
ज्ञात्वाद्य
गूढं
यदुषु
द्रष्टुं
त्वां
यात्यजः
प्रभो
9
▾
Meaning
Keep
निशम्य
बालवचनं
प्रहस्याम्बुजलोचनः
।
प्राह
नासौ
रविर्देवः
सत्राजिन्मणिना
ज्वलन्
10
▾
Meaning
Keep
सत्राजित्स्वगृहं
श्रीमत्कृतकौतुकमङ्गलम्
।
प्रविश्य
देवसदने
मणिं
विप्रैर्न्यवेशयत्
11
▾
Meaning
Keep
दिने
दिने
स्वर्णभारानष्टौ
स
सृजति
प्रभो
।
दुर्भिक्षमार्यरिष्टानि
सर्पाधिव्याधयोऽशुभाः
।
न
सन्ति
मायिनस्तत्र
यत्रास्तेऽभ्यर्चितो
मणिः
12
▾
Meaning
Keep
स
याचितो
मणिं
क्वापि
यदुराजाय
शौरिणा
।
नैवार्थकामुकः
प्रादाद्याच्ञाभङ्गमतर्कयन्
13
▾
Meaning
Keep
तमेकदा
मणिं
कण्ठे
प्रतिमुच्य
महाप्रभम्
।
प्रसेनो
हयमारुह्य
मृगायां
व्यचरद्
वने
14
▾
Meaning
Keep
प्रसेनं
सहयं
हत्वा
मणिमाच्छिद्य
केसरी
।
गिरिं
विशञ्जाम्बवता
निहतो
मणिमिच्छता
15
▾
Meaning
Keep
सोऽपि
चक्रे
कुमारस्य
मणिं
क्रीडनकं
बिले
।
अपश्यन्
भ्रातरं
भ्राता
सत्राजित्पर्यतप्यत
16
▾
Meaning
Keep
प्रायः
कृष्णेन
निहतो
मणिग्रीवो
वनं
गतः
।
भ्राता
ममेति
तच्छ्रुत्वा
कर्णे
कर्णेऽजपञ्जनाः
17
▾
Meaning
Keep
भगवांस्तदुपश्रुत्य
दुर्यशो
लिप्तमात्मनि
।
मार्ष्टुं
प्रसेनपदवीमन्वपद्यत
नागरैः
18
▾
Meaning
Keep
हतं
प्रसेनमश्वं
च
वीक्ष्य
केसरिणा
वने
।
तं
चाद्रिपृष्ठे
निहतमृक्षेण
ददृशुर्जनाः
19
▾
Meaning
Keep
ऋक्षराजबिलं
भीममन्धेन
तमसाऽऽवृतम्
।
एको
विवेश
भगवानवस्थाप्य
बहिः
प्रजाः
20
▾
Meaning
Keep
तत्र
दृष्ट्वा
मणिश्रेष्ठं
बालक्रीडनकं
कृतम्
।
हर्तुं
कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके
21
▾
Meaning
Keep
तमपूर्वं
नरं
दृष्ट्वा
धात्री
चुक्रोश
भीतवत्
।
तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो
जाम्बवान्
बलिनां
वरः
22
▾
Meaning
Keep
स
वै
भगवता
तेन
युयुधे
स्वामिनाऽऽत्मनः
।
पुरुषं
प्राकृतं
मत्वा
कुपितो
नानुभाववित्
23
▾
Meaning
Keep
द्वन्द्वयुद्धं
सुतुमुलमुभयोर्विजिगीषतोः
।
आयुधाश्मद्रुमैर्दोर्भिः
क्रव्यार्थे
श्येनयोरिव
24
▾
Meaning
Keep
आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः
।
वज्रनिष्पेषपरुषैरविश्रममहर्निशम्
25
▾
Meaning
Keep
कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः
।
क्षीणसत्त्वः
स्विन्नगात्रस्तमाहातीव
विस्मितः
Hymn
26
▾
Meaning
Keep
जाने
त्वां
सर्वभूतानां
प्राण
ओजः
सहो
बलम्
।
विष्णुं
पुराणपुरुषं
प्रभविष्णुमधीश्वरम्
27
▾
Meaning
Keep
त्वं
हि
विश्वसृजां
स्रष्टा
सृज्यानामपि
यच्च
सत्
।
कालःकलयतामीशः
पर
आत्मा
तथाऽऽत्मनाम्
28
▾
Meaning
Keep
यस्येषदुत्कलितरोषकटाक्षमोक्षै-
र्वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः
।
सेतुः
कृतः
स्वयश
उज्ज्वलिता
च
लङ्का
रक्षः
शिरांसि
भुवि
पेतुरिषुक्षतानि
29
▾
Meaning
Keep
इति
विज्ञातविज्ञानमृक्षराजानमच्युतः
।
व्याजहार
महाराज
भगवान्
देवकीसुतः
30
▾
Meaning
Keep
अभिमृश्यारविन्दाक्षः
पाणिना
शंकरेण
तम्
।
कृपया
परया
भक्तं
प्रेमगम्भीरया
गिरा
31
▾
Meaning
Keep
मणिहेतोरिह
प्राप्ता
वयमृक्षपते
बिलम्
।
मिथ्याभिशापं
प्रमृजन्नात्मनो
मणिनामुना
32
▾
Meaning
Keep
इत्युक्तः
स्वां
दुहितरं
कन्यां
जाम्बवतीं
मुदा
।
अर्हणार्थं
स
मणिना
कृष्णायोपजहार
ह
33
▾
Meaning
Keep
अदृष्ट्वा
निर्गमं
शौरेः
प्रविष्टस्य
बिलं
जनाः
।
प्रतीक्ष्य
द्वादशाहानि
दुःखिताः
स्वपुरं
ययुः
34
▾
Meaning
Keep
निशम्य
देवकी
देवी
रुक्मिण्यानकदुन्दुभिः
।
सुहृदो
ज्ञातयोऽशोचन्
बिलात्कृष्णमनिर्गतम्
35
▾
Meaning
Keep
सत्राजितं
शपन्तस्ते
दुःखिता
द्वारकौकसः
।
उपतस्थुर्महामायां
दुर्गां
कृष्णोपलब्धये
36
▾
Meaning
Keep
तेषां
तु
देव्युपस्थानात्प्रत्यादिष्टाशिषा
स
च
।
प्रादुर्बभूव
सिद्धार्थः
सदारो
हर्षयन्
हरिः
37
▾
Meaning
Keep
उपलभ्य
हृषीकेशं
मृतं
पुनरिवागतम्
।
सह
पत्न्या
मणिग्रीवं
सर्वे
जातमहोत्सवाः
38
▾
Meaning
Keep
सत्राजितं
समाहूय
सभायां
राजसन्निधौ
।
प्राप्तिं
चाख्याय
भगवान्
मणिं
तस्मै
न्यवेदयत्
39
▾
Meaning
Keep
स
चातिव्रीडितो
रत्नं
गृहीत्वावाङ्मुखस्ततः
।
अनुतप्यमानो
भवनमगमत्स्वेन
पाप्मना
40
▾
Meaning
Keep
सोऽनुध्यायंस्तदेवाघं
बलवद्विग्रहाकुलः
।
कथं
मृजाम्यात्मरजः
प्रसीदेद्वाच्युतः
कथम्
41
▾
Meaning
Keep
किं
कृत्वा
साधु
मह्यं
स्यान्न
शपेद्वा
जनो
यथा
।
अदीर्घदर्शनं
क्षुद्रं
मूढं
द्रविणलोलुपम्
42
▾
Meaning
Keep
दास्ये
दुहितरं
तस्मै
स्त्रीरत्नं
रत्नमेव
च
।
उपायोऽयं
समीचीनस्तस्य
शान्तिर्न
चान्यथा
43
▾
Meaning
Keep
एवं
व्यवसितो
बुद्ध्या
सत्राजित्स्वसुतां
शुभाम्
।
मणिं
च
स्वयमुद्यम्य
कृष्णायोपजहार
ह
44
▾
Meaning
Keep
तां
सत्यभामां
भगवानुपयेमे
यथाविधि
।
बहुभिर्याचितां
शीलरूपौदार्यगुणान्विताम्
45
▾
Meaning
Keep
भगवानाह
न
मणिं
प्रतीच्छामो
वयं
नृप
।
तवास्तां
देवभक्तस्य
वयं
च
फलभागिनः
46
▾
Meaning
Keep
इति
श्रीमद्भागवाते
महापुराणे
पारमहंस्यां
संहितायां
दशमस्कन्धे
उत्तरार्धे
स्यमन्तको-
पाख्याने
षट्पञ्चाशत्तमोऽध्यायः
Previous
←
Pradyumna Is Stolen and Comes Back
Next
Satadhanvan and the Jewel
→