Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sons of Krsna, and the Dicing at Bhojakata
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एकैकशस्ताः
कृष्णस्य
पुत्रान्
दश
दशाबलाः
।
अजीजनन्ननवमान्
पितुः
सर्वात्मसम्पदा
2
▾
Meaning
Keep
गृहादनपगं
वीक्ष्य
राजपुत्र्योऽच्युतं
स्थितम्
।
प्रेष्ठं
न्यमंसत
स्वं
स्वं
न
तत्तत्त्वविदः
स्त्रियः
3
▾
Meaning
Keep
चार्वब्जकोशवदनायतबाहुनेत्र-
सप्रेमहासरसवीक्षितवल्गुजल्पैः
।
सम्मोहिता
भगवतो
न
मनो
विजेतुं
स्वैर्विभ्रमैः
समशकन्
वनिता
विभूम्नः
4
▾
Meaning
Keep
स्मायावलोकलवदर्शितभावहारि-
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः
।
पत्न्यस्तु
षोडशसहस्रमनङ्गबाणै-
र्यस्येन्द्रियं
विमथितुं
करणैर्न
शेकुः
5
▾
Meaning
Keep
इत्थं
रमापतिमवाप्य
पतिं
स्त्रियस्ता
ब्रह्मादयोऽपि
न
विदुः
पदवीं
यदीयाम्
।
भेजुर्मुदाविरतमेधितयानुराग-
हासावलोकनवसङ्गमलालसाद्यम्
6
▾
Meaning
Keep
प्रत्युद्गमासनवरार्हणपादशौच-
ताम्बूलविश्रमणवीजनगन्धमाल्यैः
।
केशप्रसारशयनस्नपनोपहार्यैः
दासीशता
अपि
विभोर्विदधुः
स्म
दास्यम्
7
▾
Meaning
Keep
तासां
या
दश
पुत्राणां
कृष्णस्त्रीणां
पुरोदिताः
।
अष्टौ
महिष्यस्तत्पुत्रान्
प्रद्युम्नादीन्
गृणामि
ते
8
▾
Meaning
Keep
चारुदेष्णः
सुदेष्णश्च
चारुदेहश्च
वीर्यवान्
।
सुचारुश्चारुगुप्तश्च
भद्रचारुस्तथापरः
9
▾
Meaning
Keep
चारुचन्द्रो
विचारुश्च
चारुश्च
दशमो
हरेः
।
प्रद्युम्नप्रमुखा
जाता
रुक्मिण्यां
नावमाः
पितुः
10
▾
Meaning
Keep
भानुः
सुभानुः
स्वर्भानुः
प्रभानुर्भानुमांस्तथा
।
चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः
11
▾
Meaning
Keep
श्रीभानुः
प्रतिभानुश्च
सत्यभामात्मजा
दश
।
साम्बः
सुमित्रः
पुरुजिच्छतजिच्च
सहस्रजित्
12
▾
Meaning
Keep
विजयश्चित्रकेतुश्च
वसुमान्
द्रविडः
क्रतुः
।
जाम्बवत्याः
सुता
ह्येते
साम्बाद्याः
पितृसम्मताः
13
▾
Meaning
Keep
वीरश्चन्द्रोऽश्वसेनश्च
चित्रगुर्वेगवान्
वृषः
।
आमः
शङ्कुर्वसुः
श्रीमान्
कुन्तिर्नाग्नजितेः
सुताः
14
▾
Meaning
Keep
श्रुतः
कविर्वृषो
वीरः
सुबाहुर्भद्र
एकलः
।
शान्तिर्दर्शः
पूर्णमासः
कालिन्द्याः
सोमकोऽवरः
15
▾
Meaning
Keep
प्रघोषो
गात्रवान्
सिंहो
बलः
प्रबल
ऊर्ध्वगः
।
माद्रयाः
पुत्रा
महाशक्तिः
सह
ओजोऽपराजितः
16
▾
Meaning
Keep
वृको
हर्षोऽनिलो
गृध्रो
वर्धनोऽन्नाद
एव
च
।
महाशः
पावनो
वह्निर्मित्रविन्दात्मजाः
क्षुधिः
17
▾
Meaning
Keep
सङ्ग्रामजिद्बृहत्सेनः
शूरः
प्रहरणोऽरिजित्
।
जयः
सुभद्रो
भद्राया
वाम
आयुश्च
सत्यकः
18
▾
Meaning
Keep
दीप्तिमांस्ताम्रतप्ताद्या
रोहिण्यास्तनया
हरेः
।
प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां
महाबलः
19
▾
Meaning
Keep
पुत्र्यां
तु
रुक्मिणो
राजन्
नाम्ना
भोजकटे
पुरे
।
एतेषां
पुत्रपौत्राश्च
बभूवुः
कोटिशो
नृप
।
मातरः
कृष्णजातानां
सहस्राणि
च
षोडश
20
▾
Meaning
Keep
कथं
रुक्म्यरिपुत्राय
प्रादाद्दुहितरं
युधि
।
कृष्णेन
परिभूतस्तं
हन्तुं
रन्ध्रं
प्रतीक्षते
।
एतदाख्याहि
मे
विद्वन्
द्विषोर्वैवाहिकं
मिथः
21
▾
Meaning
Keep
अनागतमतीतं
च
वर्तमानमतीन्द्रियम्
।
विप्रकृष्टं
व्यवहितं
सम्यक्
पश्यन्ति
योगिनः
22
▾
Meaning
Keep
वृतः
स्वयंवरे
साक्षादनङ्गोऽङ्गयुतस्तया
।
राज्ञः
समेतान्
निर्जित्य
जहारैकरथो
युधि
23
▾
Meaning
Keep
यद्यप्यनुस्मरन्
वैरं
रुक्मी
कृष्णावमानितः
।
व्यतरद्भागिनेयाय
सुतां
कुर्वन्
स्वसुः
प्रियम्
24
▾
Meaning
Keep
रुक्मिण्यास्तनयां
राजन्
कृतवर्मसुतो
बली
।
उपयेमे
विशालाक्षीं
कन्यां
चारुमतीं
किल
25
▾
Meaning
Keep
दौहित्रायानिरुद्धाय
पौत्रीं
रुक्म्याददाद्धरेः
।
रोचनां
बद्धवैरोऽपि
स्वसुः
प्रियचिकीर्षया
।
जानन्नधर्मं
तद्
यौनं
स्नेहपाशानुबन्धनः
26
▾
Meaning
Keep
तस्मिन्नभ्युदये
राजन्
रुक्मिणी
रामकेशवौ
।
पुरं
भोजकटं
जग्मुः
साम्बप्रद्युम्नकादयः
27
▾
Meaning
Keep
तस्मिन्
निवृत्त
उद्वाहे
कालिङ्गप्रमुखा
नृपाः
।
दृप्तास्ते
रुक्मिणं
प्रोचुर्बलमक्षैर्विनिर्जय
28
▾
Meaning
Keep
अनक्षज्ञो
ह्ययं
राजन्नपि
तद्व्यसनं
महत्
।
इत्युक्तो
बलमाहूय
तेनाक्षै
रुक्म्यदीव्यत
29
▾
Meaning
Keep
शतं
सहस्रमयुतं
रामस्तत्राददे
पणम्
।
तं
तु
रुक्म्यजयत्तत्र
कालिङ्गः
प्राहसद्बलम्
।
दन्तान्
सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः
30
▾
Meaning
Keep
ततो
लक्षं
रुक्म्यगृह्णाद्
ग्लहं
तत्राजयद्बलः
।
जितवानहमित्याह
रुक्मी
कैतवमाश्रितः
31
▾
Meaning
Keep
मन्युना
क्षुभितः
श्रीमान्
समुद्र
इव
पर्वणि
।
जात्यारुणाक्षोऽतिरुषा
न्यर्बुदं
ग्लहमाददे
32
▾
Meaning
Keep
तं
चापि
जितवान्
रामो
धर्मेण
छलमाश्रितः
।
रुक्मी
जितं
मयात्रेमे
वदन्तु
प्राश्निका
इति
33
▾
Meaning
Keep
तदाब्रवीन्नभोवाणी
बलेनैव
जितो
ग्लहः
।
धर्मतो
वचनेनैव
रुक्मी
वदति
वै
मृषा
34
▾
Meaning
Keep
तामनादृत्य
वैदर्भो
दुष्टराजन्यचोदितः
।
सङ्कर्षणं
परिहसन्
बभाषे
कालचोदितः
35
▾
Meaning
Keep
नैवाक्षकोविदा
यूयं
गोपाला
वनगोचराः
।
अक्षैर्दीव्यन्ति
राजानो
बाणैश्च
न
भवादृशाः
36
▾
Meaning
Keep
रुक्मिणैवमधिक्षिप्तो
राजभिश्चोपहासितः
।
क्रुद्धः
परिघमुद्यम्य
जघ्ने
तं
नृम्णसंसदि
37
▾
Meaning
Keep
कलिङ्गराजं
तरसा
गृहीत्वा
दशमे
पदे
।
दन्तानपातयत्क्रुद्धो
योऽहसद्विवृतैर्द्विजैः
38
▾
Meaning
Keep
अन्ये
निर्भिन्नबाहूरुशिरसो
रुधिरोक्षिताः
।
राजानो
दुद्रुवुर्भीता
बलेन
परिघार्दिताः
39
▾
Meaning
Keep
निहते
रुक्मिणि
श्याले
नाब्रवीत्
साध्वसाधु
वा
।
रक्मिणीबलयो
राजन्
स्नेहभङ्गभयाद्धरिः
40
▾
Meaning
Keep
ततोऽनिरुद्धं
सह
सूर्यया
वरं
रथं
समारोप्य
ययुः
कुशस्थलीम्
।
रामादयो
भोजकटाद्दशार्हाः
सिद्धाखिलार्था
मधुसूदनाश्रयाः
Previous
←
Krsna Teases Rukmini
Next
Usa's Dream and the Binding of Aniruddha
→