Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Usa's Dream and the Binding of Aniruddha
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
बाणस्य
तनयामूषामुपयेमे
यदूत्तमः
।
तत्र
युद्धमभूद्घोरं
हरिशङ्करयोर्महत्
।
एतत्सर्वं
महायोगिन्
समाख्यातुं
त्वमर्हसि
2
▾
Meaning
Keep
बाणः
पुत्रशतज्येष्ठो
बलेरासीन्महात्मनः
।
येन
वामनरूपाय
हरयेऽदायि
मेदिनी
3
▾
Meaning
Keep
तस्यौरसः
सुतो
बाणः
शिवभक्तिरतः
सदा
।
मान्यो
वदान्यो
धीमांश्च
सत्यसन्धो
दृढव्रतः
4
▾
Meaning
Keep
शोणिताख्ये
पुरे
रम्ये
स
राज्यमकरोत्पुरा
।
तस्य
शम्भोः
प्रसादेन
किङ्करा
इव
तेऽमराः
।
सहस्रबाहुर्वाद्येन
ताण्डवेऽतोषयन्मृडम्
5
▾
Meaning
Keep
भगवान्
सर्वभूतेशः
शरण्यो
भक्तवत्सलः
।
वरेण
छन्दयामास
स
तं
वव्रे
पुराधिपम्
6
▾
Meaning
Keep
स
एकदाऽऽह
गिरिशं
पार्श्वस्थं
वीर्यदुर्मदः
।
किरीटेनार्कवर्णेन
संस्पृशंस्तत्पदाम्बुजम्
7
▾
Meaning
Keep
नमस्ये
त्वां
महादेव
लोकानां
गुरुमीश्वरम्
।
पुंसामपूर्णकामानां
कामपूरामराङ्घ्रिपम्
8
▾
Meaning
Keep
दोःसहस्रं
त्वया
दत्तं
परं
भाराय
मेऽभवत्
।
त्रिलोक्यां
प्रतियोद्धारं
न
लभे
त्वदृते
समम्
9
▾
Meaning
Keep
कण्डूत्या
निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम्
।
आद्यायां
चूर्णयन्नद्रीन्
भीतास्तेऽपि
प्रदुद्रुवुः
10
▾
Meaning
Keep
तच्छ्रुत्वा
भगवान्
क्रुद्धः
केतुस्ते
भज्यते
यदा
।
त्वद्दर्पघ्नं
भवेन्मूढ
संयुगं
मत्समेन
ते
11
▾
Meaning
Keep
इत्युक्तः
कुमतिर्हृष्टः
स्वगृहं
प्राविशन्नृप
।
प्रतीक्षन्
गिरिशादेशं
स्ववीर्यनशनं
कुधीः
12
▾
Meaning
Keep
तस्योषा
नाम
दुहिता
स्वप्ने
प्राद्युम्निना
रतिम्
।
कन्यालभत
कान्तेन
प्रागदृष्टश्रुतेन
सा
13
▾
Meaning
Keep
सा
तत्र
तमपश्यन्ती
क्वासि
कान्तेति
वादिनी
।
सखीनां
मध्य
उत्तस्थौ
विह्वला
व्रीडिता
भृशम्
14
▾
Meaning
Keep
बाणस्य
मन्त्री
कुम्भाण्डश्चित्रलेखा
च
तत्सुता
।
सख्यपृच्छत्सखीमूषां
कौतूहलसमन्विता
15
▾
Meaning
Keep
कं
त्वं
मृगयसे
सुभ्रु
कीदृशस्ते
मनोरथः
।
हस्तग्राहं
न
तेऽद्यापि
राजपुत्र्युपलक्षये
16
▾
Meaning
Keep
दृष्टः
कश्चिन्नरः
स्वप्ने
श्यामः
कमललोचनः
।
पीतवासा
बृहद्बाहुर्योषितां
हृदयङ्गमः
17
▾
Meaning
Keep
तमहं
मृगये
कान्तं
पाययित्वाधरं
मधु
।
क्वापि
यातः
स्पृहयतीं
क्षिप्त्वा
मां
वृजिनार्णवे
18
▾
Meaning
Keep
व्यसनं
तेऽपकर्षामि
त्रिलोक्यां
यदि
भाव्यते
।
तमानेष्ये
नरं
यस्ते
मनोहर्ता
तमादिश
19
▾
Meaning
Keep
इत्युक्त्वा
देवगन्धर्वसिद्धचारणपन्नगान्
।
दैत्यविद्याधरान्
यक्षान्
मनुजांश्च
यथालिखत्
20
▾
Meaning
Keep
मनुजेषु
च
सा
वृष्णीन्
शूरमानकदुन्दुभिम्
।
व्यलिखद्रामकृष्णौ
च
प्रद्युम्नं
वीक्ष्य
लज्जिता
21
▾
Meaning
Keep
अनिरुद्धं
विलिखितं
वीक्ष्योषावाङ्मुखी
ह्रिया
।
सोऽसावसाविति
प्राह
स्मयमाना
महीपते
22
▾
Meaning
Keep
चित्रलेखा
तमाज्ञाय
पौत्रं
कृष्णस्य
योगिनी
।
ययौ
विहायसा
राजन्
द्वारकां
कृष्णपालिताम्
23
▾
Meaning
Keep
तत्र
सुप्तं
सुपर्यङ्के
प्राद्युम्निं
योगमास्थिता
।
गृहीत्वा
शोणितपुरं
सख्यै
प्रियमदर्शयत्
24
▾
Meaning
Keep
सा
च
तं
सुन्दरवरं
विलोक्य
मुदितानना
।
दुष्प्रेक्ष्ये
स्वगृहे
पुम्भी
रेमे
प्राद्युम्निना
समम्
25
▾
Meaning
Keep
परार्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः
।
पानभोजनभक्ष्यैश्च
वाक्यैः
शुश्रूषणार्चितः
26
▾
Meaning
Keep
गूढः
कन्यापुरे
शश्वत्प्रवृद्धस्नेहया
तया
।
नाहर्गणान्
स
बुबुधे
ऊषयापहृतेन्द्रियः
27
▾
Meaning
Keep
तां
तथा
यदुवीरेण
भुज्यमानां
हतव्रताम्
।
हेतुभिर्लक्षयाञ्चक्रुराप्रीतां
दुरवच्छदैः
28
▾
Meaning
Keep
भटा
आवेदयाञ्चक्रू
राजंस्ते
दुहितुर्वयम्
।
विचेष्टितं
लक्षयामः
कन्यायाः
कुलदूषणम्
29
▾
Meaning
Keep
अनपायिभिरस्माभिर्गुप्तायाश्च
गृहे
प्रभो
।
कन्याया
दूषणं
पुम्भिर्दुष्प्रेक्ष्याया
न
विद्महे
30
▾
Meaning
Keep
ततः
प्रव्यथितो
बाणो
दुहितुः
श्रुतदूषणः
।
त्वरितः
कन्यकागारं
प्राप्तोऽद्राक्षीद्यदूद्वहम्
31
▾
Meaning
Keep
कामात्मजं
तं
भुवनैकसुन्दरं
श्यामं
पिशङ्गाम्बरमम्बुजेक्षणम्
।
बृहद्भुजं
कुण्डलकुन्तलत्विषा
स्मितावलोकेन
च
मण्डिताननम्
32
▾
Meaning
Keep
दीव्यन्तमक्षैः
प्रिययाभिनृम्णया
तदङ्गसङ्गस्तनकुङ्कुमस्रजम्
।
बाह्वोर्दधानं
मधुमल्लिकाश्रितां
तस्याग्र
आसीनमवेक्ष्य
विस्मितः
33
▾
Meaning
Keep
स
तं
प्रविष्टं
वृतमाततायिभि-
र्भटैरनीकैरवलोक्य
माधवः
।
उद्यम्य
मौर्वं
परिघं
व्यवस्थितो
यथान्तको
दण्डधरो
जिघांसया
34
▾
Meaning
Keep
जिघृक्षया
तान्
परितः
प्रसर्पतः
शुनो
यथा
शूकरयूथपोऽहनत्
।
ते
हन्यमाना
भवनाद्
विनिर्गता
निर्भिन्नमूर्धोरुभुजाः
प्रदुद्रुवुः
35
▾
Meaning
Keep
तं
नागपाशैर्बलिनन्दनो
बली
घ्नन्तं
स्वसैन्यं
कुपितो
बबन्ध
ह
।
ऊषा
भृशं
शोकविषादविह्वला
बद्धं
निशम्याश्रुकलाक्ष्यरौत्सीत्
Previous
←
The Sons of Krsna, and the Dicing at Bhojakata
Next
The Battle with Bana, and Siva's Praise
→