Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Rama in Vraja, and the Dragging of the Yamuna
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
बलभद्रः
कुरुश्रेष्ठ
भगवान्
रथमास्थितः
।
सुहृद्दिदृक्षुरुत्कण्ठः
प्रययौ
नन्दगोकुलम्
2
▾
Meaning
Keep
परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव
च
।
रामोऽभिवाद्य
पितरावाशीर्भिरभिनन्दितः
3
▾
Meaning
Keep
चिरं
नः
पाहि
दाशार्ह
सानुजो
जगदीश्वरः
।
इत्यारोप्याङ्कमालिङ्ग्य
नेत्रैः
सिषिचतुर्जलैः
4
▾
Meaning
Keep
गोपवृद्धांश्च
विधिवद्यविष्ठैरभिवन्दितः
।
यथावयो
यथासख्यं
यथासम्बन्धमात्मनः
5
▾
Meaning
Keep
समुपेत्याथ
गोपालान्
हास्यहस्तग्रहादिभिः
।
विश्रान्तं
सुखमासीनं
पप्रच्छुः
पर्युपागताः
6
▾
Meaning
Keep
पृष्टाश्चानामयं
स्वेषु
प्रेमगद्गदया
गिरा
।
कृष्णे
कमलपत्राक्षे
संन्यस्ताखिलराधसः
7
▾
Meaning
Keep
कच्चिन्नो
बान्धवा
राम
सर्वे
कुशलमासते
।
कच्चित्स्मरथ
नो
राम
यूयं
दारसुतान्विताः
8
▾
Meaning
Keep
दिष्ट्या
कंसो
हतः
पापो
दिष्ट्या
मुक्ताः
सुहृज्जनाः
।
निहत्य
निर्जित्य
रिपून्
दिष्ट्या
दुर्गं
समाश्रीताः
9
▾
Meaning
Keep
गोप्यो
हसन्त्यः
पप्रच्छू
रामसन्दर्शनादृताः
।
कच्चिदास्ते
सुखं
कृष्णः
पुरस्त्रीजनवल्लभः
10
▾
Meaning
Keep
कच्चित्स्मरति
वा
बन्धून्
पितरं
मातरं
च
सः
।
अप्यसौ
मातरं
द्रष्टुं
सकृदप्यागमिष्यति
।
अपि
वा
स्मरतेऽस्माकमनुसेवां
महाभुजः
11
▾
Meaning
Keep
मातरं
पितरं
भ्रातॄन्
पतीन्
पुत्रान्
स्वसॄनपि
।
यदर्थे
जहिम
दाशार्ह
दुस्त्यजान्
स्वजनान्
प्रभो
12
▾
Meaning
Keep
ता
नः
सद्यः
परित्यज्य
गतः
संछिन्नसौहृदः
।
कथं
नु
तादृशं
स्त्रीभिर्न
श्रद्धीयेत
भाषितम्
13
▾
Meaning
Keep
कथं
नु
गृह्णन्त्यनवस्थितात्मनो
वचः
कृतघ्नस्य
बुधाः
पुरस्त्रियः
।
गृह्णन्ति
वै
चित्रकथस्य
सुन्दर-
स्मितावलोकोच्छ्वसितस्मरातुराः
14
▾
Meaning
Keep
किं
नस्तत्कथया
गोप्यः
कथाः
कथयतापराः
।
यात्यस्माभिर्विना
कालो
यदि
तस्य
तथैव
नः
15
▾
Meaning
Keep
इति
प्रहसितं
शौरेर्जल्पितं
चारु
वीक्षितम्
।
गतिं
प्रेमपरिष्वङ्गं
स्मरन्त्यो
रुरुदुः
स्त्रियः
16
▾
Meaning
Keep
सङ्कर्षणस्ताः
कृष्णस्य
सन्देशैर्हृदयङ्गमैः
।
सान्त्वयामास
भगवान्
नानानुनयकोविदः
17
▾
Meaning
Keep
द्वौ
मासौ
तत्र
चावात्सीन्मधुं
माधवमेव
च
।
रामः
क्षपासु
भगवान्
गोपीनां
रतिमावहन्
18
▾
Meaning
Keep
पूर्णचन्द्रकलामृष्टे
कौमुदीगन्धवायुना
।
यमुनोपवने
रेमे
सेविते
स्त्रीगणैर्वृतः
19
▾
Meaning
Keep
वरुणप्रेषिता
देवी
वारुणी
वृक्षकोटरात्
।
पतन्ती
तद्वनं
सर्वं
स्वगन्धेनाध्यवासयत्
20
▾
Meaning
Keep
तं
गन्धं
मधुधाराया
वायुनोपहृतं
बलः
।
आघ्रायोपगतस्तत्र
ललनाभिः
समं
पपौ
21
▾
Meaning
Keep
उपगीयमानचरितो
वनिताभिर्हलायुध
।
वनेषु
व्यचरत्
क्षीबो
मदविह्वललोचनः
22
▾
Meaning
Keep
स्रग्व्येककुण्डलो
मत्तो
वैजयन्त्या
च
मालया
।
बिभ्रत्स्मितमुखाम्भोजं
स्वेदप्रालेयभूषितम्
23
▾
Meaning
Keep
स
आजुहाव
यमुनां
जलक्रीडार्थमीश्वरः
।
निजं
वाक्यमनादृत्य
मत्त
इत्यापगां
बलः
।
अनागतां
हलाग्रेण
कुपितो
विचकर्ष
ह
24
▾
Meaning
Keep
पापे
त्वं
मामवज्ञाय
यन्नायासि
मयाऽऽहुता
।
नेष्ये
त्वां
लाङ्गलाग्रेण
शतधा
कामचारिणीम्
25
▾
Meaning
Keep
एवं
निर्भर्त्सिता
भीता
यमुना
यदुनन्दनम्
।
उवाच
चकिता
वाचं
पतिता
पादयोर्नृप
26
▾
Meaning
Keep
राम
राम
महाबाहो
न
जाने
तव
विक्रमम्
।
यस्यैकांशेन
विधृता
जगती
जगतः
पते
27
▾
Meaning
Keep
परं
भावं
भगवतो
भगवन्
मामजानतीम्
।
मोक्तुमर्हसि
विश्वात्मन्
प्रपन्नां
भक्तवत्सल
28
▾
Meaning
Keep
ततो
व्यमुञ्चद्यमुनां
याचितो
भगवान्
बलः
।
विजगाह
जलं
स्त्रीभिः
करेणुभिरिवेभराट्
29
▾
Meaning
Keep
कामं
विहृत्य
सलिलादुत्तीर्णायासीताम्बरे
।
भूषणानि
महार्हाणि
ददौ
कान्तिः
शुभां
स्रजम्
30
▾
Meaning
Keep
वसित्वा
वाससी
नीले
मालामामुच्य
काञ्चनीम्
।
रेजे
स्वलङ्कृतो
लिप्तो
माहेन्द्र
इव
वारणः
31
▾
Meaning
Keep
अद्यापि
दृश्यते
राजन्
यमुनाऽऽकृष्टवर्त्मना
।
बलस्यानन्तवीर्यस्य
वीर्यं
सूचयतीव
हि
32
▾
Meaning
Keep
एवं
सर्वा
निशा
याता
एकेव
रमतो
व्रजे
।
रामस्याक्षिप्तचित्तस्य
माधुर्यैर्व्रजयोषिताम्
Previous
←
King Nrga and the Brahmin's Cow
Next
Paundraka, Who Called Himself Vasudeva
→