Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Paundraka, Who Called Himself Vasudeva
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नन्दव्रजं
गते
रामे
करूषाधिपतिर्नृप
।
वासुदेवोऽहमित्यज्ञो
दूतं
कृष्णाय
प्राहिणोत्
2
▾
Meaning
Keep
त्वं
वासुदेवो
भगवानवतीर्णो
जगत्पतिः
।
इति
प्रस्तोभितो
बालैर्मेन
आत्मानमच्युतम्
3
▾
Meaning
Keep
दूतं
च
प्राहिणोन्मन्दः
कृष्णायाव्यक्तवर्त्मने
।
द्वारकायां
यथा
बालो
नृपो
बालकृतोऽबुधः
4
▾
Meaning
Keep
दूतस्तु
द्वारकामेत्य
सभायामास्थितं
प्रभुम्
।
कृष्णं
कमलपत्राक्षं
राजसन्देशमब्रवीत्
5
▾
Meaning
Keep
वासुदेवोऽवतीर्णोऽहमेक
एव
न
चापरः
।
भूतानामनुकम्पार्थं
त्वं
तु
मिथ्याभिधां
त्यज
6
▾
Meaning
Keep
यानि
त्वमस्मच्चिह्नानि
मौढ्याद्बिभर्षि
सात्वत
।
त्यक्त्वैहि
मां
त्वं
शरणं
नो
चेद्देहि
ममाहवम्
7
▾
Meaning
Keep
कत्थनं
तदुपाकर्ण्य
पौण्ड्रकस्याल्पमेधसः
।
उग्रसेनादयः
सभ्या
उच्चकैर्जहसुस्तदा
8
▾
Meaning
Keep
उवाच
दूतं
भगवान्
परिहासकथामनु
।
उत्स्रक्ष्ये
मूढ
चिह्नानि
यैस्त्वमेवं
विकत्थसे
9
▾
Meaning
Keep
मुखं
तदपिधायाज्ञ
कङ्कगृध्रवटैर्वृतः
।
शयिष्यसे
हतस्तत्र
भविता
शरणं
शुनाम्
10
▾
Meaning
Keep
इति
दूतस्तमाक्षेपं
स्वामिने
सर्वमाहरत्
।
कृष्णोऽपि
रथमास्थाय
काशीमुपजगाम
ह
11
▾
Meaning
Keep
पौण्ड्रकोऽपि
तदुद्योगमुपलभ्य
महारथः
।
अक्षौहिणीभ्यां
संयुक्तो
निश्चक्राम
पुराद्द्रुतम्
12
▾
Meaning
Keep
तस्य
काशीपतिर्मित्रं
पार्ष्णिग्राहोऽन्वयान्नृप
।
अक्षौहिणीभिस्तिसृभिरपश्यत्
पौण्ड्रकं
हरिः
13
▾
Meaning
Keep
शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम्
।
बिभ्राणं
कौस्तुभमणिं
वनमालाविभूषितम्
14
▾
Meaning
Keep
कौशेयवाससी
पीते
वसानं
गरुडध्वजम्
।
अमूल्यमौल्याभरणं
स्फुरन्मकरकुण्डलम्
15
▾
Meaning
Keep
दृष्ट्वा
तमात्मनस्तुल्यवेषं
कृत्रिममास्थितम्
।
यथा
नटं
रङ्गगतं
विजहास
भृशं
हरिः
16
▾
Meaning
Keep
शूलैर्गदाभिः
परिघैः
शक्त्यृष्टिप्रासतोमरैः
।
असिभिः
पट्टिशैर्बाणैः
प्राहरन्नरयो
हरिम्
17
▾
Meaning
Keep
कृष्णस्तु
तत्पौण्ड्रककाशिराजयो-
र्बलं
गजस्यन्दनवाजिपत्तिमत्
।
गदासिचक्रेषुभिरार्दयद्भृशं
यथा
युगान्ते
हुतभुक्पृथक्
प्रजाः
18
▾
Meaning
Keep
आयोधनं
तद्रथवाजिकुञ्जर-
द्विपत्खरोष्ट्रैररिणावखण्डितैः
।
बभौ
चितं
मोदवहं
मनस्विना-
माक्रीडनं
भूतपतेरिवोल्बणम्
19
▾
Meaning
Keep
अथाह
पौण्ड्रकं
शौरिर्भो
भो
पौण्ड्रक
यद्
भवान्
।
दूतवाक्येन
मामाह
तान्यस्त्रण्युत्सृजामि
ते
20
▾
Meaning
Keep
त्याजयिष्येऽभिधानं
मे
यत्त्वयाज्ञ
मृषा
धृतम्
।
व्रजामि
शरणं
तेऽद्य
यदि
नेच्छामि
संयुगम्
21
▾
Meaning
Keep
इति
क्षिप्त्वा
शितैर्बाणैर्विरथीकृत्य
पौण्ड्रकम्
।
शिरोऽवृश्चद्रथाङ्गेन
वज्रेणेन्द्रो
यथा
गिरेः
22
▾
Meaning
Keep
तथा
काशीपतेः
कायाच्छिर
उत्कृत्य
पत्रिभिः
।
न्यपातयत्काशीपुर्यां
पद्मकोशमिवानिलः
23
▾
Meaning
Keep
एवं
मत्सरिणं
हत्वा
पौण्ड्रकं
ससखं
हरिः
।
द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः
24
▾
Meaning
Keep
स
नित्यं
भगवद्ध्यानप्रध्वस्ताखिलबन्धनः
।
बिभ्राणश्च
हरे
राजन्
स्वरूपं
तन्मयोऽभवत्
25
▾
Meaning
Keep
शिरः
पतितमालोक्य
राजद्वारे
सकुण्डलम्
।
किमिदं
कस्य
वा
वक्त्रमिति
संशिशिरे
जनाः
26
▾
Meaning
Keep
राज्ञः
काशीपतेर्ज्ञात्वा
महिष्यः
पुत्रबान्धवाः
।
पौराश्च
हा
हता
राजन्
नाथ
नाथेति
प्रारुदन्
27
▾
Meaning
Keep
सुदक्षिणस्तस्य
सुतः
कृत्वा
संस्थाविधिं
पितुः
।
निहत्य
पितृहन्तारं
यास्याम्यपचितिं
पितुः
28
▾
Meaning
Keep
इत्यात्मनाभिसन्धाय
सोपाध्यायो
महेश्वरम्
।
सुदक्षिणोऽर्चयामास
परमेण
समाधिना
29
▾
Meaning
Keep
प्रीतोऽविमुक्ते
भगवांस्तस्मै
वरमदाद्
भवः
।
पितृहन्तृवधोपायं
स
वव्रे
वरमीप्सितम्
30
▾
Meaning
Keep
दक्षिणाग्निं
परिचर
ब्राह्मणैः
सममृत्विजम्
।
अभिचारविधानेन
स
चाग्निः
प्रमथैर्वृतः
31
▾
Meaning
Keep
साधयिष्यति
सङ्कल्पमब्रह्मण्ये
प्रयोजितः
।
इत्यादिष्टस्तथा
चक्रे
कृष्णायाभिचरन्
व्रती
32
▾
Meaning
Keep
ततोऽग्निरुत्थितः
कुण्डान्मूर्तिमानतिभीषणः
।
तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः
33
▾
Meaning
Keep
दंष्ट्रोग्रभ्रुकुटीदण्ड
कठोरास्यः
स्वजिह्वया
।
आलिहन्
सृक्वणी
नग्नो
विधुन्वंस्त्रिशिखं
ज्वलन्
34
▾
Meaning
Keep
पद्भ्यां
तालप्रमाणाभ्यां
कम्पयन्नवनीतलम्
।
सोऽभ्यधावद्वृतो
भूतैर्द्वारकां
प्रदहन्
दिशः
35
▾
Meaning
Keep
तमाभिचारदहनमायान्तं
द्वारकौकसः
।
विलोक्य
तत्रसुः
सर्वे
वनदाहे
मृगा
यथा
36
▾
Meaning
Keep
अक्षैः
सभायां
क्रीडन्तं
भगवन्तं
भयातुराः
।
त्राहि
त्राहि
त्रिलोकेश
वह्नेः
प्रदहतः
पुरम्
37
▾
Meaning
Keep
श्रुत्वा
तज्जनवैक्लव्यं
दृष्ट्वा
स्वानां
च
साध्वसम्
।
शरण्यः
सम्प्रहस्याह
मा
भैष्टेत्यवितास्म्यहम्
38
▾
Meaning
Keep
सर्वस्यान्तर्बहिः
साक्षी
कृत्यां
माहेश्वरीं
विभुः
।
विज्ञाय
तद्विघातार्थं
पार्श्वस्थं
चक्रमादिशत्
39
▾
Meaning
Keep
तत्सूर्यकोटिप्रतिमं
सुदर्शनं
जाज्वल्यमानं
प्रलयानलप्रभम्
।
स्वतेजसा
खं
ककुभोऽथ
रोदसी
चक्रं
मुकुन्दास्त्रमथाग्निमार्दयत्
40
▾
Meaning
Keep
कृत्यानलः
प्रतिहतः
स
रथाङ्गपाणे-
रस्त्रौजसा
स
नृप
भग्नमुखो
निवृत्तः
।
वाराणसीं
परिसमेत्य
सुदक्षिणं
तं
सर्त्विग्जनं
समदहत्स्वकृतोऽभिचारः
41
▾
Meaning
Keep
चक्रं
च
विष्णोस्तदनुप्रविष्टं
वाराणसीं
साट्टसभालयापणाम्
।
सगोपुराट्टालककोष्ठसङ्कुलां
सकोशहस्त्यश्वरथान्नशालिनीम्
42
▾
Meaning
Keep
दग्ध्वा
वाराणसीं
सर्वां
विष्णोश्चक्रं
सुदर्शनम्
।
भूयः
पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः
43
▾
Meaning
Keep
य
एतच्छ्रावयेन्मर्त्य
उत्तमश्लोकविक्रमम्
।
समाहितो
वा
शृणुयात्
सर्वपापैः
प्रमुच्यते
Previous
←
Rama in Vraja, and the Dragging of the Yamuna
Next
Dvivida the Ape
→