Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Dvivida the Ape
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भुयोऽहं
श्रोतुमिच्छामि
रामस्याद्भुतकर्मणः
।
अनन्तस्याप्रमेयस्य
यदन्यत्कृतवान्
प्रभुः
2
▾
Meaning
Keep
नरकस्य
सखा
कश्चिद्द्विविदो
नाम
वानरः
।
सुग्रीवसचिवः
सोऽथ
भ्राता
मैन्दस्य
वीर्यवान्
3
▾
Meaning
Keep
सख्युः
सोऽपचितिं
कुर्वन्
वानरो
राष्ट्रविप्लवम्
।
पुरग्रामाकरान्
घोषानदहद्वह्निमुत्सृजन्
4
▾
Meaning
Keep
क्वचित्स
शैलानुत्पाट्य
तैर्देशान्
समचूर्णयत्
।
आनर्तान्
सुतरामेव
यत्रास्ते
मित्रहा
हरिः
5
▾
Meaning
Keep
क्वचित्
समुद्रमध्यस्थो
दोर्भ्यामुत्क्षिप्य
तज्जलम्
।
देशान्
नागायुतप्राणो
वेलाकूलानयमज्जयत्
6
▾
Meaning
Keep
आश्रमान्
ऋषिमुख्यानां
कृत्वा
भग्नवनस्पतीन्
।
अदूषयच्छकृन्मूत्रैरग्नीन्
वैतानिकान्
खलः
7
▾
Meaning
Keep
पुरुषान्
योषितो
दृप्तः
क्ष्माभृद्द्रोणीगुहासु
सः
।
निक्षिप्य
चाप्यधाच्छैलैः
पेशस्कारीव
कीटकम्
8
▾
Meaning
Keep
एवं
देशान्
विप्रकुर्वन्
दूषयंश्च
कुलस्त्रियः
।
श्रुत्वा
सुललितं
गीतं
गिरिं
रैवतकं
ययौ
9
▾
Meaning
Keep
तत्रापश्यद्यदुपतिं
रामं
पुष्करमालिनम्
।
सुदर्शनीयसर्वाङ्गं
ललनायूथमध्यगम्
10
▾
Meaning
Keep
गायन्तं
वारुणीं
पीत्वा
मदविह्वललोचनम्
।
विभ्राजमानं
वपुषा
प्रभिन्नमिव
वारणम्
11
▾
Meaning
Keep
दुष्टः
शाखामृगः
शाखामारूढः
कम्पयन्
द्रुमान्
।
चक्रे
किलकिलाशब्दमात्मानं
सम्प्रदर्शयन्
12
▾
Meaning
Keep
तस्य
धार्ष्ट्यं
कपेर्वीक्ष्य
तरुण्यो
जातिचापलाः
।
हास्यप्रिया
विजहसुर्बलदेवपरिग्रहाः
13
▾
Meaning
Keep
ता
हेलयामास
कपिर्भ्रूक्षेपैः
सम्मुखादिभिः
।
दर्शयन्
स्वगुदं
तासां
रामस्य
च
निरीक्षितः
14
▾
Meaning
Keep
तं
ग्राव्णा
प्राहरत्क्रुद्धो
बलः
प्रहरतां
वरः
।
स
वञ्चयित्वा
ग्रावाणं
मदिराकलशं
कपिः
15
▾
Meaning
Keep
गृहीत्वा
हेलयामास
धूर्तस्तं
कोपयन्
हसन्
।
निर्भिद्य
कलशं
दुष्टो
वासांस्यास्फालयद्बलम्
16
▾
Meaning
Keep
कदर्थीकृत्य
बलवान्
विप्रचक्रे
मदोद्धतः
।
तं
तस्याविनयं
दृष्ट्वा
देशांश्च
तदुपद्रुतान्
17
▾
Meaning
Keep
क्रुद्धो
मुसलमादत्त
हलं
चारिजिघांसया
।
द्विविदोऽपि
महावीर्यः
शालमुद्यम्य
पाणिना
18
▾
Meaning
Keep
अभ्येत्य
तरसा
तेन
बलं
मूर्धन्यताडयत्
।
तं
तु
सङ्कर्षणो
मूर्ध्नि
पतन्तमचलो
यथा
19
▾
Meaning
Keep
प्रतिजग्राह
बलवान्
सुनन्देनाहनच्च
तम्
।
मूसलाहतमस्तिष्को
विरेजे
रक्तधारया
20
▾
Meaning
Keep
गिरिर्यथा
गैरिकया
प्रहारं
नानुचिन्तयन्
।
पुनरन्यं
समुत्क्षिप्य
कृत्वा
निष्पत्रमोजसा
21
▾
Meaning
Keep
तेनाहनत्
सुसंक्रुद्धस्तं
बलः
शतधाच्छिनत्
।
ततोऽन्येन
रुषा
जघ्ने
तं
चापि
शतधाच्छिनत्
22
▾
Meaning
Keep
एवं
युध्यन्
भगवता
भग्ने
भग्ने
पुनः
पुनः
।
आकृष्य
सर्वतो
वृक्षान्
निर्वृक्षमकरोद्वनम्
23
▾
Meaning
Keep
ततोऽमुञ्चच्छिलावर्षं
बलस्योपर्यमर्षितः
।
तत्सर्वं
चूर्णयामास
लीलया
मुसलायुधः
24
▾
Meaning
Keep
स
बाहू
तालसङ्काशौ
मुष्टीकृत्य
कपीश्वरः
।
आसाद्य
रोहिणीपुत्रं
ताभ्यां
वक्षस्यरूरुजत्
25
▾
Meaning
Keep
यादवेन्द्रोऽपि
तं
दोर्भ्यां
त्यक्त्वा
मुसललाङ्गले
।
जत्रावभ्यर्दयत्क्रुद्धः
सोऽपतद्रुधिरं
वमन्
26
▾
Meaning
Keep
चकम्पे
तेन
पतता
सटङ्कः
सवनस्पतिः
।
पर्वतः
कुरुशार्दूल
वायुना
नौरिवाम्भसि
27
▾
Meaning
Keep
जयशब्दो
नमः
शब्दः
साधु
साध्विति
चाम्बरे
।
सुरसिद्धमुनीन्द्राणामासीत्कुसुमवर्षिणाम्
28
▾
Meaning
Keep
एवं
निहत्य
द्विविदं
जगद्व्यतिकरावहम्
।
संस्तूयमानो
भगवान्
जनैः
स्वपुरमाविशत्
Previous
←
Paundraka, Who Called Himself Vasudeva
Next
Samba's Marriage and the Dragging of Hastinapura
→