Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada in the Sixteen Thousand Houses
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
नरकं
निहतं
श्रुत्वा
तथोद्वाहं
च
योषिताम्
।
कृष्णेनैकेन
बह्वीनां
तद्दिदृक्षुः
स्म
नारदः
2
▾
Meaning
Keep
चित्रं
बतैतदेकेन
वपुषा
युगपत्पृथक्
।
गृहेषु
द्व्यष्टसाहस्रं
स्त्रिय
एक
उदावहत्
3
▾
Meaning
Keep
इत्युत्सुको
द्वारवतीं
देवर्षिर्द्रष्टुमागमत्
।
पुष्पितोपवनारामद्विजालिकुलनादिताम्
4
▾
Meaning
Keep
उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलैः
।
छुरितेषु
सरस्सूच्चैः
कूजितां
हंससारसैः
5
▾
Meaning
Keep
प्रासादलक्षैर्नवभिर्जुष्टां
स्फाटिकराजतैः
।
महामरकतप्रख्यैः
स्वर्णरत्नपरिच्छदैः
6
▾
Meaning
Keep
विभक्तरथ्यापथचत्वरापणैः
शालासभाभी
रुचिरां
सुरालयैः
।
संसिक्तमार्गाङ्गणवीथिदेहलीं
पतत्पताकध्वजवारितातपाम्
7
▾
Meaning
Keep
तस्यामन्तःपुरं
श्रीमदर्चितं
सर्वधिष्ण्यपैः
।
हरेः
स्वकौशलं
यत्र
त्वष्ट्रा
कार्त्स्न्येन
दर्शितम्
8
▾
Meaning
Keep
तत्र
षोडशभिः
सद्मसहस्रैः
समलङ्कृतम्
।
विवेशैकतमं
शौरेः
पत्नीनां
भवनं
महत्
9
▾
Meaning
Keep
विष्टब्धं
विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः
।
इन्द्रनीलमयैः
कुड्यैर्जगत्या
चाहतत्विषा
10
▾
Meaning
Keep
वितानैर्निर्मितैस्त्वष्ट्रा
मुक्तादामविलम्बिभिः
।
दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः
11
▾
Meaning
Keep
दासीभिर्निष्ककण्ठीभिः
सुवासोभिरलङ्कृतम्
।
पुम्भिः
सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलैः
12
▾
Meaning
Keep
रत्नप्रदीपनिकरद्युतिभिर्निरस्त-
ध्वान्तं
विचित्रवलभीषु
शिखण्डिनोऽङ्ग
।
नृत्यन्ति
यत्र
विहितागुरुधूपमक्षै-
र्निर्यान्तमीक्ष्य
घनबुद्धय
उन्नदन्तः
13
▾
Meaning
Keep
तस्मिन्
समानगुणरूपवयस्सुवेषदासीसहस्रयुतयानुसवं
गृहिण्या
।
विप्रो
ददर्श
चमरव्यजनेन
रुक्मदण्डेन
सात्वतपतिं
परिवीजयन्त्या
14
▾
Meaning
Keep
तं
सन्निरीक्ष्य
भगवान्
सहसोत्थितश्री-
पर्यङ्कतः
सकलधर्मभृतां
वरिष्ठः
।
आनम्य
पादयुगलं
शिरसा
किरीट-
जुष्टेन
साञ्जलिरवीविशदासने
स्वे
15
▾
Meaning
Keep
तस्यावनिज्य
चरणौ
तदपः
स्वमूर्ध्ना
बिभ्रज्जगद्गुरुतमोऽपि
सतां
पतिर्हि
।
ब्रह्मण्यदेव
इति
यद्गुणनाम
युक्तं
तस्यैव
यच्चरणशौचमशेषतीर्थम्
16
▾
Meaning
Keep
सम्पूज्य
देवऋषिवर्यमृषिः
पुराणो
नारायणो
नरसखो
विधिनोदितेन
।
वाण्याभिभाष्य
मितयामृतमिष्टया
तं
प्राह
प्रभो
भगवते
करवाम
हे
किम्
17
▾
Meaning
Keep
नैवाद्भुतं
त्वयि
विभोऽखिललोकनाथे
मैत्री
जनेषु
सकलेषु
दमः
खलानाम्
।
निःश्रेयसाय
हि
जगत्स्थितिरक्षणाभ्यां
स्वैरावतार
उरुगाय
विदाम
सुष्ठु
18
▾
Meaning
Keep
दृष्टं
तवाङ्घ्रियुगलं
जनतापवर्गं
ब्रह्मादिभिर्हृदि
विचिन्त्यमगाधबोधैः
।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश्चराम्यनुगृहाण
यथा
स्मृतिः
स्यात्
19
▾
Meaning
Keep
ततोऽन्यदाविशद्गेहं
कृष्णपत्न्याः
स
नारदः
।
योगेश्वरेश्वरस्याङ्ग
योगमायाविवित्सया
20
▾
Meaning
Keep
दीव्यन्तमक्षैस्तत्रापि
प्रियया
चोद्धवेन
च
।
पूजितः
परया
भक्त्या
प्रत्युत्थानासनादिभिः
21
▾
Meaning
Keep
पृष्टश्चाविदुषेवासौ
कदाऽऽयातो
भवानिति
।
क्रियते
किं
नु
पूर्णानामपूर्णैरस्मदादिभिः
22
▾
Meaning
Keep
अथापि
ब्रूहि
नो
ब्रह्मन्
जन्मैतच्छोभनं
कुरु
।
स
तु
विस्मित
उत्थाय
तूष्णीमन्यदगाद्गृहम्
23
▾
Meaning
Keep
तत्राप्यचष्ट
गोविन्दं
लालयन्तं
सुताञ्छिशून्
।
ततोऽन्यस्मिन्
गृहेऽपश्यन्मज्जनाय
कृतोद्यमम्
24
▾
Meaning
Keep
जुह्वन्तं
च
वितानाग्नीन्
यजन्तं
पञ्चभिर्मखैः
।
भोजयन्तं
द्विजान्
क्वापि
भुञ्जानमवशेषितम्
25
▾
Meaning
Keep
क्वापि
सन्ध्यामुपासीनं
जपन्तं
ब्रह्म
वाग्यतम्
।
एकत्र
चासिचर्माभ्यां
चरन्तमसिवर्त्मसु
26
▾
Meaning
Keep
अश्वैर्गजै
रथैः
क्वापि
विचरन्तं
गदाग्रजम्
।
क्वचिच्छयानं
पर्यङ्के
स्तूयमानं
च
वन्दिभिः
27
▾
Meaning
Keep
मन्त्रयन्तं
च
कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः
।
जलक्रीडारतं
क्वापि
वारमुख्याबलावृतम्
28
▾
Meaning
Keep
कुत्रचिद्द्विजमुख्येभ्यो
ददतं
गाः
स्वलङ्कृताः
।
इतिहासपुराणानि
शृण्वन्तं
मङ्गलानि
च
29
▾
Meaning
Keep
हसन्तं
हासकथया
कदाचित्
प्रियया
गृहे
।
क्वापि
धर्मं
सेवमानमर्थकामौ
च
कुत्रचित्
30
▾
Meaning
Keep
ध्यायन्तमेकमासीनं
पुरुषं
प्रकृतेः
परम्
।
शुश्रूषन्तं
गुरून्
क्वापि
कामैर्भोगैः
सपर्यया
31
▾
Meaning
Keep
कुर्वन्तं
विग्रहं
कैश्चित्सन्धिं
चान्यत्र
केशवम्
।
कुत्रापि
सह
रामेण
चिन्तयन्तं
सतां
शिवम्
32
▾
Meaning
Keep
पुत्राणां
दुहितॄणां
च
काले
विध्युपयापनम्
।
दारैर्वरैस्तत्सदृशैः
कल्पयन्तं
विभूतिभिः
33
▾
Meaning
Keep
प्रस्थापनोपनयनैरपत्यानां
महोत्सवान्
।
वीक्ष्य
योगेश्वरेशस्य
येषां
लोका
विसिस्मिरे
34
▾
Meaning
Keep
यजन्तं
सकलान्
देवान्
क्वापि
क्रतुभिरूर्जितैः
।
पूर्तयन्तं
क्वचिद्धर्मं
कूर्पाराममठादिभिः
35
▾
Meaning
Keep
चरन्तं
मृगयां
क्वापि
हयमारुह्य
सैन्धवम्
।
घ्नन्तं
तत्र
पशून्
मेध्यान्
परीतं
यदुपुङ्गवैः
36
▾
Meaning
Keep
अव्यक्तलिङ्गं
प्रकृतिष्वन्तःपुरगृहादिषु
।
क्वचिच्चरन्तं
योगेशं
तत्तद्भावबुभुत्सया
37
▾
Meaning
Keep
अथोवाच
हृषीकेशं
नारदः
प्रहसन्निव
।
योगमायोदयं
वीक्ष्य
मानुषीमीयुषो
गतिम्
38
▾
Meaning
Keep
विदाम
योगमायास्ते
दुर्दर्शा
अपि
मायिनाम्
।
योगेश्वरात्मन्
निर्भाता
भवत्पादनिषेवया
39
▾
Meaning
Keep
अनुजानीहि
मां
देव
लोकांस्ते
यशसाऽऽप्लुतान्
।
पर्यटामि
तवोद्गायन्
लीलां
भुवनपावनीः
40
▾
Meaning
Keep
श्रीभगवानुवाच ।
ब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता ।
तच्छिक्षयँल्लोकमिममास्थितः पुत्र मा खिदः
41
▾
Meaning
Keep
इत्याचरन्तं
सद्धर्मान्
पावनान्
गृहमेधिनाम्
।
तमेव
सर्वगेहेषु
सन्तमेकं
ददर्श
ह
42
▾
Meaning
Keep
कृष्णस्यानन्तवीर्यस्य
योगमायामहोदयम्
।
मुहुर्दृष्ट्वा
ऋषिरभूद्विस्मितो
जातकौतुकः
43
▾
Meaning
Keep
इत्यर्थकामधर्मेषु
कृष्णेन
श्रद्धितात्मना
।
सम्यक्
सभाजितः
प्रीतस्तमेवानुस्मरन्
ययौ
44
▾
Meaning
Keep
एवं
मनुष्यपदवीमनुवर्तमानो
नारायणोऽखिलभवाय
गृहीतशक्तिः
।
रेमेऽङ्ग
षोडशसहस्रवराङ्गनानां
सव्रीडसौहृदनिरीक्षणहासजुष्टः
45
▾
Meaning
Keep
यानीह
विश्वविलयोद्भववृत्तिहेतुः
कर्माण्यनन्यविषयाणि
हरिश्चकार
।
यस्त्वङ्ग
गायति
शृणोत्यनुमोदते
वा
भक्तिर्भवेद्भगवति
ह्यपवर्गमार्गे
Previous
←
Samba's Marriage and the Dragging of Hastinapura
Next
The Day's Round, and the Kings Who Sent Word
→