Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Day's Round, and the Kings Who Sent Word
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथोषस्युपवृत्तायां
कुक्कुटान्
कूजतोऽशपन्
।
गृहीतकण्ठ्यः
पतिभिर्माधव्यो
विरहातुराः
2
▾
Meaning
Keep
वयांस्यरोरुवन्
कृष्णं
बोधयन्तीव
वन्दिनः
।
गायत्स्वलिष्वनिद्राणि
मन्दारवनवायुभिः
3
▾
Meaning
Keep
मुहूर्तं
तं
तु
वैदर्भी
नामृष्यदतिशोभनम्
।
परिरम्भणविश्लेषात्प्रियबाह्वन्तरं
गता
4
▾
Meaning
Keep
ब्राह्मे
मुहूर्त
उत्थाय
वार्युपस्पृश्य
माधवः
।
दध्यौ
प्रसन्नकरण
आत्मानं
तमसः
परम्
5
▾
Meaning
Keep
एकं
स्वयंज्योतिरनन्यमव्ययंस्वसंस्थया
नित्यनिरस्तकल्मषम्
।
ब्रह्माख्यमस्योद्भवनाशहेतुभिःस्वशक्तिभिर्लक्षितभावनिर्वृतिम्
6
▾
Meaning
Keep
अथाप्लुतोऽम्भस्यमले
यथाविधि
क्रियाकलापं
परिधाय
वाससी
।
चकार
सन्ध्योपगमादि
सत्तमो
हुतानलो
ब्रह्म
जजाप
वाग्यतः
7
▾
Meaning
Keep
उपस्थायार्कमुद्यन्तं
तर्पयित्वाऽऽत्मनः
कलाः
।
देवान्
ऋषीन्
पितॄन्
वृद्धान्
विप्रानभ्यर्च्य
चात्मवान्
8
▾
Meaning
Keep
धेनूनां
रुक्मशृङ्गीणां
साध्वीनां
मौक्तिकस्रजाम्
।
पयस्विनीनां
गृष्टीनां
सवत्सानां
सुवाससाम्
9
▾
Meaning
Keep
ददौ
रूप्यखुराग्राणां
क्षौमाजिनतिलैः
सह
।
अलङ्कृतेभ्यो
विप्रेभ्यो
बद्वं
बद्वं
दिने
दिने
10
▾
Meaning
Keep
गोविप्रदेवतावृद्धगुरून्
भूतानि
सर्वशः
।
नमस्कृत्यात्मसम्भूतीर्मङ्गलानि
समस्पृशत्
11
▾
Meaning
Keep
आत्मानं
भूषयामास
नरलोकविभूषणम्
।
वासोभिर्भूषणैः
स्वीयैर्दिव्यस्रगनुलेपनैः
12
▾
Meaning
Keep
अवेक्ष्याज्यं
तथाऽऽदर्शं
गोवृषद्विजदेवताः
।
कामांश्च
सर्ववर्णानां
पौरान्तःपुरचारिणाम्
।
प्रदाप्य
प्रकृतीः
कामैः
प्रतोष्य
प्रत्यनन्दत
13
▾
Meaning
Keep
संविभज्याग्रतो
विप्रान्
स्रक्ताम्बूलानुलेपनैः
।
सुहृदः
प्रकृतीर्दारानुपायुङ्क्त
ततः
स्वयम्
14
▾
Meaning
Keep
तावत्सूत
उपानीय
स्यन्दनं
परमाद्भुतम्
।
सुग्रीवाद्यैर्हयैर्युक्तं
प्रणम्यावस्थितोऽग्रतः
15
▾
Meaning
Keep
गृहीत्वा
पाणिना
पाणी
सारथेस्तमथारुहत्
।
सात्यक्युद्धवसंयुक्तः
पूर्वाद्रिमिव
भास्करः
16
▾
Meaning
Keep
ईक्षितोऽन्तःपुरस्त्रीणां
सव्रीडप्रेमवीक्षितैः
।
कृच्छ्राद्विसृष्टो
निरगाज्जातहासो
हरन्
मनः
17
▾
Meaning
Keep
सुधर्माख्यां
सभां
सर्वैर्वृष्णिभिः
परिवारितः
।
प्राविशद्यन्निविष्टानां
न
सन्त्यङ्ग
षडूर्मयः
18
▾
Meaning
Keep
तत्रोपविष्टः
परमासने
विभु-
र्बभौ
स्वभासा
ककुभोऽवभासयन्
।
वृतो
नृसिंहैर्यदुभिर्यदूत्तमो
यथोडुराजो
दिवि
तारकागणैः
19
▾
Meaning
Keep
तत्रोपमन्त्रिणो
राजन्
नानाहास्यरसैर्विभुम्
।
उपतस्थुर्नटाचार्या
नर्तक्यस्ताण्डवैः
पृथक्
20
▾
Meaning
Keep
मृदङ्गवीणामुरजवेणुतालदरस्वनैः
।
ननृतुर्जगुस्तुष्टुवुश्च
सूतमागधवन्दिनः
21
▾
Meaning
Keep
तत्राहुर्ब्राह्मणाः
केचिदासीना
ब्रह्मवादिनः
।
पूर्वेषां
पुण्ययशसां
राज्ञां
चाकथयन्
कथाः
22
▾
Meaning
Keep
तत्रैकः
पुरुषो
राजन्नागतोऽपूर्वदर्शनः
।
विज्ञापितो
भगवते
प्रतीहारैः
प्रवेशितः
23
▾
Meaning
Keep
स
नमस्कृत्य
कृष्णाय
परेशाय
कृताञ्जलिः
।
राज्ञामावेदयद्दुःखं
जरासन्धनिरोधजम्
24
▾
Meaning
Keep
ये
च
दिग्विजये
तस्य
सन्नतिं
न
ययुर्नृपाः
।
प्रसह्य
रुद्धास्तेनासन्नयुते
द्वे
गिरिव्रजे
25
▾
Meaning
Keep
कृष्ण
कृष्णाप्रमेयात्मन्
प्रपन्नभयभञ्जन
।
वयं
त्वां
शरणं
यामो
भवभीताः
पृथग्धियः
26
▾
Meaning
Keep
लोको
विकर्मनिरतः
कुशले
प्रमत्तः
कर्मण्ययं
त्वदुदिते
भवदर्चने
स्वे
।
यस्तावदस्य
बलवानिह
जीविताशां
सद्यश्छिनत्त्यनिमिषाय
नमोऽस्तु
तस्मै
27
▾
Meaning
Keep
लोके
भवाञ्जगदिनः
कलयावतीर्णः
सद्रक्षणाय
खलनिग्रहणाय
चान्यः
।
कश्चित्त्वदीयमतियाति
निदेशमीश
किं
वा
जनः
स्वकृतमृच्छति
तन्न
विद्मः
28
▾
Meaning
Keep
स्वप्नायितं
नृपसुखं
परतन्त्रमीश
शश्वद्भयेन
मृतकेन
धुरं
वहामः
।
हित्वा
तदात्मनि
सुखं
त्वदनीहलभ्यं
क्लिश्यामहेऽतिकृपणास्तव
माययेह
29
▾
Meaning
Keep
तन्नो
भवान्
प्रणतशोकहराङ्घ्रियुग्मो
बद्धान्
वियुङ्क्ष्व
मगधाह्वयकर्मपाशात्
।
यो
भूभुजोऽयुतमतङ्गजवीर्यमेको
बिभ्रद्रुरोध
भवने
मृगराडिवावीः
30
▾
Meaning
Keep
यो
वै
त्वया
द्विनवकृत्व
उदात्तचक्र-
भग्नो
मृधे
खलु
भवन्तमनन्तवीर्यम्
।
जित्वा
नृलोकनिरतं
सकृदूढदर्पो
युष्मत्प्रजा
रुजति
नोऽजित
तद्विधेहि
31
▾
Meaning
Keep
इति
मागधसंरुद्धा
भवद्दर्शनकाङ्क्षिणः
।
प्रपन्नाः
पादमूलं
ते
दीनानां
शं
विधीयताम्
32
▾
Meaning
Keep
राजदूते
ब्रुवत्येवं
देवर्षिः
परमद्युतिः
।
बिभ्रत्पिङ्गजटाभारं
प्रादुरासीद्यथा
रविः
33
▾
Meaning
Keep
तं
दृष्ट्वा
भगवान्
कृष्णः
सर्वलोकेश्वरेश्वरः
।
ववन्द
उत्थितः
शीर्ष्णा
ससभ्यः
सानुगो
मुदा
34
▾
Meaning
Keep
सभाजयित्वा
विधिवत्
कृतासनपरिग्रहम्
।
बभाषे
सुनृतैर्वाक्यैः
श्रद्धया
तर्पयन्
मुनिम्
35
▾
Meaning
Keep
अपि
स्विदद्य
लोकानां
त्रयाणामकुतोभयम्
।
ननु
भूयान्
भगवतो
लोकान्
पर्यटतो
गुणः
36
▾
Meaning
Keep
न
हि
तेऽविदितं
किञ्चिल्लोकेष्वीश्वरकर्तृषु
।
अथ
पृच्छामहे
युष्मान्
पाण्डवानां
चिकीर्षितम्
37
▾
Meaning
Keep
दृष्टा
माया
ते
बहुशो
दुरत्यया
माया
विभो
विश्वसृजश्च
मायिनः
।
भूतेषु
भूमंश्चरतः
स्वशक्तिभि-
र्वह्नेरिवच्छन्नरुचो
न
मेऽद्भुतम्
38
▾
Meaning
Keep
तवेहितं
कोऽर्हति
साधु
वेदितुं
स्वमाययेदं
सृजतो
नियच्छतः
।
यद्विद्यमानात्मतयावभासते
तस्मै
नमस्ते
स्वविलक्षणात्मने
39
▾
Meaning
Keep
जीवस्य
यः
संसरतो
विमोक्षणं
न
जानतोऽनर्थवहाच्छरीरतः
।
लीलावतारैः
स्वयशःप्रदीपकं
प्राज्वालयत्त्वा
तमहं
प्रपद्ये
40
▾
Meaning
Keep
अथाप्याश्रावये
ब्रह्म
नरलोकविडम्बनम्
।
राज्ञः
पैतृष्वसेयस्य
भक्तस्य
च
चिकीर्षितम्
41
▾
Meaning
Keep
यक्ष्यति
त्वां
मखेन्द्रेण
राजसूयेन
पाण्डवः
।
पारमेष्ठ्यकामो
नृपतिस्तद्भवाननुमोदताम्
42
▾
Meaning
Keep
तस्मिन्
देव
क्रतुवरे
भवन्तं
वै
सुरादयः
।
दिदृक्षवः
समेष्यन्ति
राजानश्च
यशस्विनः
43
▾
Meaning
Keep
श्रवणात्कीर्तनाद्ध्यानात्पूयन्तेऽन्तेवसायिनः
।
तव
ब्रह्ममयस्येश
किमुतेक्षाभिमर्शिनः
44
▾
Meaning
Keep
यस्यामलं
दिवि
यशः
प्रथितं
रसायां
भूमौ
च
ते
भुवनमङ्गल
दिग्वितानम्
।
मन्दाकिनीति
दिवि
भोगवतीति
चाधो
गङ्गेति
चेह
चरणाम्बु
पुनाति
विश्वम्
45
▾
Meaning
Keep
तत्र
तेष्वात्मपक्षेष्वगृह्णत्सु
विजिगीषया
।
वाचः
पेशैः
स्मयन्
भृत्यमुद्धवं
प्राह
केशवः
46
▾
Meaning
Keep
श्रीभगवानुवाच ।
त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित् ।
तथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत्
47
▾
Meaning
Keep
इत्युपामन्त्रितो
भर्त्रा
सर्वज्ञेनापि
मुग्धवत्
।
निदेशं
शिरसाऽऽधाय
उद्धवः
प्रत्यभाषत
Previous
←
Narada in the Sixteen Thousand Houses
Next
Uddhava's Counsel, and the Road to Indraprastha
→