Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Uddhava's Counsel, and the Road to Indraprastha
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्युदीरितमाकर्ण्य
देवर्षेरुद्धवोऽब्रवीत्
।
सभ्यानां
मतमाज्ञाय
कृष्णस्य
च
महामतिः
2
▾
Meaning
Keep
यदुक्तमृषिणा
देव
साचिव्यं
यक्ष्यतस्त्वया
।
कार्यं
पैतृष्वसेयस्य
रक्षा
च
शरणैषिणाम्
3
▾
Meaning
Keep
यष्टव्यं
राजसूयेन
दिक्चक्रजयिना
विभो
।
अतो
जरासुतजय
उभयार्थो
मतो
मम
4
▾
Meaning
Keep
अस्माकं
च
महानर्थो
ह्येतेनैव
भविष्यति
।
यशश्च
तव
गोविन्द
राज्ञो
बद्धान्
विमुञ्चतः
5
▾
Meaning
Keep
स
वै
दुर्विषहो
राजा
नागायुतसमो
बले
।
बलिनामपि
चान्येषां
भीमं
समबलं
विना
6
▾
Meaning
Keep
द्वैरथे
स
तु
जेतव्यो
मा
शताक्षौहिणीयुतः
।
ब्राह्मण्योऽभ्यर्थितो
विप्रैर्न
प्रत्याख्याति
कर्हिचित्
7
▾
Meaning
Keep
ब्रह्मवेषधरो
गत्वा
तं
भिक्षेत
वृकोदरः
।
हनिष्यति
न
सन्देहो
द्वैरथे
तव
सन्निधौ
8
▾
Meaning
Keep
निमित्तं
परमीशस्य
विश्वसर्गनिरोधयोः
।
हिरण्यगर्भः
शर्वश्च
कालस्यारूपिणस्तव
9
▾
Meaning
Keep
गायन्ति
ते
विशदकर्म
गृहेषु
देव्यो
राज्ञां
स्वशत्रुवधमात्मविमोक्षणं
च
।
गोप्यश्च
कुञ्जरपतेर्जनकात्मजायाः
पित्रोश्च
लब्धशरणा
मुनयो
वयं
च
10
▾
Meaning
Keep
जरासन्धवधः
कृष्ण
भूर्यर्थायोपकल्पते
।
प्रायः
पाकविपाकेन
तव
चाभिमतः
क्रतुः
11
▾
Meaning
Keep
इत्युद्धववचो
राजन्
सर्वतोभद्रमच्युतम्
।
देवर्षिर्यदुवृद्धाश्च
कृष्णश्च
प्रत्यपूजयन्
12
▾
Meaning
Keep
अथादिशत्प्रयाणाय
भगवान्
देवकीसुतः
।
भृत्यान्
दारुकजैत्रादीननुज्ञाप्य
गुरून्
विभुः
13
▾
Meaning
Keep
निर्गमय्यावरोधान्
स्वान्
ससुतान्
सपरिच्छदान्
।
सङ्कर्षणमनुज्ञाप्य
यदुराजं
च
शत्रुहन्
।
सूतोपनीतं
स्वरथमारुहद्गरुडध्वजम्
14
▾
Meaning
Keep
ततो
रथद्विपभटसादिनायकैः
करालया
परिवृत
आत्मसेनया
।
मृदङ्गभेर्यानकशङ्खगोमुखैः
प्रघोषघोषितककुभो
निरक्रमत्
15
▾
Meaning
Keep
नृवाजिकाञ्चनशिबिकाभिरच्युतं
सहात्मजाः
पतिमनु
सुव्रता
ययुः
।
वराम्बराभरणविलेपनस्रजः
सुसंवृता
नृभिरसिचर्मपाणिभिः
16
▾
Meaning
Keep
नरोष्ट्रगोमहिषखराश्वतर्यनः
करेणुभिः
परिजनवारयोषितः
।
स्वलङ्कृताः
कटकुटिकम्बलाम्बरा-
द्युपस्करा
ययुरधियुज्य
सर्वतः
17
▾
Meaning
Keep
बलं
बृहद्ध्वजपटछत्रचामरै-
र्वरायुधाभरणकिरीटवर्मभिः
।
दिवांशुभिस्तुमुलरवं
बभौ
रवे-
र्यथार्णवः
क्षुभिततिमिङ्गिलोर्मिभिः
18
▾
Meaning
Keep
अथो
मुनिर्यदुपतिना
सभाजितः
प्रणम्य
तं
हृदि
विदधद्
विहायसा
।
निशम्य
तद्व्यवसितमाहृतार्हणो
मुकुन्दसन्दरशननिर्वृतेन्द्रियः
19
▾
Meaning
Keep
राजदूतमुवाचेदं
भगवान्
प्रीणयन्
गिरा
।
मा
भैष्ट
दूत
भद्रं
वो
घातयिष्यामि
मागधम्
20
▾
Meaning
Keep
इत्युक्तः
प्रस्थितो
दूतो
यथावदवदन्नृपान्
।
तेऽपि
सन्दर्शनं
शौरेः
प्रत्यैक्षन्
यन्मुमुक्षवः
21
▾
Meaning
Keep
आनर्तसौवीरमरूंस्तीर्त्वा
विनशनं
हरिः
।
गिरीन्
नदीरतीयाय
पुरग्रामव्रजाकरान्
22
▾
Meaning
Keep
ततो
दृषद्वतीं
तीर्त्वा
मुकुन्दोऽथ
सरस्वतीम्
।
पञ्चालानथ
मत्स्यांश्च
शक्रप्रस्थमथागमत्
23
▾
Meaning
Keep
तमुपागतमाकर्ण्य
प्रीतो
दुर्दर्शनं
नृणाम्
।
अजातशत्रुर्निरगात्
सोपध्यायः
सुहृद्वृतः
24
▾
Meaning
Keep
गीतवादित्रघोषेण
ब्रह्मघोषेण
भूयसा
।
अभ्ययात्स
हृषीकेशं
प्राणाः
प्राणमिवादृतः
25
▾
Meaning
Keep
दृष्ट्वा
विक्लिन्नहृदयः
कृष्णं
स्नेहेन
पाण्डवः
।
चिराद्दृष्टं
प्रियतमं
सस्वजेऽथ
पुनः
पुनः
26
▾
Meaning
Keep
दोर्भ्यां
परिष्वज्य
रमामलालयं
मुकुन्दगात्रं
नृपतिर्हताशुभः
।
लेभे
परां
निर्वृतिमश्रुलोचनो
हृष्यत्तनुर्विस्मृतलोकविभ्रमः
27
▾
Meaning
Keep
तं
मातुलेयं
परिरभ्य
निर्वृतो
भीमः
स्मयन्
प्रेमजलाकुलेन्द्रियः
।
यमौ
किरीटी
च
सुहृत्तमं
मुदा
प्रवृद्धबाष्पाः
परिरेभिरेऽच्युतम्
28
▾
Meaning
Keep
अर्जुनेन
परिष्वक्तो
यमाभ्यामभिवादितः
।
ब्राह्मणेभ्यो
नमस्कृत्य
वृद्धेभ्यश्च
यथार्हतः
29
▾
Meaning
Keep
मानितो
मानयामास
कुरुसृञ्जयकैकयान्
।
सूतमागधगन्धर्वा
वन्दिनश्चोपमन्त्रिणः
30
▾
Meaning
Keep
मृदङ्गशङ्खपटहवीणापणवगोमुखैः
।
ब्राह्मणाश्चारविन्दाक्षं
तुष्टुवुर्ननृतुर्जगुः
31
▾
Meaning
Keep
एवं
सुहृद्भिः
पर्यस्तः
पुण्यश्लोकशिखामणिः
।
संस्तूयमानो
भगवान्
विवेशालङ्कृतं
पुरम्
32
▾
Meaning
Keep
संसिक्तवर्त्म करिणां मदगन्धतोयै-
श्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।
मृष्टात्मभिर्नवदुकूलविभूषणस्रग्-
गन्धैर्नृभिर्युवतिभिश्च विराजमानम्
33
▾
Meaning
Keep
उद्दीप्तदीपबलिभिः
प्रतिसद्मजाल-
निर्यातधूपरुचिरं
विलसत्पताकम्
।
मूर्धन्यहेमकलशै
रजतोरुशृङ्गै-
र्जुष्टं
ददर्श
भवनैः
कुरुराजधाम
34
▾
Meaning
Keep
प्राप्तं
निशम्य
नरलोचनपानपात्र-
मौत्सुक्यविश्लथितकेशदुकूलबन्धाः
।
सद्यो
विसृज्य
गृहकर्म
पतींश्च
तल्पे
द्रष्टुं
ययुर्युवतयः
स्म
नरेन्द्रमार्गे
35
▾
Meaning
Keep
तस्मिन्
सुसङ्कुल
इभाश्वरथद्विपद्भिः
कृष्णं
सभार्यमुपलभ्य
गृहाधिरूढाः
।
नार्यो
विकीर्य
कुसुमैर्मनसोपगुह्य
सुस्वागतं
विदधुरुत्स्मयवीक्षितेन
36
▾
Meaning
Keep
ऊचुः
स्त्रियः
पथि
निरीक्ष्य
मुकुन्दपत्नीस्तारा
यथोडुपसहाः
किमकार्यमूभिः
।
यच्चक्षुषां
पुरुषमौलिरुदारहासलीलावलोककलयोत्सवमातनोति
37
▾
Meaning
Keep
तत्र
तत्रोपसङ्गम्य
पौरा
मङ्गलपाणयः
।
चक्रुः
सपर्यां
कृष्णाय
श्रेणीमुख्या
हतैनसः
38
▾
Meaning
Keep
अन्तःपुरजनैः
प्रीत्या
मुकुन्दः
फुल्ललोचनैः
।
ससम्भ्रमैरभ्युपेतः
प्राविशद्राजमन्दिरम्
39
▾
Meaning
Keep
पृथा
विलोक्य
भ्रात्रेयं
कृष्णं
त्रिभुवनेश्वरम्
।
प्रीतात्मोत्थाय
पर्यङ्कात्सस्नुषा
परिषस्वजे
40
▾
Meaning
Keep
गोविन्दं
गृहमानीय
देवदेवेशमादृतः
।
पूजायां
नाविदत्कृत्यं
प्रमोदोपहतो
नृपः
41
▾
Meaning
Keep
पितृष्वसुर्गुरुस्त्रीणां
कृष्णश्चक्रेऽभिवादनम्
।
स्वयं
च
कृष्णया
राजन्
भगिन्या
चाभिवन्दितः
42
▾
Meaning
Keep
श्वश्र्वा
सञ्चोदिता
कृष्णा
कृष्णपत्नीश्च
सर्वशः
।
आनर्च
रुक्मिणीं
सत्यां
भद्रां
जाम्बवतीं
तथा
43
▾
Meaning
Keep
कालिन्दीं
मित्रविन्दां
च
शैब्यां
नाग्नजितीं
सतीम्
।
अन्याश्चाभ्यागता
यास्तु
वासःस्रङ्मण्डनादिभिः
44
▾
Meaning
Keep
सुखं
निवासयामास
धर्मराजो
जनार्दनम्
।
ससैन्यं
सानुगामत्यं
सभार्यं
च
नवं
नवम्
45
▾
Meaning
Keep
तर्पयित्वा
खाण्डवेन
वह्निं
फाल्गुनसंयुतः
।
मोचयित्वा
मयं
येन
राज्ञे
दिव्या
सभा
कृता
46
▾
Meaning
Keep
उवास
कतिचिन्मासान्
राज्ञः
प्रियचिकीर्षया
।
विहरन्
रथमारुह्य
फाल्गुनेन
भटैर्वृतः
Previous
←
The Day's Round, and the Kings Who Sent Word
Next
The Killing of Jarasandha
→