Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Kings Come Out of the Mountain Valley
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अयुते
द्वे
शतान्यष्टौ
निरुद्धा
युधि
निर्जिताः
।
ते
निर्गता
गिरिद्रोण्यां
मलिना
मलवाससः
2
▾
Meaning
Keep
क्षुत्क्षामाः
शुष्कवदनाः
संरोधपरिकर्शिताः
।
ददृशुस्ते
घनश्यामं
पीतकौशेयवाससम्
3
▾
Meaning
Keep
श्रीवत्साङ्कं
चतुर्बाहुं
पद्मगर्भारुणेक्षणम्
।
चारुप्रसन्नवदनं
स्फुरन्मकरकुण्डलम्
4
▾
Meaning
Keep
पद्महस्तं
गदाशङ्खरथाङ्गैरुपलक्षितम्
।
किरीटहारकटककटिसूत्राङ्गदाञ्चितम्
5
▾
Meaning
Keep
भ्राजद्वरमणिग्रीवं
निवीतं
वनमालया
।
पिबन्त
इव
चक्षुर्भ्यां
लिहन्त
इव
जिह्वया
6
▾
Meaning
Keep
जिघ्रन्त
इव
नासाभ्यां
रम्भन्त
इव
बाहुभिः
।
प्रणेमुर्हतपाप्मानो
मूर्धभिः
पादयोर्हरेः
7
▾
Meaning
Keep
कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः
।
प्रशशंसुर्हृषीकेशं
गीर्भिः
प्राञ्जलयो
नृपाः
8
▾
Meaning
Keep
नमस्ते
देवदेवेश
प्रपन्नार्तिहराव्यय
।
प्रपन्नान्
पाहि
नः
कृष्ण
निर्विण्णान्
घोरसंसृतेः
9
▾
Meaning
Keep
नैनं
नाथानुसूयामो
मागधं
मधुसूदन
।
अनुग्रहो
यद्
भवतो
राज्ञां
राज्यच्युतिर्विभो
10
▾
Meaning
Keep
राज्यैश्वर्यमदोन्नद्धो
न
श्रेयो
विन्दते
नृपः
।
त्वन्मायामोहितोऽनित्या
मन्यते
सम्पदोऽचलाः
11
▾
Meaning
Keep
मृगतृष्णां
यथा
बाला
मन्यन्त
उदकाशयम्
।
एवं
वैकारिकीं
मायामयुक्ता
वस्तु
चक्षते
12
▾
Meaning
Keep
वयं
पुरा
श्रीमदनष्टदृष्टयो
जिगीषयास्या
इतरेतरस्पृधः
।
घ्नन्तः
प्रजाः
स्वा
अतिनिर्घृणाः
प्रभो
मृत्युं
पुरस्त्वाविगणय्य
दुर्मदाः
13
▾
Meaning
Keep
त
एव
कृष्णाद्य
गभीररंहसा
दुरन्तवीर्येण
विचालिताः
श्रियः
।
कालेन
तन्वा
भवतोऽनुकम्पया
विनष्टदर्पाश्चरणौ
स्मराम
ते
14
▾
Meaning
Keep
अथो
न
राज्यं
मृगतृष्णिरूपितं
देहेन
शश्वत्पतता
रुजां
भुवा
।
उपासितव्यं
स्पृहयामहे
विभो
क्रियाफलं
प्रेत्य
च
कर्णरोचनम्
15
▾
Meaning
Keep
तं
नः
समादिशोपायं
येन
ते
चरणाब्जयोः
।
स्मृतिर्यथा
न
विरमेदपि
संसरतामिह
16
▾
Meaning
Keep
कृष्णाय
वासुदेवाय
हरये
परमात्मने
।
प्रणतक्लेशनाशाय
गोविन्दाय
नमो
नमः
17
▾
Meaning
Keep
संस्तूयमानो
भगवान्
राजभिर्मुक्तबन्धनैः
।
तानाह
करुणस्तात
शरण्यः
श्लक्ष्णया
गिरा
18
▾
Meaning
Keep
श्रीभगवानुवाच ।
अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।
सुदृढा जायते भक्तिर्बाढमाशंसितं तथा
19
▾
Meaning
Keep
दिष्ट्या
व्यवसितं
भूपा
भवन्त
ऋतभाषिणः
।
श्रीयैश्वर्यमदोन्नाहं
पश्य
उन्मादकं
नृणाम्
20
▾
Meaning
Keep
हैहयो
नहुषो
वेणो
रावणो
नरकोऽपरे
।
श्रीमदाद्
भ्रंशिताः
स्थानाद्
देवदैत्यनरेश्वराः
21
▾
Meaning
Keep
भवन्त
एतद्
विज्ञाय
देहाद्युत्पाद्यमन्तवत्
।
मां
यजन्तोऽध्वरैर्युक्ताः
प्रजा
धर्मेण
रक्ष्यथ
22
▾
Meaning
Keep
सन्तन्वन्तः
प्रजातन्तून्
सुखं
दुःखं
भवाभवौ
।
प्राप्तं
प्राप्तं
च
सेवन्तो
मच्चित्ता
विचरिष्यथ
23
▾
Meaning
Keep
उदासीनाश्च
देहादावात्मारामा
धृतव्रताः
।
मय्यावेश्य
मनः
सम्यङ्
मामन्ते
ब्रह्म
यास्यथ
24
▾
Meaning
Keep
इत्यादिश्य
नृपान्
कृष्णो
भगवान्
भुवनेश्वरः
।
तेषां
न्ययुङ्क्त
पुरुषान्
स्त्रियो
मज्जनकर्मणि
25
▾
Meaning
Keep
सपर्यां
कारयामास
सहदेवेन
भारत
।
नरदेवोचितैर्वस्त्रैर्भूषणैः
स्रग्विलेपनैः
26
▾
Meaning
Keep
भोजयित्वा
वरान्नेन
सुस्नातान्
समलङ्कृतान्
।
भोगैश्च
विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः
27
▾
Meaning
Keep
ते
पूजिता
मुकुन्देन
राजानो
मृष्टकुण्डलाः
।
विरेजुर्मोचिताः
क्लेशात्प्रावृडन्ते
यथा
ग्रहाः
28
▾
Meaning
Keep
रथान्सदश्वानारोप्य
मणिकाञ्चनभूषितान्
।
प्रीणय्य
सुनृतैर्वाक्यैः
स्वदेशान्
प्रत्ययापयत्
29
▾
Meaning
Keep
त
एवं
मोचिताः
कृच्छ्रात्कृष्णेन
सुमहात्मना
।
ययुस्तमेव
ध्यायन्तः
कृतानि
च
जगत्पतेः
30
▾
Meaning
Keep
जगदुः
प्रकृतिभ्यस्ते
महापुरुषचेष्टितम्
।
यथान्वशासद्भगवांस्तथा
चक्रुरतन्द्रिताः
31
▾
Meaning
Keep
जरासन्धं
घातयित्वा
भीमसेनेन
केशवः
।
पार्थाभ्यां
संयुतः
प्रायात्सहदेवेन
पूजितः
32
▾
Meaning
Keep
गत्वा
ते
खाण्डवप्रस्थं
शङ्खान्
दध्मुर्जितारयः
।
हर्षयन्तः
स्वसुहृदो
दुर्हृदां
चासुखावहाः
33
▾
Meaning
Keep
तच्छ्रुत्वा
प्रीतमनस
इन्द्रप्रस्थनिवासिनः
।
मेनिरे
मागधं
शान्तं
राजा
चाप्तमनोरथः
34
▾
Meaning
Keep
अभिवन्द्याथ
राजानं
भीमार्जुनजनार्दनाः
।
सर्वमाश्रावयाञ्चक्रुरात्मना
यदनुष्ठितम्
35
▾
Meaning
Keep
निशम्य
धर्मराजस्तत्केशवेनानुकम्पितम्
।
आनन्दाश्रुकलां
मुञ्चन्
प्रेम्णा
नोवाच
किञ्चन
Previous
←
The Killing of Jarasandha
Next
The Great Sacrifice, and the Death of Sisupala
→