Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Great Sacrifice, and the Death of Sisupala
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
युधिष्ठिरो
राजा
जरासन्धवधं
विभोः
।
कृष्णस्य
चानुभावं
तं
श्रुत्वा
प्रीतस्तमब्रवीत्
2
▾
Meaning
Keep
ये
स्युस्त्रैलोक्यगुरवः
सर्वे
लोकमहेश्वराः
।
वहन्ति
दुर्लभं
लब्ध्वा
शिरसैवानुशासनम्
3
▾
Meaning
Keep
स
भवानरविन्दाक्षो
दीनानामीशमानिनाम्
।
धत्तेऽनुशासनं
भूमंस्तदत्यन्तविडम्बनम्
4
▾
Meaning
Keep
न
ह्येकस्याद्वितीयस्य
ब्रह्मणः
परमात्मनः
।
कर्मभिर्वर्धते
तेजो
ह्रसते
च
यथा
रवेः
5
▾
Meaning
Keep
न
वै
तेऽजित
भक्तानां
ममाहमिति
माधव
।
त्वं
तवेति
च
नानाधीः
पशूनामिव
वैकृती
6
▾
Meaning
Keep
इत्युक्त्वा
यज्ञिये
काले
वव्रे
युक्तान्
स
ऋत्विजः
।
कृष्णानुमोदितः
पार्थो
ब्राह्मणान्
ब्रह्मवादिनः
7
▾
Meaning
Keep
द्वैपायनो
भरद्वाजः
सुमन्तुर्गोतमोऽसितः
।
वसिष्ठश्च्यवनः
कण्वो
मैत्रेयः
कवषस्त्रितः
8
▾
Meaning
Keep
विश्वामित्रो
वामदेवः
सुमतिर्जैमिनिः
क्रतुः
।
पैलः
पराशरो
गर्गो
वैशम्पायन
एव
च
9
▾
Meaning
Keep
अथर्वा
कश्यपो
धौम्यो
रामो
भार्गव
आसुरिः
।
वीतिहोत्रो
मधुच्छन्दा
वीरसेनोऽकृतव्रणः
10
▾
Meaning
Keep
उपहूतास्तथा
चान्ये
द्रोणभीष्मकृपादयः
।
धृतराष्ट्रः
सहसुतो
विदुरश्च
महामतिः
11
▾
Meaning
Keep
ब्राह्मणाः
क्षत्रिया
वैश्याः
शूद्रा
यज्ञदिदृक्षवः
।
तत्रेयुः
सर्वराजानो
राज्ञां
प्रकृतयो
नृप
12
▾
Meaning
Keep
ततस्ते
देवयजनं
ब्राह्मणाः
स्वर्णलाङ्गलैः
।
कृष्ट्वा
तत्र
यथाम्नायं
दीक्षयाञ्चक्रिरे
नृपम्
13
▾
Meaning
Keep
हैमाः
किलोपकरणा
वरुणस्य
यथा
पुरा
।
इन्द्रादयो
लोकपाला
विरिञ्चिभवसंयुताः
14
▾
Meaning
Keep
सगणाः
सिद्धगन्धर्वा
विद्याधरमहोरगाः
।
मुनयो
यक्षरक्षांसि
खगकिन्नरचारणाः
15
▾
Meaning
Keep
राजानश्च
समाहूता
राजपत्न्यश्च
सर्वशः
।
राजसूयं
समीयुः
स्म
राज्ञः
पाण्डुसुतस्य
वै
16
▾
Meaning
Keep
मेनिरे
कृष्णभक्तस्य
सूपपन्नमविस्मिताः
।
अयाजयन्
महाराजं
याजका
देववर्चसः
17
▾
Meaning
Keep
राजसूयेन
विधिवत्प्रचेतसमिवामराः
।
सौत्येऽहन्यवनीपालो
याजकान्
सदसस्पतीन्
।
अपूजयन्महाभागान्
यथावत्सुसमाहितः
18
▾
Meaning
Keep
सदस्याग्र्यार्हणार्हं
वै
विमृशन्तः
सभासदः
।
नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत्
19
▾
Meaning
Keep
अर्हति
ह्यच्युतः
श्रैष्ठ्यं
भगवान्
सात्वतां
पतिः
।
एष
वै
देवताः
सर्वा
देशकालधनादयः
20
▾
Meaning
Keep
यदात्मकमिदं
विश्वं
क्रतवश्च
यदात्मकाः
।
अग्निराहुतयो
मन्त्राः
सांख्यं
योगश्च
यत्परः
21
▾
Meaning
Keep
एक
एवाद्वितीयोऽसावैतदात्म्यमिदं
जगत्
।
आत्मनाऽऽत्माश्रयः
सभ्याः
सृजत्यवति
हन्त्यजः
22
▾
Meaning
Keep
विविधानीह
कर्माणि
जनयन्
यदवेक्षया
।
ईहते
यदयं
सर्वः
श्रेयो
धर्मादिलक्षणम्
23
▾
Meaning
Keep
तस्मात्कृष्णाय
महते
दीयतां
परमार्हणम्
।
एवं
चेत्सर्वभूतानामात्मनश्चार्हणं
भवेत्
24
▾
Meaning
Keep
सर्वभूतात्मभूताय
कृष्णायानन्यदर्शिने
।
देयं
शान्ताय
पूर्णाय
दत्तस्यानन्त्यमिच्छता
25
▾
Meaning
Keep
इत्युक्त्वा
सहदेवोऽभूत्तूष्णीं
कृष्णानुभाववित्
।
तच्छ्रुत्वा
तुष्टुवुः
सर्वे
साधु
साध्विति
सत्तमाः
26
▾
Meaning
Keep
श्रुत्वा
द्विजेरितं
राजा
ज्ञात्वा
हार्दं
सभासदाम्
।
समर्हयद्धृषीकेशं
प्रीतः
प्रणयविह्वलः
27
▾
Meaning
Keep
तत्पादाववनिज्यापः
शिरसा
लोकपावनीः
।
सभार्यः
सानुजामात्यः
सकुटुम्बोऽवहन्मुदा
28
▾
Meaning
Keep
वासोभिः
पीतकौशेयैर्भूषणैश्च
महाधनैः
।
अर्हयित्वाश्रुपूर्णाक्षो
नाशकत्समवेक्षितुम्
29
▾
Meaning
Keep
इत्थं
सभाजितं
वीक्ष्य
सर्वे
प्राञ्जलयो
जनाः
।
नमो
जयेति
नेमुस्तं
निपेतुः
पुष्पवृष्टयः
30
▾
Meaning
Keep
इत्थं
निशम्य
दमघोषसुतः
स्वपीठा-
दुत्थाय
कृष्णगुणवर्णनजातमन्युः
।
उत्क्षिप्य
बाहुमिदमाह
सदस्यमर्षी
संश्रावयन्
भगवते
परुषाण्यभीतः
31
▾
Meaning
Keep
ईशो
दुरत्ययः
काल
इति
सत्यवती
श्रुतिः
।
वृद्धानामपि
यद्बुद्धिर्बालवाक्यैर्विभिद्यते
32
▾
Meaning
Keep
यूयं
पात्रविदां
श्रेष्ठा
मा
मन्ध्वं
बालभाषितम्
।
सदसस्पतयः
सर्वे
कृष्णो
यत्
सम्मतोऽर्हणे
33
▾
Meaning
Keep
तपोविद्याव्रतधरान्
ज्ञानविध्वस्तकल्मषान्
।
परमर्षीन्
ब्रह्मनिष्ठांन्
लोकपालैश्च
पूजितान्
34
▾
Meaning
Keep
सदस्पतीनतिक्रम्य
गोपालः
कुलपांसनः
।
यथा
काकः
पुरोडाशं
सपर्यां
कथमर्हति
35
▾
Meaning
Keep
वर्णाश्रमकुलापेतः
सर्वधर्मबहिष्कृतः
।
स्वैरवर्ती
गुणैर्हीनः
सपर्यां
कथमर्हति
36
▾
Meaning
Keep
ययातिनैषां
हि
कुलं
शप्तं
सद्भिर्बहिष्कृतम्
।
वृथापानरतं
शश्वत्सपर्यां
कथमर्हति
37
▾
Meaning
Keep
ब्रह्मर्षिसेवितान्
देशान्
हित्वैतेऽब्रह्मवर्चसम्
।
समुद्रं
दुर्गमाश्रित्य
बाधन्ते
दस्यवः
प्रजाः
38
▾
Meaning
Keep
एवमादीन्यभद्राणि
बभाषे
नष्टमङ्गलः
।
नोवाच
किञ्चिद्भगवान्
यथा
सिंहः
शिवारुतम्
39
▾
Meaning
Keep
भगवन्निन्दनं
श्रुत्वा
दुःसहं
तत्सभासदः
।
कर्णौ
पिधाय
निर्जग्मुः
शपन्तश्चेदिपं
रुषा
40
▾
Meaning
Keep
निन्दां
भगवतः
शृण्वंस्तत्परस्य
जनस्य
वा
।
ततो
नापैति
यः
सोऽपि
यात्यधः
सुकृताच्च्युतः
41
▾
Meaning
Keep
ततः
पाण्डुसुताः
क्रुद्धा
मत्स्यकैकयसृञ्जयाः
।
उदायुधाः
समुत्तस्थुः
शिशुपालजिघांसवः
42
▾
Meaning
Keep
ततश्चैद्यस्त्वसम्भ्रान्तो
जगृहे
खड्गचर्मणी
।
भर्त्सयन्
कृष्णपक्षीयान्
राज्ञः
सदसि
भारत
43
▾
Meaning
Keep
तावदुत्थाय
भगवान्
स्वान्
निवार्य
स्वयं
रुषा
।
शिरः
क्षुरान्तचक्रेण
जहारपततो
रिपोः
44
▾
Meaning
Keep
शब्दः
कोलाहलोऽप्यासीत्
शिशुपाले
हते
महान्
।
तस्यानुयायिनो
भूपा
दुद्रुवुर्जीवितैषिणः
45
▾
Meaning
Keep
चैद्यदेहोत्थितं
ज्योतिर्वासुदेवमुपाविशत्
।
पश्यतां
सर्वभूतानामुल्केव
भुवि
खाच्च्युता
46
▾
Meaning
Keep
जन्मत्रयानुगुणितवैरसंरब्धया
धिया
।
ध्यायंस्तन्मयतां
यातो
भावो
हि
भवकारणम्
47
▾
Meaning
Keep
ऋत्विग्भ्यः
ससदस्येभ्यो
दक्षिणां
विपुलामदात्
।
सर्वान्
सम्पूज्य
विधिवच्चक्रेऽवभृथमेकराट्
48
▾
Meaning
Keep
साधयित्वा
क्रतुः
राज्ञः
कृष्णो
योगेश्वरेश्वरः
।
उवास
कतिचिन्मासान्
सुहृद्भिरभियाचितः
49
▾
Meaning
Keep
ततोऽनुज्ञाप्य
राजानमनिच्छन्तमपीश्वरः
।
ययौ
सभार्यः
सामात्यः
स्वपुरं
देवकीसुतः
50
▾
Meaning
Keep
वर्णितं
तदुपाख्यानं
मया
ते
बहुविस्तरम्
।
वैकुण्ठवासिनोर्जन्म
विप्रशापात्पुनः
पुनः
51
▾
Meaning
Keep
राजसूयावभृथ्येन
स्नातो
राजा
युधिष्ठिरः
।
ब्रह्मक्षत्रसभामध्ये
शुशुभे
सुरराडिव
52
▾
Meaning
Keep
राज्ञा
सभाजिताः
सर्वे
सुरमानवखेचराः
।
कृष्णं
क्रतुं
च
शंसन्तः
स्वधामानि
ययुर्मुदा
53
▾
Meaning
Keep
दुर्योधनमृते
पापं
कलिं
कुरुकुलामयम्
।
यो
न
सेहे
श्रियं
स्फीतां
दृष्ट्वा
पाण्डुसुतस्य
ताम्
54
▾
Meaning
Keep
य
इदं
कीर्तयेद्विष्णोः
कर्म
चैद्यवधादिकम्
।
राजमोक्षं
वितानं
च
सर्वपापैः
प्रमुच्यते
Previous
←
The Kings Come Out of the Mountain Valley
Next
The Closing Bath, and Duryodhana in the Hall
→