Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Fall of Saubha
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स
तूपस्पृश्य
सलिलं
दंशितो
धृतकार्मुकः
।
नय
मां
द्युमतः
पार्श्वं
वीरस्येत्याह
सारथिम्
2
▾
Meaning
Keep
विधमन्तं
स्वसैन्यानि
द्युमन्तं
रुक्मिणीसुतः
।
प्रतिहत्य
प्रत्यविध्यान्नाराचैरष्टभिः
स्मयन्
3
▾
Meaning
Keep
चतुर्भिश्चतुरो
वाहान्
सूतमेकेन
चाहनत्
।
द्वाभ्यं
धनुश्च
केतुं
च
शरेणान्येन
वै
शिरः
4
▾
Meaning
Keep
गदसात्यकिसाम्बाद्या
जघ्नुः
सौभपतेर्बलम्
।
पेतुः
समुद्रे
सौभेयाः
सर्वे
संछिन्नकन्धराः
5
▾
Meaning
Keep
एवं
यदूनां
शाल्वानां
निघ्नतामितरेतरम्
।
युद्धं
त्रिनवरात्रं
तदभूत्तुमुलमुल्बणम्
6
▾
Meaning
Keep
इन्द्रप्रस्थं
गतः
कृष्ण
आहूतो
धर्मसूनुना
।
राजसूयेऽथ
निवृत्ते
शिशुपाले
च
संस्थिते
7
▾
Meaning
Keep
कुरुवृद्धाननुज्ञाप्य
मुनींश्च
ससुतां
पृथाम्
।
निमित्तान्यतिघोराणि
पश्यन्
द्वारवतीं
ययौ
8
▾
Meaning
Keep
आह
चाहमिहायात
आर्यमिश्राभिसङ्गतः
।
राजन्याश्चैद्यपक्षीया
नूनं
हन्युः
पुरीं
मम
9
▾
Meaning
Keep
वीक्ष्य
तत्कदनं
स्वानां
निरूप्य
पुररक्षणम्
।
सौभं
च
शाल्वराजं
च
दारुकं
प्राह
केशवः
10
▾
Meaning
Keep
रथं
प्रापय
मे
सूत
शाल्वस्यान्तिकमाशु
वै
।
सम्भ्रमस्ते
न
कर्तव्यो
मायावी
सौभराडयम्
11
▾
Meaning
Keep
इत्युक्तश्चोदयामास
रथमास्थाय
दारुकः
।
विशन्तं
ददृशुः
सर्वे
स्वे
परे
चारुणानुजम्
12
▾
Meaning
Keep
शाल्वश्च
कृष्णमालोक्य
हतप्रायबलेश्वरः
।
प्राहरत्कृष्णसूताय
शक्तिं
भीमरवां
मृधे
13
▾
Meaning
Keep
तामापतन्तीं
नभसि
महोल्कामिव
रंहसा
।
भासयन्तीं
दिशः
शौरिः
सायकैः
शतधाच्छिनत्
14
▾
Meaning
Keep
तं
च
षोडशभिर्विद्ध्वा
बाणैः
सौभं
च
खे
भ्रमत्
।
अविध्यच्छरसन्दोहैः
खं
सूर्य
इव
रश्मिभिः
15
▾
Meaning
Keep
शाल्वः
शौरेस्तु
दोःसव्यं
सशार्ङ्गं
शार्ङ्गधन्वनः
।
बिभेद
न्यपतद्धस्तात्
शार्ङ्गमासीत्
तदद्भुतम्
16
▾
Meaning
Keep
हाहाकारो
महानासीद्
भूतानां
तत्र
पश्यताम्
।
निनद्य
सौभराडुच्चैरिदमाह
जनार्दनम्
17
▾
Meaning
Keep
यत्त्वया
मूढ
नः
सख्युर्भ्रातुर्भार्या
हृतेक्षताम्
।
प्रमत्तः
स
सभामध्ये
त्वया
व्यापादितः
सखा
18
▾
Meaning
Keep
तं
त्वाद्य
निशितैर्बाणैरपराजितमानिनम्
।
नयाम्यपुनरावृत्तिं
यदि
तिष्ठेर्ममाग्रतः
19
▾
Meaning
Keep
श्रीभगवानुवाच ।
वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।
पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः
20
▾
Meaning
Keep
इत्युक्त्वा
भगवाञ्छाल्वं
गदया
भीमवेगया
।
तताड
जत्रौ
संरब्धः
स
चकम्पे
वमन्नसृक्
21
▾
Meaning
Keep
गदायां
सन्निवृत्तायां
शाल्वस्त्वन्तरधीयत
।
ततो
मुहूर्त
आगत्य
पुरुषः
शिरसाच्युतम्
।
देवक्या
प्रहितोऽस्मीति
नत्वा
प्राह
वचो
रुदन्
22
▾
Meaning
Keep
कृष्ण
कृष्ण
महाबाहो
पिता
ते
पितृवत्सल
।
बद्ध्वापनीतः
शाल्वेन
सौनिकेन
यथा
पशुः
23
▾
Meaning
Keep
निशम्य
विप्रियं
कृष्णो
मानुषीं
प्रकृतिं
गतः
।
विमनस्को
घृणी
स्नेहाद्बभाषे
प्राकृतो
यथा
24
▾
Meaning
Keep
कथं
राममसम्भ्रान्तं
जित्वाजेयं
सुरासुरैः
।
शाल्वेनाल्पीयसा
नीतः
पिता
मे
बलवान्
विधिः
25
▾
Meaning
Keep
इति
ब्रुवाणे
गोविन्दे
सौभराट्
प्रत्युपस्थितः
।
वसुदेवमिवानीय
कृष्णं
चेदमुवाच
सः
26
▾
Meaning
Keep
एष
ते
जनिता
तातो
यदर्थमिह
जीवसि
।
वधिष्ये
वीक्षतस्तेऽमुमीशश्चेत्पाहि
बालिश
27
▾
Meaning
Keep
एवं
निर्भर्त्स्य
मायावी
खड्गेनानकदुन्दुभेः
।
उत्कृत्य
शिर
आदाय
खस्थं
सौभं
समाविशत्
28
▾
Meaning
Keep
ततो
मुहूर्तं
प्रकृतावुपप्लुतः
स्वबोध
आस्ते
स्वजनानुषङ्गतः
।
महानुभावस्तदबुध्यदासुरीं
मायां
स
शाल्वप्रसृतां
मयोदिताम्
29
▾
Meaning
Keep
न
तत्र
दूतं
न
पितुः
कलेवरं
प्रबुद्ध
आजौ
समपश्यदच्युतः
।
स्वाप्नं
यथा
चाम्बरचारिणं
रिपुं
सौभस्थमालोक्य
निहन्तुमुद्यतः
30
▾
Meaning
Keep
एवं
वदन्ति
राजर्षे
ऋषयः
के
च
नान्विताः
।
यत्स्ववाचो
विरुध्येत
नूनं
ते
न
स्मरन्त्युत
31
▾
Meaning
Keep
क्व
शोकमोहौ
स्नेहो
वा
भयं
वा
येऽज्ञसम्भवाः
।
क्व
चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डितः
32
▾
Meaning
Keep
यत्पादसेवोर्जितयाऽऽत्मविद्यया
हिन्वन्त्यनाद्यात्मविपर्ययग्रहम्
।
लभन्त
आत्मीयमनन्तमैश्वरं
कुतो
नु
मोहः
परमस्य
सद्गतेः
33
▾
Meaning
Keep
तं
शस्त्रपूगैः
प्रहरन्तमोजसा
शाल्वं
शरैः
शौरिरमोघविक्रमः
।
विद्ध्वाच्छिनद्वर्म
धनुः
शिरोमणिं
सौभं
च
शत्रोर्गदया
रुरोज
ह
34
▾
Meaning
Keep
तत्कृष्णहस्तेरितया
विचूर्णितं
पपात
तोये
गदया
सहस्रधा
।
विसृज्य
तद्भूतलमास्थितो
गदा-
मुद्यम्य
शाल्वोऽच्युतमभ्यगाद्द्रुतम्
35
▾
Meaning
Keep
आधावतः
सगदं
तस्य
बाहुं
भल्लेन
छित्त्वाथ
रथाङ्गमद्भुतम्
।
वधाय
शाल्वस्य
लयार्कसन्निभं
बिभ्रद्बभौ
सार्क
इवोदयाचलः
36
▾
Meaning
Keep
जहार
तेनैव
शिरः
सकुण्डलं
किरीटयुक्तं
पुरुमायिनो
हरिः
।
वज्रेण
वृत्रस्य
यथा
पुरन्दरो
बभूव
हाहेति
वचस्तदा
नृणाम्
37
▾
Meaning
Keep
तस्मिन्
निपतिते
पापे
सौभे
च
गदया
हते
।
नेदुर्दुन्दुभयो
राजन्
दिवि
देवगणेरिताः
।
सखीनामपचितिं
कुर्वन्दन्तवक्रो
रुषाभ्यगात्
Previous
←
Salva and the Iron City
Next
Dantavakra, and the Bard at Naimisa
→