Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Salva and the Iron City
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथान्यदपि
कृष्णस्य
शृणु
कर्माद्भुतं
नृप
।
क्रीडानरशरीरस्य
यथा
सौभपतिर्हतः
2
▾
Meaning
Keep
शिशुपालसखः
शाल्वो
रुक्मिण्युद्वाह
आगतः
।
यदुभिर्निर्जितः
संख्ये
जरासन्धादयस्तथा
3
▾
Meaning
Keep
शाल्वः
प्रतिज्ञामकरोत्
शृण्वतां
सर्वभूभुजाम्
।
अयादवां
क्ष्मां
करिष्ये
पौरुषं
मम
पश्यत
4
▾
Meaning
Keep
इति
मूढः
प्रतिज्ञाय
देवं
पशुपतिं
प्रभुम्
।
आराधयामास
नृपः
पांसुमुष्टिं
सकृद्ग्रसन्
5
▾
Meaning
Keep
संवत्सरान्ते
भगवानाशुतोष
उमापतिः
।
वरेण
च्छन्दयामास
शाल्वं
शरणमागतम्
6
▾
Meaning
Keep
देवासुरमनुष्याणां
गन्धर्वोरगरक्षसाम्
।
अभेद्यं
कामगं
वव्रे
स
यानं
वृष्णिभीषणम्
7
▾
Meaning
Keep
तथेति
गिरिशादिष्टो
मयः
परपुरञ्जयः
।
पुरं
निर्माय
शाल्वाय
प्रादात्
सौभमयस्मयम्
8
▾
Meaning
Keep
स
लब्ध्वा
कामगं
यानं
तमोधाम
दुरासदम्
।
ययौ
द्वारवतीं
शाल्वो
वैरं
वृष्णिकृतं
स्मरन्
9
▾
Meaning
Keep
निरुध्य
सेनया
शाल्वो
महत्या
भरतर्षभ
।
पुरीं
बभञ्जोपवनानुद्यानानि
च
सर्वशः
10
▾
Meaning
Keep
स
गोपुराणि
द्वाराणि
प्रासादाट्टालतोलिकाः
।
विहारान्
स
विमानाग्र्यान्निपेतुः
शस्त्रवृष्टयः
11
▾
Meaning
Keep
शिला
द्रुमाश्चाशनयः
सर्पा
आसारशर्कराः
।
प्रचण्डश्चक्रवातोऽभूद्रजसाऽऽच्छादिता
दिशः
12
▾
Meaning
Keep
इत्यर्द्यमाना
सौभेन
कृष्णस्य
नगरी
भृशम्
।
नाभ्यपद्यत
शं
राजंस्त्रिपुरेण
यथा
मही
13
▾
Meaning
Keep
प्रद्युम्नो
भगवान्
वीक्ष्य
बाध्यमाना
निजाः
प्रजाः
।
मा
भैष्टेत्यभ्यधाद्वीरो
रथारूढो
महायशाः
14
▾
Meaning
Keep
सात्यकिश्चारुदेष्णश्च
साम्बोऽक्रूरः
सहानुजः
।
हार्दिक्यो
भानुविन्दश्च
गदश्च
शुकसारणौ
15
▾
Meaning
Keep
अपरे
च
महेष्वासा
रथयूथपयूथपाः
।
निर्ययुर्दंशिता
गुप्ता
रथेभाश्वपदातिभिः
16
▾
Meaning
Keep
ततः
प्रववृते
युद्धं
शाल्वानां
यदुभिः
सह
।
यथासुराणां
विबुधैस्तुमुलं
लोमहर्षणम्
17
▾
Meaning
Keep
ताश्च
सौभपतेर्माया
दिव्यास्त्रै
रुक्मिणीसुतः
।
क्षणेन
नाशयामास
नैशं
तम
इवोष्णगुः
18
▾
Meaning
Keep
विव्याध
पञ्चविंशत्या
स्वर्णपुङ्खैरयोमुखैः
।
शाल्वस्य
ध्वजिनीपालं
शरैः
सन्नतपर्वभिः
19
▾
Meaning
Keep
शतेनाताडयच्छाल्वमेकैकेनास्य
सैनिकान्
।
दशभिर्दशभिर्नेतॄन्
वाहनानि
त्रिभिस्त्रिभिः
20
▾
Meaning
Keep
तदद्भुतं
महत्कर्म
प्रद्युम्नस्य
महात्मनः
।
दृष्ट्वा
तं
पूजयामासुः
सर्वे
स्वपरसैनिकाः
21
▾
Meaning
Keep
बहुरूपैकरूपं
तद्दृश्यते
न
च
दृश्यते
।
मायामयं
मयकृतं
दुर्विभाव्यं
परैरभूत्
22
▾
Meaning
Keep
क्वचिद्भूमौ
क्वचिद्व्योम्नि
गिरिमूर्ध्नि
जले
क्वचित्
।
अलातचक्रवद्भ्राम्यत्सौभं
तद्दुरवस्थितम्
23
▾
Meaning
Keep
यत्र
यत्रोपलक्ष्येत
ससौभः
सहसैनिकः
।
शाल्वस्ततस्ततोऽमुञ्चन्
शरान्
सात्वतयूथपाः
24
▾
Meaning
Keep
शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः
।
पीड्यमानपुरानीकः
शाल्वोऽमुह्यत्परेरितैः
25
▾
Meaning
Keep
शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा
भृशार्दिताः
।
न
तत्यजू
रणं
स्वं
स्वं
लोकद्वयजिगीषवः
26
▾
Meaning
Keep
शाल्वामात्यो
द्युमान्
नाम
प्रद्युम्नं
प्राक्प्रपीडितः
।
आसाद्य
गदया
मौर्व्या
व्याहत्य
व्यनदद्बली
27
▾
Meaning
Keep
प्रद्युम्नं
गदया
शीर्ण
वक्षःस्थलमरिन्दमम्
।
अपोवाह
रणात्
सूतो
धर्मविद्
दारुकात्मजः
28
▾
Meaning
Keep
लब्धसंज्ञो
मुहूर्तेन
कार्ष्णिः
सारथिमब्रवीत्
।
अहो
असाध्विदं
सूत
यद्
रणान्मेऽपसर्पणम्
29
▾
Meaning
Keep
न
यदूनां
कुले
जातः
श्रूयते
रणविच्युतः
।
विना
मत्क्लीबचित्तेन
सूतेन
प्राप्तकिल्बिषात्
30
▾
Meaning
Keep
किं
नु
वक्ष्येऽभिसङ्गम्य
पितरौ
रामकेशवौ
।
युद्धात्सम्यगपक्रान्तः
पृष्टस्तत्रात्मनः
क्षमम्
31
▾
Meaning
Keep
व्यक्तं
मे
कथयिष्यन्ति
हसन्त्यो
भ्रातृजामयः
।
क्लैब्यं
कथं
कथं
वीर
तवान्यैः
कथ्यतां
मृधे
32
▾
Meaning
Keep
धर्मं
विजानताऽऽयुष्मन्
कृतमेतन्मया
विभो
।
सूतः
कृच्छ्रगतं
रक्षेद्रथिनं
सारथिं
रथी
33
▾
Meaning
Keep
एतद्विदित्वा
तु
भवान्
मयापोवाहितो
रणात्
।
उपसृष्टः
परेणेति
मूर्च्छितो
गदया
हतः
Previous
←
The Closing Bath, and Duryodhana in the Hall
Next
The Fall of Saubha
→