Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bhrgu's Test, and the Brahmin's Sons
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सरस्वत्यास्तटे
राजन्नृषयः
सत्रमासत
।
वितर्कः
समभूत्तेषां
त्रिष्वधीशेषु
को
महान्
2
▾
Meaning
Keep
तस्य
जिज्ञासया
ते
वै
भृगुं
ब्रह्मसुतं
नृप
।
तज्ज्ञप्त्यै
प्रेषयामासुः
सोऽभ्यगाद्ब्रह्मणः
सभाम्
3
▾
Meaning
Keep
न
तस्मै
प्रह्वणं
स्तोत्रं
चक्रे
सत्त्वपरीक्षया
।
तस्मै
चुक्रोध
भगवान्
प्रज्वलन्
स्वेन
तेजसा
4
▾
Meaning
Keep
स
आत्मन्युत्थितं
मन्युमात्मजायात्मना
प्रभुः
।
अशीशमद्यथा
वह्निं
स्वयोन्या
वारिणाऽऽत्मभूः
5
▾
Meaning
Keep
ततः
कैलासमगमत्स
तं
देवो
महेश्वरः
।
परिरब्धुं
समारेभ
उत्थाय
भ्रातरं
मुदा
6
▾
Meaning
Keep
नैच्छत्त्वमस्युत्पथग
इति
देवश्चुकोप
ह
।
शूलमुद्यम्य
तं
हन्तुमारेभे
तिग्मलोचनः
7
▾
Meaning
Keep
पतित्वा
पादयोर्देवी
सान्त्वयामास
तं
गिरा
।
अथो
जगाम
वैकुण्ठं
यत्र
देवो
जनार्दनः
8
▾
Meaning
Keep
शयानं
श्रिय
उत्सङ्गे
पदा
वक्षस्यताडयत्
।
तत
उत्थाय
भगवान्
सह
लक्ष्म्या
सतां
गतिः
9
▾
Meaning
Keep
स्वतल्पादवरुह्याथ
ननाम
शिरसा
मुनिम्
।
आह
ते
स्वागतं
ब्रह्मन्
निषीदात्रासने
क्षणम्
।
अजानतामागतान्
वः
क्षन्तुमर्हथ
नः
प्रभो
10
▾
Meaning
Keep
अतीव
कोमलौ
तात
चरणौ
ते
महामुने
।
इत्युक्त्वा
विप्रचरणौ
मर्दयन्
स्वेन
पाणिना
11
▾
Meaning
Keep
पुनीहि
सह
लोकं
मां
लोकपालांश्च
मद्गतान्
।
पादोदकेन
भवतस्तीर्थानां
तीर्थकारिणा
12
▾
Meaning
Keep
अद्याहं
भगवंल्लक्ष्म्या
आसमेकान्तभाजनम्
।
वत्स्यत्युरसि
मे
भूतिर्भवत्पादहतांहसः
13
▾
Meaning
Keep
एवं
ब्रुवाणे
वैकुण्ठे
भृगुस्तन्मन्द्रया
गिरा
।
निर्वृतस्तर्पितस्तूष्णीं
भक्त्युत्कण्ठोऽश्रुलोचनः
14
▾
Meaning
Keep
पुनश्च
सत्रमाव्रज्य
मुनीनां
ब्रह्मवादिनाम्
।
स्वानुभूतमशेषेण
राजन्
भृगुरवर्णयत्
15
▾
Meaning
Keep
तन्निशम्याथ
मुनयो
विस्मिता
मुक्तसंशयाः
।
भूयांसं
श्रद्दधुर्विष्णुं
यतः
शान्तिर्यतोऽभयम्
16
▾
Meaning
Keep
धर्मः
साक्षाद्यतो
ज्ञानं
वैराग्यं
च
तदन्वितम्
।
ऐश्वर्यं
चाष्टधा
यस्माद्यशश्चात्ममलापहम्
17
▾
Meaning
Keep
मुनीनां
न्यस्तदण्डानां
शान्तानां
समचेतसाम्
।
अकिञ्चनानां
साधूनां
यमाहुः
परमां
गतिम्
18
▾
Meaning
Keep
सत्त्वं
यस्य
प्रिया
मूर्तिर्ब्राह्मणास्त्विष्टदेवताः
।
भजन्त्यनाशिषः
शान्ता
यं
वा
निपुणबुद्धयः
19
▾
Meaning
Keep
त्रिविधाकृतयस्तस्य
राक्षसा
असुराः
सुराः
।
गुणिन्या
मायया
सृष्टाः
सत्त्वं
तत्तीर्थसाधनम्
20
▾
Meaning
Keep
इत्थं
सारस्वता
विप्रा
नृणां
संशयनुत्तये
।
पुरुषस्य
पदाम्भोजसेवया
तद्गतिं
गताः
21
▾
Meaning
Keep
इत्येतन्मुनितनयास्यपद्मगन्ध
पीयूषं
भवभयभित्
परस्य
पुंसः
।
सुश्लोकं
श्रवणपुटैः
पिबत्यभीक्ष्णम्
पान्थोऽध्वभ्रमणपरिश्रमं
जहाति
22
▾
Meaning
Keep
एकदा
द्वारवत्यां
तु
विप्रपत्न्याः
कुमारकः
।
जातमात्रो
भुवं
स्पृष्ट्वा
ममार
किल
भारत
23
▾
Meaning
Keep
विप्रो
गृहीत्वा
मृतकं
राजद्वार्युपधाय
सः
।
इदं
प्रोवाच
विलपन्नातुरो
दीनमानसः
24
▾
Meaning
Keep
ब्रह्मद्विषः
शठधियो
लुब्धस्य
विषयात्मनः
।
क्षत्रबन्धोः
कर्मदोषात्पञ्चत्वं
मे
गतोऽर्भकः
25
▾
Meaning
Keep
हिंसाविहारं
नृपतिं
दुःशीलमजितेन्द्रियम्
।
प्रजा
भजन्त्यः
सीदन्ति
दरिद्रा
नित्यदुःखिताः
26
▾
Meaning
Keep
एवं
द्वितीयं
विप्रर्षिस्तृतीयं
त्वेवमेव
च
।
विसृज्य
स
नृपद्वारि
तां
गाथां
समगायत
27
▾
Meaning
Keep
तामर्जुन
उपश्रुत्य
कर्हिचित्केशवान्तिके
।
परेते
नवमे
बाले
ब्राह्मणं
समभाषत
28
▾
Meaning
Keep
किंस्विद्
ब्रह्मंस्त्वन्निवासे
इह
नास्ति
धनुर्धरः
।
राजन्यबन्धुरेते
वै
ब्राह्मणाः
सत्र
आसते
29
▾
Meaning
Keep
धनदारात्मजापृक्ता
यत्र
शोचन्ति
ब्राह्मणाः
।
ते
वै
राजन्यवेषेण
नटा
जीवन्त्यसुम्भराः
30
▾
Meaning
Keep
अहं
प्रजाः
वां
भगवन्
रक्षिष्ये
दीनयोरिह
।
अनिस्तीर्णप्रतिज्ञोऽग्निं
प्रवेक्ष्ये
हतकल्मषः
31
▾
Meaning
Keep
सङ्कर्षणो
वासुदेवः
प्रद्युम्नो
धन्विनां
वरः
।
अनिरुद्धोऽप्रतिरथो
न
त्रातुं
शक्नुवन्ति
यत्
32
▾
Meaning
Keep
तत्
कथं
नु
भवान्
कर्म
दुष्करं
जगदीश्वरैः
।
त्वं
चिकीर्षसि
बालिश्यात्
तन्न
श्रद्दध्महे
वयम्
33
▾
Meaning
Keep
नाहं
सङ्कर्षणो
ब्रह्मन्
न
कृष्णः
कार्ष्णिरेव
च
।
अहं
वा
अर्जुनो
नाम
गाण्डीवं
यस्य
वै
धनुः
34
▾
Meaning
Keep
मावमंस्था
मम
ब्रह्मन्
वीर्यं
त्र्यम्बकतोषणम्
।
मृत्युं
विजित्य
प्रधने
आनेष्ये
ते
प्रजाः
प्रभो
35
▾
Meaning
Keep
एवं
विश्रम्भितो
विप्रः
फाल्गुनेन
परंतप
।
जगाम
स्वगृहं
प्रीतः
पार्थवीर्यं
निशामयन्
36
▾
Meaning
Keep
प्रसूतिकाल
आसन्ने
भार्याया
द्विजसत्तमः
।
पाहि
पाहि
प्रजां
मृत्योरित्याहार्जुनमातुरः
37
▾
Meaning
Keep
स
उपस्पृश्य
शुच्यम्भो
नमस्कृत्य
महेश्वरम्
।
दिव्यान्यस्त्राणि
संस्मृत्य
सज्यं
गाण्डीवमाददे
38
▾
Meaning
Keep
न्यरुणत्सूतिकागारं
शरैर्नानास्त्रयोजितैः
।
तिर्यगूर्ध्वमधः
पार्थश्चकार
शरपञ्जरम्
39
▾
Meaning
Keep
ततः
कुमारः
संजातो
विप्रपत्न्या
रुदन्
मुहुः
।
सद्योऽदर्शनमापेदे
सशरीरो
विहायसा
40
▾
Meaning
Keep
तदाऽऽह
विप्रो
विजयं
विनिन्दन्
कृष्णसन्निधौ
।
मौढ्यं
पश्यत
मे
योऽहं
श्रद्दधे
क्लीबकत्थनम्
41
▾
Meaning
Keep
न
प्रद्युम्नो
नानिरुद्धो
न
रामो
न
च
केशवः
।
यस्य
शेकुः
परित्रातुं
कोऽन्यस्तदवितेश्वरः
42
▾
Meaning
Keep
धिगर्जुनं
मृषावादं
धिगात्मश्लाघिनो
धनुः
।
दैवोपसृष्टं
यो
मौढ्यादानिनीषति
दुर्मतिः
43
▾
Meaning
Keep
एवं
शपति
विप्रर्षौ
विद्यामास्थाय
फाल्गुनः
।
ययौ
संयमनीमाशु
यत्रास्ते
भगवान्
यमः
44
▾
Meaning
Keep
विप्रापत्यमचक्षाणस्तत
ऐन्द्रीमगात्पुरीम्
।
आग्नेयीं
नैरृतीं
सौम्यां
वायव्यां
वारुणीमथ
।
रसातलं
नाकपृष्ठं
धिष्ण्यान्यन्यान्युदायुधः
45
▾
Meaning
Keep
ततोऽलब्धद्विजसुतो
ह्यनिस्तीर्णप्रतिश्रुतः
।
अग्निं
विविक्षुः
कृष्णेन
प्रत्युक्तः
प्रतिषेधता
46
▾
Meaning
Keep
दर्शये
द्विजसूनूंस्ते
मावज्ञात्मानमात्मना
।
ये
ते
नः
कीर्तिं
विमलां
मनुष्याः
स्थापयिष्यन्ति
47
▾
Meaning
Keep
इति
सम्भाष्य
भगवानर्जुनेन
सहेश्वरः
।
दिव्यं
स्वरथमास्थाय
प्रतीचीं
दिशमाविशत्
48
▾
Meaning
Keep
सप्त
द्वीपान्
सप्त
सिन्धूंश्च
सप्तसप्तगिरीनथ
।
लोकालोकं
तथातीत्य
विवेश
सुमहत्तमः
49
▾
Meaning
Keep
तत्राश्वाः
शैब्यसुग्रीवमेघपुष्पबलाहकाः
।
तमसि
भ्रष्टगतयो
बभूवुर्भरतर्षभ
50
▾
Meaning
Keep
तान्
दृष्ट्वा
भगवान्
कृष्णो
महायोगेश्वरेश्वरः
।
सहस्रादित्यसंकाशं
स्वचक्रं
प्राहिणोत्
पुरः
51
▾
Meaning
Keep
तमः
सुघोरं
गहनं
कृतं
मह-
द्विदारयद्भूरितरेण
रोचिषा
।
मनोजवं
निर्विविशे
सुदर्शनं
गुणच्युतो
रामशरो
यथा
चमूः
52
▾
Meaning
Keep
द्वारेण
चक्रानुपथेन
तत्तमःपरं
परं
ज्योतिरनन्तपारम्
।
समश्नुवानं
प्रसमीक्ष्य
फाल्गुनः
प्रताडिताक्षोऽपिदधेऽक्षिणी
उभे
53
▾
Meaning
Keep
ततः
प्रविष्टः
सलिलं
नभस्वता
बलीयसैजद्बृहदूर्मिभूषणम्
।
तत्राद्भुतं
वै
भवनं
द्युमत्तमं
भ्राजन्मणिस्तम्भसहस्रशोभितम्
54
▾
Meaning
Keep
तस्मिन्
महाभोगमनन्तमद्भुतं
सहस्रमूर्धन्यफणामणिद्युभिः
।
विभ्राजमानं
द्विगुणेक्षणोल्बणेक्षणं
सिताचलाभं
शितिकण्ठजिह्वम्
55
▾
Meaning
Keep
ददर्श
तद्भोगसुखासनं
विभुं
महानुभावं
पुरुषोत्तमोत्तमम्
।
सान्द्राम्बुदाभं
सुपिशङ्गवाससं
प्रसन्नवक्त्रं
रुचिरायतेक्षणम्
56
▾
Meaning
Keep
महामणिव्रातकिरीटकुण्डल-
प्रभापरिक्षिप्तसहस्रकुन्तलम्
।
प्रलम्बचार्वष्टभुजं
सकौस्तुभं
श्रीवत्सलक्ष्मं
वनमालया
वृतम्
57
▾
Meaning
Keep
सुनन्दनन्दप्रमुखैः
स्वपार्षदैश्चक्रादिभिर्मूर्तिधरैर्निजायुधैः
।
पुष्ट्या
श्रिया
कीत्र्यजयाखिलर्धिभिर्निषेव्यमाणं
परमेष्ठिनां
पतिम्
58
▾
Meaning
Keep
ववन्द
आत्मानमनन्तमच्युतो
जिष्णुश्च
तद्दर्शनजातसाध्वसः
।
तावाह
भूमा
परमेष्ठिनां
प्रभु-
र्बद्धाञ्जली
सस्मितमूर्जया
गिरा
59
▾
Meaning
Keep
द्विजात्मजा
मे
युवयोर्दिदृक्षुणा
मयोपनीता
भुवि
धर्मगुप्तये
।
कलावतीर्णाववनेर्भरासुरान्
हत्वेह
भूयस्त्वरयेतमन्ति
मे
60
▾
Meaning
Keep
पूर्णकामावपि
युवां
नरनारायणावृषी
।
धर्ममाचरतां
स्थित्यै
ऋषभौ
लोकसंग्रहम्
61
▾
Meaning
Keep
इत्यादिष्टौ
भगवता
तौ
कृष्णौ
परमेष्ठिना
।
ओमित्यानम्य
भूमानमादाय
द्विजदारकान्
62
▾
Meaning
Keep
न्यवर्तेतां
स्वकं
धाम
सम्प्रहृष्टौ
यथागतम्
।
विप्राय
ददतुः
पुत्रान्
यथारूपं
यथावयः
63
▾
Meaning
Keep
निशाम्य
वैष्णवं
धाम
पार्थः
परमविस्मितः
।
यत्
किंचित्
पौरुषं
पुंसां
मेने
कृष्णानुकम्पितम्
64
▾
Meaning
Keep
इतीदृशान्यनेकानि
वीर्याणीह
प्रदर्शयन्
।
बुभुजे
विषयान्
ग्राम्यानीजे
चात्युर्जितैर्मखैः
65
▾
Meaning
Keep
प्रववर्षाखिलान्
कामान्
प्रजासु
ब्राह्मणादिषु
।
यथाकालं
यथैवेन्द्रो
भगवाञ्छ्रैष्ठ्यमास्थितः
66
▾
Meaning
Keep
हत्वा
नृपानधर्मिष्ठान्
घातयित्वार्जुनादिभिः
।
अञ्जसा
वर्तयामास
धर्मं
धर्मसुतादिभिः
Previous
←
Why Siva's Worshippers Grow Rich, and the Demon Vrka
Next
The Queens' Longing, and the Close of the Canto
→