Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Queens' Longing, and the Close of the Canto
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सुखं
स्वपुर्यां
निवसन्
द्वारकायां
श्रियः
पतिः
।
सर्वसम्पत्समृद्धायां
जुष्टायां
वृष्णिपुङ्गवैः
2
▾
Meaning
Keep
स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः
।
कन्दुकादिभिर्हर्म्येषु
क्रीडन्तीभिस्तडिद्द्युभिः
3
▾
Meaning
Keep
नित्यं
संकुलमार्गायां
मदच्युद्भिर्मतङ्गजैः
।
स्वलङ्कृतैर्भटैरश्वै
रथैश्च
कनकोज्ज्वलैः
4
▾
Meaning
Keep
उद्यानोपवनाढ्यायां
पुष्पितद्रुमराजिषु
।
निर्विशद्भृङ्गविहगैर्नादितायां
समन्ततः
5
▾
Meaning
Keep
रेमे
षोडशसाहस्रपत्नीनामेकवल्लभः
।
तावद्विचित्ररूपोऽसौ
तद्गृहेषु
महर्द्धिषु
6
▾
Meaning
Keep
प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभिः
।
वासितामलतोयेषु
कूजद्द्विजकुलेषु
च
7
▾
Meaning
Keep
विजहार
विगाह्याम्भो
ह्रदिनीषु
महोदयः
।
कुचकुङ्कुमलिप्ताङ्गः
परिरब्धश्च
योषिताम्
8
▾
Meaning
Keep
उपगीयमानो
गन्धर्वैर्मृदङ्गपणवानकान्
।
वादयद्भिर्मुदा
वीणां
सूतमागधवन्दिभिः
9
▾
Meaning
Keep
सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः
स्म
रेचकैः
।
प्रतिषिंचन्
विचिक्रीडे
यक्षीभिर्यक्षराडिव
10
▾
Meaning
Keep
ताः
क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः
सिंचन्त्य
उद्धृतबृहत्कवरप्रसूनाः
।
कान्तं
स्म
रेचकजिहीर्षययोपगुह्य
जातस्मरोत्स्मयलसद्वदना
विरेजुः
11
▾
Meaning
Keep
कृष्णस्तु
तत्स्तनविषज्जितकुङ्कुमस्रक्क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः
।
सिंचन्
मुहुर्युवतिभिः
प्रतिषिच्यमानो
रेमे
करेणुभिरिवेभपतिः
परीतः
12
▾
Meaning
Keep
नटानां
नर्तकीनां
च
गीतवाद्योपजीविनाम्
।
क्रीडालङ्कारवासांसि
कृष्णोऽदात्तस्य
च
स्त्रियः
13
▾
Meaning
Keep
कृष्णस्यैवं
विहरतो
गत्यालापेक्षितस्मितैः
।
नर्मक्ष्वेलिपरिष्वङ्गैः
स्त्रीणां
किल
हृता
धियः
14
▾
Meaning
Keep
ऊचुर्मुकुन्दैकधियोऽगिर
उन्मत्तवज्जडम्
।
चिन्तयन्त्योऽरविन्दाक्षं
तानि
मे
गदतः
शृणु
15
▾
Meaning
Keep
कुररि
विलपसि
त्वं
वीतनिद्रा
न
शेषे
स्वपिति
जगति
रात्र्यामीश्वरो
गुप्तबोधः
।
वयमिव
सखि
कच्चिद्गाढनिर्भिन्नचेता
नलिननयनहासोदारलीलेक्षितेन
16
▾
Meaning
Keep
नेत्रे
निमीलयसि
नक्तमदृष्टबन्धुस्त्वं
रोरवीषि
करुणं
बत
चक्रवाकि
।
दास्यं
गत
वयमिवाच्युतपादजुष्टां
किं
वा
स्रजं
स्पृहयसे
कवरेण
वोढुम्
17
▾
Meaning
Keep
भो
भोः
सदा
निष्टनसे
उदन्व-
न्नलब्धनिद्रोऽधिगतप्रजागरः
।
किं
वा
मुकुन्दापहृतात्मलाञ्छनः
प्राप्तां
दशां
त्वं
च
गतो
दुरत्ययाम्
18
▾
Meaning
Keep
त्वं
यक्ष्मणा
बलवतासि
गृहीत
इन्दो
क्षीणस्तमो
न
निजदीधितिभिः
क्षिणोषि
।
कच्चिन्मुकुन्दगदितानि
यथा
वयं
त्वं
विस्मृत्य
भोः
स्थगितगीरुपलक्ष्यसे
नः
19
▾
Meaning
Keep
किं
न्वाचरितमस्माभिर्मलयानिल
तेऽप्रियम्
।
गोविन्दापाङ्गनिर्भिन्ने
हृदीरयसि
नः
स्मरम्
20
▾
Meaning
Keep
मेघ
श्रीमंस्त्वमसि
दयितो
यादवेन्द्रस्य
नूनं
श्रीवत्साङ्कं
वयमिव
भवान्
ध्यायति
प्रेमबद्धः
।
अत्युत्कण्ठः
शवलहृदयोऽस्मद्विधो
बाष्पधाराः
स्मृत्वा
स्मृत्वा
विसृजसि
मुहुर्दुःखदस्तत्प्रसङ्गः
21
▾
Meaning
Keep
प्रियरावपदानि
भाषसे
मृतसंजीविकयानया
गिरा
।
करवाणि
किमद्य
ते
प्रियं
वद
मे
वल्गितकण्ठ
कोकिल
22
▾
Meaning
Keep
न
चलसि
न
वदस्युदारबुद्धे
क्षितिधर
चिन्तयसे
महान्तमर्थम्
।
अपि
बत
वसुदेवनन्दनाङ्घ्रिं
वयमिव
कामयसे
स्तनैर्विधर्तुम्
23
▾
Meaning
Keep
शुष्यद्ध्रदाः
कर्शिता
बत
सिन्धुपत्न्यः
सम्प्रत्यपास्तकमलश्रिय
इष्टभर्तुः
।
यद्वद्वयं
मधुपतेः
प्रणयावलोक-
मप्राप्य
मुष्टहृदयाः
पुरुकर्शिताः
स्म
24
▾
Meaning
Keep
हंस
स्वागतमास्यतां
पिब
पयो
ब्रूह्यङ्ग
शौरेः
कथां
दूतं
त्वां
नु
विदाम
कच्चिदजितः
स्वस्त्यास्त
उक्तं
पुरा
।
किं
वा
नश्चलसौहृदः
स्मरति
तं
कस्माद्भजामो
वयं
क्षौद्रालापय
कामदं
श्रियमृते
सैवैकनिष्ठा
स्त्रियाम्
25
▾
Meaning
Keep
इतीदृशेन
भावेन
कृष्णे
योगेश्वरेश्वरे
।
क्रियमाणेन
माधव्यो
लेभिरे
परमां
गतिम्
26
▾
Meaning
Keep
श्रुतमात्रोऽपि
यः
स्त्रीणां
प्रसह्याकर्षते
मनः
।
उरुगायोरुगीतो
वा
पश्यन्तीनां
कुत
पुनः
27
▾
Meaning
Keep
याः
सम्पर्यचरन्
प्रेम्णा
पादसंवाहनादिभिः
।
जगद्गुरुं
भर्तृबुद्ध्या
तासां
किं
वर्ण्यते
तपः
28
▾
Meaning
Keep
एवं
वेदोदितं
धर्ममनुतिष्ठन्
सतां
गतिः
।
गृहं
धर्मार्थकामानां
मुहुश्चादर्शयत्पदम्
29
▾
Meaning
Keep
आस्थितस्य
परं
धर्मं
कृष्णस्य
गृहमेधिनाम्
।
आसन्
षोडशसाहस्रं
महिष्यश्च
शताधिकम्
30
▾
Meaning
Keep
तासां
स्त्रीरत्नभूतानामष्टौ
याः
प्रागुदाहृताः
।
रुक्मिणीप्रमुखा
राजंस्तत्पुत्राश्चानुपूर्वशः
31
▾
Meaning
Keep
एकैकस्यां
दश
दश
कृष्णोऽजीजनदात्मजान्
।
यावत्य
आत्मनो
भार्या
अमोघगतिरीश्वरः
32
▾
Meaning
Keep
तेषामुद्दामवीर्याणामष्टादश
महारथाः
।
आसन्नुदारयशसस्तेषां
नामानि
मे
शृणु
33
▾
Meaning
Keep
प्रद्युम्नश्चानिरुद्धश्च
दीप्तिमान्
भानुरेव
च
।
साम्बो
मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः
34
▾
Meaning
Keep
पुष्करो
वेदबाहुश्च
श्रुतदेवः
सुनन्दनः
।
चित्रबाहुर्विरूपश्च
कविर्न्यग्रोध
एव
च
35
▾
Meaning
Keep
एतेषामपि
राजेन्द्र
तनुजानां
मधुद्विषः
।
प्रद्युम्न
आसीत्प्रथमः
पितृवद्रुक्मिणीसुतः
36
▾
Meaning
Keep
स
रुक्मिणो
दुहितरमुपयेमे
महारथः
।
तस्मात्
सू
तोऽनिरुद्धोऽभूत्नागायतबलान्वितः
37
▾
Meaning
Keep
स
चापि
रुक्मिणः
पौत्रीं
दौहित्रो
जगृहे
ततः
।
वज्रस्तस्याभवद्
यस्तु
मौषलादवशेषितः
38
▾
Meaning
Keep
प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य
चात्मजः
।
सुबाहोः
शान्तसेनोऽभूच्छतसेनस्तु
तत्सुतः
39
▾
Meaning
Keep
न
ह्येतस्मिन्
कुले
जाता
अधना
अबहुप्रजाः
।
अल्पायुषोऽल्पवीर्याश्च
अब्रह्मण्याश्च
जज्ञिरे
40
▾
Meaning
Keep
यदुवंशप्रसूतानां
पुंसां
विख्यातकर्मणाम्
।
संख्या
न
शक्यते
कर्तुमपि
वर्षायुतैर्नृप
41
▾
Meaning
Keep
तिस्रः
कोट्यः
सहस्राणामष्टाशीतिशतानि
च
।
आसन्
यदुकुलाचार्याः
कुमाराणामिति
श्रुतम्
42
▾
Meaning
Keep
संख्यानं
यादवानां
कः
करिष्यति
महात्मनाम्
।
यत्रायुतानामयुतलक्षेणास्ते
स
आहुकः
43
▾
Meaning
Keep
देवासुराहवहता
दैतेया
ये
सुदारुणाः
।
ते
चोत्पन्ना
मनुष्येषु
प्रजा
दृप्ता
बबाधिरे
44
▾
Meaning
Keep
तन्निग्रहाय
हरिणा
प्रोक्ता
देवा
यदोः
कुले
।
अवतीर्णाः
कुलशतं
तेषामेकाधिकं
नृप
45
▾
Meaning
Keep
तेषां
प्रमाणं
भगवान्
प्रभुत्वेनाभवद्धरिः
।
ये
चानुवर्तिनस्तस्य
ववृधुः
सर्वयादवाः
46
▾
Meaning
Keep
शय्यासनाटनालापक्रीडास्नानादिकर्मसु
।
न
विदुः
सन्तमात्मानं
वृष्णयः
कृष्णचेतसः
47
▾
Meaning
Keep
तीर्थं
चक्रे
नृपोनं
यदजनि
यदुषु
स्वःसरित्पादशौचं
विद्विट्स्निग्धाः
स्वरूपं
ययुरजितपर
श्रीर्यदर्थेऽन्ययत्नः
।
यन्नामामङ्गलघ्नं
श्रुतमथ
गदितं
यत्कृतो
गोत्रधर्मः
कृष्णस्यैतन्न
चित्रं
क्षितिभरहरणं
कालचक्रायुधस्य
48
▾
Meaning
Keep
जयति
जननिवासो
देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम्
।
स्थिरचरवृजिनघ्नः
सुस्मितश्रीमुखेन
व्रजपुरवनितानां
वर्धयन्
कामदेवम्
49
▾
Meaning
Keep
इत्थं
परस्य
निजवर्त्मरिरक्षयाऽऽत्त-
लीलातनोस्तदनुरूपविडम्बनानि
।
कर्माणि
कर्मकषणानि
यदूत्तमस्य
श्रूयादमुष्य
पदयोरनुवृत्तिमिच्छन्
50
▾
Meaning
Keep
मर्त्यस्तयानुसवमेधितया
मुकुन्द-
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति
।
तद्धाम
दुस्तरकृतान्तजवापवर्गं
ग्रामाद्वनं
क्षितिभुजोऽपि
ययुर्यदर्थाः
Previous
←
Bhrgu's Test, and the Brahmin's Sons
Next
The Curse on the Yadus
→