Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Curse on the Yadus
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कृत्वा
दैत्यवधं
कृष्णः
सरामो
यदुभिर्वृतः
।
भुवोऽवतारयद्भारं
जविष्ठं
जनयन्
कलिम्
2
▾
Meaning
Keep
ये
कोपिताः
सुबहुपाण्डुसुताः
सपत्नै-
र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान्
।
कृत्वा
निमित्तमितरेतरतः
समेतान्
हत्वा
नृपान्
निरहरत्क्षितिभारमीशः
3
▾
Meaning
Keep
भूभारराजपृतना
यदुभिर्निरस्य
गुप्तैः
स्वबाहुभिरचिन्तयदप्रमेयः
।
मन्येऽवनेर्ननु
गतोऽप्यगतं
हि
भारं
यद्यादवं
कुलमहो
अविषह्यमास्ते
4
▾
Meaning
Keep
नैवान्यतः
परिभवोऽस्य
भवेत्
कथंचिन्मत्संश्रयस्य
विभवोन्नहनस्य
नित्यम्
।
अन्तःकलिं
यदुकुलस्य
विधाय
वेणुस्तम्बस्य
वह्निमिव
शान्तिमुपैमि
धाम
5
▾
Meaning
Keep
एवं
व्यवसितो
राजन्
सत्यसङ्कल्प
ईश्वरः
।
शापव्याजेन
विप्राणां
संजह्रे
स्वकुलं
विभुः
6
▾
Meaning
Keep
स्वमूर्त्या
लोकलावण्यनिर्मुक्त्या
लोचनं
नृणाम्
।
गीर्भिस्ताः
स्मरतां
चित्तं
पदैस्तानीक्षतां
क्रियाः
7
▾
Meaning
Keep
आच्छिद्य
कीर्तिं
सुश्लोकां
वितत्य
ह्यञ्जसा
नु
कौ
।
तमोऽनया
तरिष्यन्तीत्यगात्स्वं
पदमीश्वरः
8
▾
Meaning
Keep
ब्रह्मण्यानां
वदान्यानां
नित्यं
वृद्धोपसेविनाम्
।
विप्रशापः
कथमभूद्वृष्णीनां
कृष्णचेतसाम्
9
▾
Meaning
Keep
यन्निमित्तः
स
वै
शापो
यादृशो
द्विजसत्तम
।
कथमेकात्मनां
भेद
एतत्सर्वं
वदस्व
मे
10
▾
Meaning
Keep
बिभ्रद्वपुः
सकलसुन्दरसन्निवेशं
कर्माचरन्
भुवि
सुमङ्गलमाप्तकामः
।
आस्थाय
धाम
रममाण
उदारकीर्तिः
संहर्तुमैच्छत
कुलं
स्थितकृत्यशेषः
11
▾
Meaning
Keep
कर्माणि
पुण्यनिवहानि
सुमङ्गलानि
गायज्जगत्कलिमलापहराणि
कृत्वा
।
कालात्मना
निवसता
यदुदेवगेहे
पिण्डारकं
समगमन्मुनयो
निसृष्टाः
12
▾
Meaning
Keep
विश्वामित्रोऽसितः
कण्वो
दुर्वासा
भृगुरङ्गिराः
।
कश्यपो
वामदेवोऽत्रिर्वसिष्ठो
नारदादयः
13
▾
Meaning
Keep
क्रीडन्तस्तानुपव्रज्य
कुमारा
यदुनन्दनाः
।
उपसंगृह्य
पप्रच्छुरविनीता
विनीतवत्
14
▾
Meaning
Keep
ते
वेषयित्वा
स्त्रीवेषैः
साम्बं
जाम्बवतीसुतम्
।
एषा
पृच्छति
वो
विप्रा
अन्तर्वत्न्यसितेक्षणा
15
▾
Meaning
Keep
प्रष्टुं
विलज्जती
साक्षात्
प्रब्रूतामोघदर्शनाः
।
प्रसोष्यन्ती
पुत्रकामा
किंस्वित्
संजनयिष्यति
16
▾
Meaning
Keep
एवं
प्रलब्धा
मुनयस्तानूचुः
कुपिता
नृप
।
जनयिष्यति
वो
मन्दा
मुसलं
कुलनाशनम्
17
▾
Meaning
Keep
तच्छ्रुत्वा
तेऽतिसंत्रस्ता
विमुच्य
सहसोदरम्
।
साम्बस्य
ददृशुस्तस्मिन्
मुसलं
खल्वयस्मयम्
18
▾
Meaning
Keep
किं
कृतं
मन्दभाग्यैर्नः
किं
वदिष्यन्ति
नो
जनाः
।
इति
विह्वलिता
गेहानादाय
मुसलं
ययुः
19
▾
Meaning
Keep
तच्चोपनीय
सदसि
परिम्लानमुखश्रियः
।
राज्ञ
आवेदयाञ्चक्रुः
सर्वयादवसन्निधौ
20
▾
Meaning
Keep
श्रुत्वामोघं
विप्रशापं
दृष्ट्वा
च
मुसलं
नृप
।
विस्मिता
भयसंत्रस्ता
बभूवुर्द्वारकौकसः
21
▾
Meaning
Keep
तच्चूर्णयित्वा
मुषलं
यदुराजः
स
आहुकः
।
समुद्रसलिले
प्रास्यल्लोहं
चास्यावशेषितम्
22
▾
Meaning
Keep
कश्चिन्मत्स्योऽग्रसील्लोहं
चूर्णानि
तरलैस्ततः
।
उह्यमानानि
वेलायां
लग्नान्यासन्
किलैरकाः
23
▾
Meaning
Keep
मत्स्यो
गृहीतो
मत्स्यघ्नैर्जालेनान्यैः
सहार्णवे
।
तस्योदरगतं
लोहं
स
शल्ये
लुब्धकोऽकरोत्
24
▾
Meaning
Keep
भगवाञ्ज्ञातसर्वार्थ
ईश्वरोऽपि
तदन्यथा
।
कर्तुं
नैच्छद्
विप्रशापं
कालरूप्यन्वमोदत
Previous
←
The Queens' Longing, and the Close of the Canto
Next
The Nine Sages Come to Nimi
→