Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Maya, and How It Is Crossed
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
परस्य
विष्णोरीशस्य
मायिनामपि
मोहिनीम्
।
मायां
वेदितुमिच्छामो
भगवन्तो
ब्रुवन्तु
नः
2
▾
Meaning
Keep
नानुतृप्ये
जुषन्
युष्मद्वचो
हरिकथामृतम्
।
संसारतापनिस्तप्तो
मर्त्यस्तत्तापभेषजम्
3
▾
Meaning
Keep
एभिर्भूतानि
भूतात्मा
महाभूतैर्महाभुज
।
ससर्जोच्चावचान्याद्यः
स्वमात्रात्मप्रसिद्धये
4
▾
Meaning
Keep
एवं
सृष्टानि
भूतानि
प्रविष्टः
पञ्चधातुभिः
।
एकधा
दशधाऽऽत्मानं
विभजञ्जुषते
गुणान्
5
▾
Meaning
Keep
गुणैर्गुणान्
स
भुञ्जान
आत्मप्रद्योतितैः
प्रभुः
।
मन्यमान
इदं
सृष्टमात्मानमिह
सज्जते
6
▾
Meaning
Keep
कर्माणि
कर्मभिः
कुर्वन्
सनिमित्तानि
देहभृत्
।
तत्तत्कर्मफलं
गृह्णन्
भ्रमतीह
सुखेतरम्
7
▾
Meaning
Keep
इत्थं
कर्मगतीर्गच्छन्
बह्वभद्रवहाः
पुमान्
।
आभूतसम्प्लवात्सर्गप्रलयावश्नुतेऽवशः
8
▾
Meaning
Keep
धातूपप्लव
आसन्ने
व्यक्तं
द्रव्यगुणात्मकम्
।
अनादिनिधनः
कालो
ह्यव्यक्तायापकर्षति
9
▾
Meaning
Keep
शतवर्षा
ह्यनावृष्टिर्भविष्यत्युल्बणा
भुवि
।
तत्कालोपचितोष्णार्को
लोकांस्त्रीन्
प्रतपिष्यति
10
▾
Meaning
Keep
पातालतलमारभ्य
सङ्कर्षणमुखानलः
।
दहन्नूर्ध्वशिखो
विष्वग्वर्धते
वायुनेरितः
11
▾
Meaning
Keep
सांवर्तको
मेघगणो
वर्षति
स्म
शतं
समाः
।
धाराभिर्हस्तिहस्ताभिर्लीयते
सलिले
विराट्
12
▾
Meaning
Keep
ततो
विराजमुत्सृज्य
वैराजः
पुरुषो
नृप
।
अव्यक्तं
विशते
सूक्ष्मं
निरिन्धन
इवानलः
13
▾
Meaning
Keep
वायुना
हृतगन्धा
भूः
सलिलत्वाय
कल्पते
।
सलिलं
तद्धृतरसं
ज्योतिष्ट्वायोपकल्पते
14
▾
Meaning
Keep
हृतरूपं
तु
तमसा
वायौ
ज्योतिः
प्रलीयते
।
हृतस्पर्शोऽवकाशेन
वायुर्नभसि
लीयते
15
▾
Meaning
Keep
कालात्मना हृतगुणं नभ आत्मनि लीयते ।
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ।
प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि
16
▾
Meaning
Keep
एषा
माया
भगवतः
सर्गस्थित्यन्तकारिणी
।
त्रिवर्णा
वर्णितास्माभिः
किं
भूयः
श्रोतुमिच्छसि
17
▾
Meaning
Keep
यथैतामैश्वरीं
मायां
दुस्तरामकृतात्मभिः
।
तरन्त्यञ्जः
स्थूलधियो
महर्ष
इदमुच्यताम्
18
▾
Meaning
Keep
कर्माण्यारभमाणानां
दुःखहत्यै
सुखाय
च
।
पश्येत्पाकविपर्यासं
मिथुनीचारिणां
नृणाम्
19
▾
Meaning
Keep
नित्यार्तिदेन
वित्तेन
दुर्लभेनात्ममृत्युना
।
गृहापत्याप्तपशुभिः
का
प्रीतिः
साधितैश्चलैः
20
▾
Meaning
Keep
एवं
लोकं
परं
विद्यान्नश्वरं
कर्मनिर्मितम्
।
सतुल्यातिशयध्वंसं
यथा
मण्डलवर्तिनाम्
21
▾
Meaning
Keep
तस्माद्गुरुं
प्रपद्येत
जिज्ञासुः
श्रेय
उत्तमम्
।
शाब्दे
परे
च
निष्णातं
ब्रह्मण्युपशमाश्रयम्
22
▾
Meaning
Keep
तत्र
भागवतान्
धर्मान्
शिक्षेद्गुर्वात्मदैवतः
।
अमाययानुवृत्त्या
यैस्तुष्येदात्माऽऽत्मदो
हरिः
23
▾
Meaning
Keep
सर्वतो
मनसोऽसङ्गमादौ
सङ्गं
च
साधुषु
।
दयां
मैत्रीं
प्रश्रयं
च
भूतेष्वद्धा
यथोचितम्
24
▾
Meaning
Keep
शौचं
तपस्तितिक्षां
च
मौनं
स्वाध्यायमार्जवम्
।
ब्रह्मचर्यमहिंसां
च
समत्वं
द्वन्द्वसंज्ञयोः
25
▾
Meaning
Keep
सर्वत्रात्मेश्वरान्वीक्षां
कैवल्यमनिकेतताम्
।
विविक्तचीरवसनं
संतोषं
येन
केनचित्
26
▾
Meaning
Keep
श्रद्धां
भागवते
शास्त्रेऽनिन्दामन्यत्र
चापि
हि
।
मनो
वाक्कर्मदण्डं
च
सत्यं
शमदमावपि
27
▾
Meaning
Keep
श्रवणं
कीर्तनं
ध्यानं
हरेरद्भुतकर्मणः
।
जन्मकर्मगुणानां
च
तदर्थेऽखिलचेष्टितम्
28
▾
Meaning
Keep
इष्टं
दत्तं
तपो
जप्तं
वृत्तं
यच्चात्मनः
प्रियम्
।
दारान्
सुतान्
गृहान्
प्राणान्
यत्परस्मै
निवेदनम्
29
▾
Meaning
Keep
एवं
कृष्णात्मनाथेषु
मनुष्येषु
च
सौहृदम्
।
परिचर्यां
चोभयत्र
महत्सु
नृषु
साधुषु
30
▾
Meaning
Keep
परस्परानुकथनं
पावनं
भगवद्यशः
।
मिथो
रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ
आत्मनः
31
▾
Meaning
Keep
स्मरन्तः
स्मारयन्तश्च
मिथोऽघौघहरं
हरिम्
।
भक्त्या
संजातया
भक्त्या
बिभ्रत्युत्पुलकां
तनुम्
32
▾
Meaning
Keep
क्वचिद्रुदन्त्यच्युतचिन्तया
क्वचि-
द्धसन्ति
नन्दन्ति
वदन्त्यलौकिकाः
।
नृत्यन्ति
गायन्त्यनुशीलयन्त्यजं
भवन्ति
तूष्णीं
परमेत्य
निर्वृताः
33
▾
Meaning
Keep
इति
भागवतान्
धर्मान्
शिक्षन्
भक्त्या
तदुत्थया
।
नारायणपरो
मायामञ्जस्तरति
दुस्तराम्
34
▾
Meaning
Keep
नारायणाभिधानस्य
ब्रह्मणः
परमात्मनः
।
निष्ठामर्हथ
नो
वक्तुं
यूयं
हि
ब्रह्मवित्तमाः
35
▾
Meaning
Keep
स्थित्युद्भवप्रलयहेतुरहेतुरस्य
यत्स्वप्नजागरसुषुप्तिषु
सद्बहिश्च
।
देहेन्द्रियासुहृदयानि
चरन्ति
येन
सञ्जीवितानि
तदवेहि
परं
नरेन्द्र
36
▾
Meaning
Keep
नैतन्मनो
विशति
वागुत
चक्षुरात्मा
प्राणेन्द्रियाणि
च
यथानलमर्चिषः
स्वाः
।
शब्दोऽपि
बोधकनिषेधतयाऽऽत्ममूल-
मर्थोक्तमाह
यदृते
न
निषेधसिद्धिः
37
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
त्रिवृदेकमादौ
सूत्रं
महानहमिति
प्रवदन्ति
जीवम्
।
ज्ञानक्रियार्थफलरूपतयोरुशक्ति
ब्रह्मैव
भाति
सदसच्च
तयोः
परं
यत्
38
▾
Meaning
Keep
नात्मा
जजान
न
मरिष्यति
नैधतेऽसौ
न
क्षीयते
सवनविद्व्यभिचारिणां
हि
।
सर्वत्र
शश्वदनपाय्युपलब्धिमात्रं
प्राणो
यथेन्द्रियबलेन
विकल्पितं
सत्
39
▾
Meaning
Keep
अण्डेषु
पेशिषु
तरुष्वविनिश्चितेषु
प्राणो
हि
जीवमुपधावति
तत्र
तत्र
।
सन्ने
यदिन्द्रियगणेऽहमि
च
प्रसुप्ते
कूटस्थ
आशयमृते
तदनुस्मृतिर्नः
40
▾
Meaning
Keep
यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि
विधमेद्गुणकर्मजानि
।
तस्मिन्
विशुद्ध
उपलभ्यत
आत्मतत्त्वं
साक्षाद्यथामलदृशोः
सवितृप्रकाशः
41
▾
Meaning
Keep
कर्मयोगं
वदत
नः
पुरुषो
येन
संस्कृतः
।
विधूयेहाशु
कर्माणि
नैष्कर्म्यं
विन्दते
परम्
42
▾
Meaning
Keep
एवं
प्रश्नमृषीन्
पूर्वमपृच्छं
पितुरन्तिके
।
नाब्रुवन्
ब्रह्मणः
पुत्रास्तत्र
कारणमुच्यताम्
43
▾
Meaning
Keep
कर्माकर्मविकर्मेति
वेदवादो
न
लौकिकः
।
वेदस्य
चेश्वरात्मत्वात्तत्र
मुह्यन्ति
सूरयः
44
▾
Meaning
Keep
परोक्षवादो
वेदोऽयं
बालानामनुशासनम्
।
कर्ममोक्षाय
कर्माणि
विधत्ते
ह्यगदं
यथा
45
▾
Meaning
Keep
नाचरेद्यस्तु
वेदोक्तं
स्वयमज्ञोऽजितेन्द्रियः
।
विकर्मणा
ह्यधर्मेण
मृत्योर्मृत्युमुपैति
सः
46
▾
Meaning
Keep
वेदोक्तमेव
कुर्वाणो
निःसङ्गोऽर्पितमीश्वरे
।
नैष्कर्म्यं
लभते
सिद्धिं
रोचनार्था
फलश्रुतिः
47
▾
Meaning
Keep
य
आशु
हृदयग्रन्थिं
निर्जिहीर्षुः
परात्मनः
।
विधिनोपचरेद्देवं
तन्त्रोक्तेन
च
केशवम्
48
▾
Meaning
Keep
लब्धानुग्रह
आचार्यात्तेन
सन्दर्शितागमः
।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः
49
▾
Meaning
Keep
शुचिः
सम्मुखमासीनः
प्राणसंयमनादिभिः
।
पिण्डं
विशोध्य
संन्यासकृतरक्षोऽर्चयेद्धरिम्
50
▾
Meaning
Keep
अर्चादौ
हृदये
चापि
यथा
लब्धोपचारकैः
।
द्रव्यक्षित्यात्मलिङ्गानि
निष्पाद्य
प्रोक्ष्य
चासनम्
51
▾
Meaning
Keep
पाद्यादीनुपकल्प्याथ
सन्निधाप्य
समाहितः
।
हृदादिभिः
कृतन्यासो
मूलमन्त्रेण
चार्चयेत्
52
▾
Meaning
Keep
साङ्गोपाङ्गां
सपार्षदां
तां
तां
मूर्तिं
स्वमन्त्रतः
।
पाद्यार्घ्याचमनीयाद्यैः
स्नानवासोविभूषणैः
53
▾
Meaning
Keep
गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः
।
साङ्गं
सम्पूज्य
विधिवत्स्तवैः
स्तुत्वा
नमेद्धरिम्
54
▾
Meaning
Keep
आत्मानं
तन्मयं
ध्यायन्
मूर्तिं
सम्पूजयेद्धरेः
।
शेषामाधाय
शिरसि
स्वधाम्न्युद्वास्य
सत्कृतम्
55
▾
Meaning
Keep
एवमग्न्यर्कतोयादावतिथौ
हृदये
च
यः
।
यजतीश्वरमात्मानमचिरान्मुच्यते
हि
सः
Previous
←
The Nine Sages Come to Nimi
Next
The Works and the Births of the Lord
→