Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Works and the Births of the Lord
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यानि
यानीह
कर्माणि
यैर्यैः
स्वच्छन्दजन्मभिः
।
चक्रे
करोति
कर्ता
वा
हरिस्तानि
ब्रुवन्तु
नः
2
▾
Meaning
Keep
यो
वा
अनन्तस्य
गुणाननन्ताननुक्रमिष्यन्
स
तु
बालबुद्धिः
।
रजांसि
भूमेर्गणयेत्
कथंचित्
कालेन
नैवाखिलशक्तिधाम्नः
3
▾
Meaning
Keep
भूतैर्यदा
पञ्चभिरात्मसृष्टैः
पुरं
विराजं
विरचय्य
तस्मिन्
।
स्वांशेन
विष्टः
पुरुषाभिधान-
मवाप
नारायण
आदिदेवः
4
▾
Meaning
Keep
यत्काय
एष
भुवनत्रयसंनिवेशो
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि
।
ज्ञानं
स्वतः
श्वसनतो
बलमोज
ईहा
सत्त्वादिभिः
स्थितिलयोद्भव
आदिकर्ता
5
▾
Meaning
Keep
आदावभूच्छतधृती
रजसास्य
सर्गे
विष्णुः
स्थितौ
क्रतुपतिर्द्विजधर्मसेतुः
।
रुद्रोऽप्ययाय
तमसा
पुरुषः
स
आद्य
इत्युद्भवस्थितिलयाः
सततं
प्रजासु
6
▾
Meaning
Keep
धर्मस्य
दक्षदुहितर्यजनिष्ट
मूर्त्यां
नारायणो
नरऋषिप्रवरः
प्रशान्तः
।
नैष्कर्म्यलक्षणमुवाच
चचार
कर्म
योऽद्यापि
चास्त
ऋषिवर्यनिषेविताङ्घ्रिः
7
▾
Meaning
Keep
इन्द्रो
विशङ्क्य
मम
धाम
जिघृक्षतीति
कामं
न्ययुङ्क्त
सगणं
स
बदर्युपाख्यम्
।
गत्वाप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः
8
▾
Meaning
Keep
विज्ञाय
शक्रकृतमक्रममादिदेवः
प्राह
प्रहस्य
गतविस्मय
एजमानान्
।
मा
भैष्ट
भो
मदन
मारुत
देववध्वो
गृह्णीत
नो
बलिमशून्यमिमं
कुरुध्वम्
9
▾
Meaning
Keep
इत्थं
ब्रुवत्यभयदे
नरदेव
देवाः
सव्रीडनम्रशिरसः
सघृणं
तमूचुः
।
नैतद्विभो
त्वयि
परेऽविकृते
विचित्रं
स्वारामधीरनिकरानतपादपद्मे
10
▾
Meaning
Keep
त्वां
सेवतां
सुरकृता
बहवोऽन्तरायाः
स्वौको
विलङ्घ्य
परमं
व्रजतां
पदं
ते
।
नान्यस्य
बर्हिषि
बलीन्
ददतः
स्वभागान्
धत्ते
पदं
त्वमविता
यदि
विघ्नमूर्ध्नि
11
▾
Meaning
Keep
क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैश्न्यानस्मानपारजलधीनतितीर्य
केचित्
।
क्रोधस्य
यान्ति
विफलस्य
वशं
पदे
गोर्मज्जन्ति
दुश्चरतपश्च
वृथोत्सृजन्ति
12
▾
Meaning
Keep
इति
प्रगृणतां
तेषां
स्त्रियोऽत्यद्भुतदर्शनाः
।
दर्शयामास
शुश्रूषां
स्वर्चिताः
कुर्वतीर्विभुः
13
▾
Meaning
Keep
ते
देवानुचरा
दृष्ट्वा
स्त्रियः
श्रीरिव
रूपिणीः
।
गन्धेन
मुमुहुस्तासां
रूपौदार्यहतश्रियः
14
▾
Meaning
Keep
तानाह
देवदेवेशः
प्रणतान्
प्रहसन्निव
।
आसामेकतमां
वृङ्ध्वं
सवर्णां
स्वर्गभूषणाम्
15
▾
Meaning
Keep
ओमित्यादेशमादाय
नत्वा
तं
सुरवन्दिनः
।
उर्वशीमप्सरःश्रेष्ठां
पुरस्कृत्य
दिवं
ययुः
16
▾
Meaning
Keep
इन्द्रायानम्य
सदसि
शृण्वतां
त्रिदिवौकसाम्
।
ऊचुर्नारायणबलं
शक्रस्तत्रास
विस्मितः
17
▾
Meaning
Keep
हंसस्वरूप्यवददच्युत
आत्मयोगं
दत्तः
कुमार
ऋषभो
भगवान्
पिता
नः
।
विष्णुः
शिवाय
जगतां
कलयावतिर्ण-
स्तेनाहृता
मधुभिदा
श्रुतयो
हयास्ये
18
▾
Meaning
Keep
गुप्तोऽप्यये
मनुरिलौषधयश्च
मात्स्ये
क्रौडे
हतो
दितिज
उद्धरताम्भसः
क्ष्माम्
।
कौर्मे
धृतोऽद्रिरमृतोन्मथने
स्वपृष्ठे
ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम्
19
▾
Meaning
Keep
संस्तुन्वतोऽब्धिपतिताञ्छ्रमणानृषींश्च
शक्रं
च
वृत्रवधतस्तमसि
प्रविष्टम्
।
देवस्त्रियोऽसुरगृहे
पिहिता
अनाथा
जघ्नेऽसुरेन्द्रमभयाय
सतां
नृसिंहे
20
▾
Meaning
Keep
देवासुरे
युधि
च
दैत्यपतीन्
सुरार्थे
हत्वान्तरेषु
भुवनान्यदधात्कलाभिः
।
भूत्वाथ
वामन
इमामहरद्बलेः
क्ष्मां
याच्ञाच्छलेन
समदाददितेः
सुतेभ्यः
21
▾
Meaning
Keep
निःक्षत्रियामकृत
गां
च
त्रिःसप्तकृत्वो
रामस्तु
हैहयकुलाप्ययभार्गवाग्निः
।
सोऽब्धिं
बबन्ध
दशवक्त्रमहन्
सलङ्कं
सीतापतिर्जयति
लोकमलघ्नकीर्तिः
22
▾
Meaning
Keep
भूमेर्भरावतरणाय
यदुष्वजन्मा
जातः
करिष्यति
सुरैरपि
दुष्कराणि
।
वादैर्विमोहयति
यज्ञकृतोऽतदर्हान्
शूद्रान्
कलौ
क्षितिभुजो
न्यहनिष्यदन्ते
23
▾
Meaning
Keep
एवंविधानि
कर्माणि
जन्मानि
च
जगत्पतेः
।
भूरीणि
भूरियशसो
वर्णितानि
महाभुज
Previous
←
Maya, and How It Is Crossed
Next
The Colours of the Four Ages
→