Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Colours of the Four Ages
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवन्तं
हरिं
प्रायो
न
भजन्त्यात्मवित्तमाः
।
तेषामशान्तकामानां
का
निष्ठाविजितात्मनाम्
2
▾
Meaning
Keep
मुखबाहूरुपादेभ्यः
पुरुषस्याश्रमैः
सह
।
चत्वारो
जज्ञिरे
वर्णा
गुणैर्विप्रादयः
पृथक्
3
▾
Meaning
Keep
य
एषां
पुरुषं
साक्षादात्मप्रभवमीश्वरम्
।
न
भजन्त्यवजानन्ति
स्थानाद्भ्रष्टाः
पतन्त्यधः
4
▾
Meaning
Keep
दूरे
हरिकथाः
केचिद्दूरे
चाच्युतकीर्तनाः
।
स्त्रियः
शूद्रादयश्चैव
तेऽनुकम्प्या
भवादृशाम्
5
▾
Meaning
Keep
विप्रो
राजन्यवैश्यौ
वा
हरेः
प्राप्ताः
पदान्तिकम्
।
श्रौतेन
जन्मनाथापि
मुह्यन्त्याम्नायवादिनः
6
▾
Meaning
Keep
कर्मण्यकोविदाः
स्तब्धा
मूर्खाः
पण्डितमानिनः
।
वदन्ति
चाटुकान्
मूढा
यया
माध्व्या
गिरोत्सुकाः
7
▾
Meaning
Keep
रजसा
घोरसङ्कल्पाः
कामुका
अहिमन्यवः
।
दाम्भिका
मानिनः
पापा
विहसन्त्यच्युतप्रियान्
8
▾
Meaning
Keep
वदन्ति
तेऽन्योन्यमुपासितस्त्रियो
गृहेषु
मैथुन्यपरेषु
चाशिषः
।
यजन्त्यसृष्टान्नविधानदक्षिणं
वृत्त्यै
परं
घ्नन्ति
पशूनतद्विदः
9
▾
Meaning
Keep
श्रिया
विभूत्याभिजनेन
विद्यया
त्यागेन
रूपेण
बलेन
कर्मणा
।
जातस्मयेनान्धधियः
सहेश्वरान्
सतोऽवमन्यन्ति
हरिप्रियान्
खलाः
10
▾
Meaning
Keep
सर्वेषु
शश्वत्तनुभृत्स्ववस्थितं
यथा
खमात्मानमभीष्टमीश्वरम्
।
वेदोपगीतं
च
न
शृण्वतेऽबुधा
मनोरथानां
प्रवदन्ति
वार्तया
11
▾
Meaning
Keep
लोके
व्यवायामिषमद्यसेवा
नित्या
हि
जन्तोर्न
हि
तत्र
चोदना
।
व्यवस्थितिस्तेषु
विवाहयज्ञ-
सुराग्रहैरासु
निवृत्तिरिष्टा
12
▾
Meaning
Keep
धनं
च
धर्मैकफलं
यतो
वै
ज्ञानं
सविज्ञानमनुप्रशान्ति
।
गृहेषु
युञ्जन्ति
कलेवरस्य
मृत्युं
न
पश्यन्ति
दुरन्तवीर्यम्
13
▾
Meaning
Keep
यद्घ्राणभक्षो
विहितः
सुराया-
स्तथा
पशोरालभनं
न
हिंसा
।
एवं
व्यवायः
प्रजया
न
रत्या
इमं
विशुद्धं
न
विदुः
स्वधर्मम्
14
▾
Meaning
Keep
ये
त्वनेवंविदोऽसन्तः
स्तब्धाः
सदभिमानिनः
।
पशून्
द्रुह्यन्ति
विस्रब्धाः
प्रेत्य
खादन्ति
ते
च
तान्
15
▾
Meaning
Keep
द्विषन्तः
परकायेषु
स्वात्मानं
हरिमीश्वरम्
।
मृतके
सानुबन्धेऽस्मिन्
बद्धस्नेहाः
पतन्त्यधः
16
▾
Meaning
Keep
ये
कैवल्यमसम्प्राप्ता
ये
चातीताश्च
मूढताम्
।
त्रैवर्गिका
ह्यक्षणिका
आत्मानं
घातयन्ति
ते
17
▾
Meaning
Keep
एत
आत्महनोऽशान्ता
अज्ञाने
ज्ञानमानिनः
।
सीदन्त्यकृतकृत्या
वै
कालध्वस्तमनोरथाः
18
▾
Meaning
Keep
हित्वात्यायारचिता
गृहापत्यसुहृच्छ्रियः
।
तमो
विशन्त्यनिच्छन्तो
वासुदेवपराङ्मुखाः
19
▾
Meaning
Keep
कस्मिन्
काले
स
भगवान्
किं
वर्णः
कीदृशो
नृभिः
।
नाम्ना
वा
केन
विधिना
पूज्यते
तदिहोच्यताम्
20
▾
Meaning
Keep
कृतं
त्रेता
द्वापरं
च
कलिरित्येषु
केशवः
।
नानावर्णाभिधाकारो
नानैव
विधिनेज्यते
21
▾
Meaning
Keep
कृते
शुक्लश्चतुर्बाहुर्जटिलो
वल्कलाम्बरः
।
कृष्णाजिनोपवीताक्षान्
बिभ्रद्दण्डकमण्डलू
22
▾
Meaning
Keep
मनुष्यास्तु
तदा
शान्ता
निर्वैराः
सुहृदः
समाः
।
यजन्ति
तपसा
देवं
शमेन
च
दमेन
च
23
▾
Meaning
Keep
हंसः
सुपर्णो
वैकुण्ठो
धर्मो
योगेश्वरोऽमलः
।
ईश्वरः
पुरुषोऽव्यक्तः
परमात्मेति
गीयते
24
▾
Meaning
Keep
त्रेतायां
रक्तवर्णोऽसौ
चतुर्बाहुस्त्रिमेखलः
।
हिरण्यकेशस्त्रय्यात्मा
स्रुक्स्रुवाद्युपलक्षणः
25
▾
Meaning
Keep
तं
तदा
मनुजा
देवं
सर्वदेवमयं
हरिम्
।
यजन्ति
विद्यया
त्रय्या
धर्मिष्ठा
ब्रह्मवादिनः
26
▾
Meaning
Keep
विष्णुर्यज्ञः
पृश्निगर्भः
सर्वदेव
उरुक्रमः
।
वृषाकपिर्जयन्तश्च
उरुगाय
इतीर्यते
27
▾
Meaning
Keep
द्वापरे
भगवाञ्श्यामः
पीतवासा
निजायुधः
।
श्रीवत्सादिभिरङ्कैश्च
लक्षणैरुपलक्षितः
28
▾
Meaning
Keep
तं
तदा
पुरुषं
मर्त्या
महाराजोपलक्षणम्
।
यजन्ति
वेदतन्त्राभ्यां
परं
जिज्ञासवो
नृप
Hymn
29
▾
Meaning
Keep
नमस्ते
वासुदेवाय
नमः
सङ्कर्षणाय
च
।
प्रद्युम्नायानिरुद्धाय
तुभ्यं
भगवते
नमः
30
▾
Meaning
Keep
नारायणाय
ऋषये
पुरुषाय
महात्मने
।
विश्वेश्वराय
विश्वाय
सर्वभूतात्मने
नमः
31
▾
Meaning
Keep
इति
द्वापर
उर्वीश
स्तुवन्ति
जगदीश्वरम्
।
नानातन्त्रविधानेन
कलावपि
यथा
शृणु
32
▾
Meaning
Keep
कृष्णवर्णं
त्विषाकृष्णं
साङ्गोपाङ्गास्त्रपार्षदम्
।
यज्ञैः
सङ्कीर्तनप्रायैर्यजन्ति
हि
सुमेधसः
33
▾
Meaning
Keep
ध्येयं
सदा
परिभवघ्नमभीष्टदोहं
तीर्थास्पदं
शिवविरिञ्चिनुतं
शरण्यम्
।
भृत्यार्तिहं
प्रणतपाल
भवाब्धिपोतं
वन्दे
महापुरुष
ते
चरणारविन्दम्
34
▾
Meaning
Keep
त्यक्त्वा
सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ
आर्यवचसा
यदगादरण्यम्
।
मायामृगं
दयितयेप्सितमन्वधाव-
द्वन्दे
महापुरुष
ते
चरणारविन्दम्
35
▾
Meaning
Keep
एवं
युगानुरूपाभ्यां
भगवान्
युगवर्तिभिः
।
मनुजैरिज्यते
राजन्
श्रेयसामीश्वरो
हरिः
36
▾
Meaning
Keep
कलिं
सभाजयन्त्यार्या
गुणज्ञाः
सारभागिनः
।
यत्र
सङ्कीर्तनेनैव
सर्वस्वार्थोऽभिलभ्यते
37
▾
Meaning
Keep
न
ह्यतः
परमो
लाभो
देहिनां
भ्राम्यतामिह
।
यतो
विन्देत
परमां
शान्तिं
नश्यति
संसृतिः
38
▾
Meaning
Keep
कृतादिषु
प्रजा
राजन्
कलाविच्छन्ति
सम्भवम्
।
कलौ
खलु
भविष्यन्ति
नारायणपरायणाः
39
▾
Meaning
Keep
क्वचित्क्वचिन्महाराज
द्रविडेषु
च
भूरिशः
।
ताम्रपर्णी
नदी
यत्र
कृतमाला
पयस्विनी
40
▾
Meaning
Keep
कावेरी च महापुण्या प्रतीची च महानदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः
41
▾
Meaning
Keep
देवर्षिभूताप्तनृणां
पितॄणां
न
किङ्करो
नायमृणी
च
राजन्
।
सर्वात्मना
यः
शरणं
शरण्यं
गतो
मुकुन्दं
परिहृत्य
कर्तम्
42
▾
Meaning
Keep
स्वपादमूलं
भजतः
प्रियस्य
त्यक्तान्यभावस्य
हरिः
परेशः
।
विकर्म
यच्चोत्पतितं
कथञ्चि-
द्धुनोति
सर्वं
हृदि
सन्निविष्टः
43
▾
Meaning
Keep
धर्मान्
भागवतानित्थं
श्रुत्वाथ
मिथिलेश्वरः
।
जायन्तेयान्
मुनीन्
प्रीतः
सोपाध्यायो
ह्यपूजयत्
44
▾
Meaning
Keep
ततोऽन्तर्दधिरे
सिद्धाः
सर्वलोकस्य
पश्यतः
।
राजा
धर्मानुपातिष्ठन्नवाप
परमां
गतिम्
45
▾
Meaning
Keep
त्वमप्येतान्
महाभाग
धर्मान्
भागवताञ्छ्रुतान्
।
आस्थितः
श्रद्धया
युक्तो
निःसङ्गो
यास्यसे
परम्
46
▾
Meaning
Keep
युवयोः
खलु
दम्पत्योर्यशसा
पूरितं
जगत्
।
पुत्रतामगमद्यद्वां
भगवानीश्वरो
हरिः
47
▾
Meaning
Keep
दर्शनालिङ्गनालापैः
शयनासनभोजनैः
।
आत्मा
वां
पावितः
कृष्णे
पुत्रस्नेहं
प्रकुर्वतोः
48
▾
Meaning
Keep
वैरेण
यं
नृपतयः
शिशुपालपौण्ड्र-
शाल्वादयो
गतिविलासविलोकनाद्यैः
।
ध्यायन्त
आकृतधियः
शयनासनादौ
तत्साम्यमापुरनुरक्तधियां
पुनः
किम्
49
▾
Meaning
Keep
मापत्यबुद्धिमकृथाः
कृष्णे
सर्वात्मनीश्वरे
।
मायामनुष्यभावेन
गूढैश्वर्ये
परेऽव्यये
50
▾
Meaning
Keep
भूभारासुरराजन्यहन्तवे
गुप्तये
सताम्
।
अवतीर्णस्य
निर्वृत्यै
यशो
लोके
वितन्यते
51
▾
Meaning
Keep
एतच्छ्रुत्वा
महाभागो
वसुदेवोऽतिविस्मितः
।
देवकी
च
महाभागा
जहतुर्मोहमात्मनः
52
▾
Meaning
Keep
इतिहासमिमं
पुण्यं
धारयेद्यः
समाहितः
।
स
विधूयेह
शमलं
ब्रह्मभूयाय
कल्पते
Previous
←
The Works and the Births of the Lord
Next
The Gods Come to Dvaraka
→