Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Girl's Bangles and the Body as Teacher
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
परिग्रहो
हि
दुःखाय
यद्यत्प्रियतमं
नृणाम्
।
अनन्तं
सुखमाप्नोति
तद्विद्वान्यस्त्वकिञ्चनः
2
▾
Meaning
Keep
सामिषं
कुररं
जघ्नुर्बलिनो
ये
निरामिषाः
।
तदामिषं
परित्यज्य
स
सुखं
समविन्दत
3
▾
Meaning
Keep
न
मे
मानापमानौ
स्तो
न
चिन्ता
गेहपुत्रिणाम्
।
आत्मक्रीड
आत्मरतिर्विचरामीह
बालवत्
4
▾
Meaning
Keep
द्वावेव
चिन्तया
मुक्तौ
परमानन्द
आप्लुतौ
।
यो
विमुग्धो
जडो
बालो
यो
गुणेभ्यः
परं
गतः
5
▾
Meaning
Keep
क्वचित्कुमारी
त्वात्मानं
वृणानान्
गृहमागतान्
।
स्वयं
तानर्हयामास
क्वापि
यातेषु
बन्धुषु
6
▾
Meaning
Keep
तेषामभ्यवहारार्थं
शालीन्
रहसि
पार्थिव
।
अवघ्नन्त्याः
प्रकोष्ठस्थाश्चक्रुः
शङ्खाः
स्वनं
महत्
7
▾
Meaning
Keep
सा
तज्जुगुप्सितं
मत्वा
महती
व्रीडिता
ततः
।
बभञ्जैकैकशः
शङ्खान्
द्वौ
द्वौ
पाण्योरशेषयत्
8
▾
Meaning
Keep
उभयोरप्यभूद्घोषो
ह्यवघ्नन्त्याः
स्म
शङ्खयोः
।
तत्राप्येकं
निरभिददेकस्मान्नाभवद्ध्वनिः
9
▾
Meaning
Keep
अन्वशिक्षमिमं
तस्या
उपदेशमरिन्दम
।
लोकाननुचरन्नेताँल्लोकतत्त्वविवित्सया
10
▾
Meaning
Keep
वासे
बहूनां
कलहो
भवेद्वार्ता
द्वयोरपि
।
एक
एव
चरेत्तस्मात्कुमार्या
इव
कङ्कणः
11
▾
Meaning
Keep
मन
एकत्र
संयुञ्ज्याज्जितश्वासो
जितासनः
।
वैराग्याभ्यासयोगेन
ध्रियमाणमतन्द्रितः
12
▾
Meaning
Keep
यस्मिन्
मनो
लब्धपदं
यदेत-
च्छनैः
शनैर्मुञ्चति
कर्मरेणून्
।
सत्त्वेन
वृद्धेन
रजस्तमश्च
विधूय
निर्वाणमुपैत्यनिन्धनम्
13
▾
Meaning
Keep
तदैवमात्मन्यवरुद्धचित्तो
न
वेद
किंचिद्
बहिरन्तरं
वा
।
यथेषुकारो
नृपतिं
व्रजन्तमिषौ
गतात्मा
न
ददर्श
पार्श्वे
14
▾
Meaning
Keep
एकचार्यनिकेतः
स्यादप्रमत्तो
गुहाशयः
।
अलक्ष्यमाण
आचारैर्मुनिरेकोऽल्पभाषणः
15
▾
Meaning
Keep
गृहारम्भोऽति
दुःखाय
विफलश्चाध्रुवात्मनः
।
सर्पः
परकृतं
वेश्म
प्रविश्य
सुखमेधते
16
▾
Meaning
Keep
एको
नारायणो
देवः
पूर्वसृष्टं
स्वमायया
।
संहृत्य
कालकलया
कल्पान्त
इदमीश्वरः
।
एक
एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः
17
▾
Meaning
Keep
कालेनात्मानुभावेन
साम्यं
नीतासु
शक्तिषु
।
सत्त्वादिष्वादिपुरुषः
प्रधानपुरुषेश्वरः
18
▾
Meaning
Keep
परावराणां
परम
आस्ते
कैवल्यसंज्ञितः
।
केवलानुभवानन्दसंदोहो
निरुपाधिकः
19
▾
Meaning
Keep
केवलात्मानुभावेन
स्वमायां
त्रिगुणात्मिकाम्
।
संक्षोभयन्
सृजत्यादौ
तया
सूत्रमरिन्दम
20
▾
Meaning
Keep
तामाहुस्त्रिगुणव्यक्तिं
सृजन्तीं
विश्वतोमुखम्
।
यस्मिन्
प्रोतमिदं
विश्वं
येन
संसरते
पुमान्
21
▾
Meaning
Keep
यथोर्णनाभिर्हृदयादूर्णां
सन्तत्य
वक्त्रतः
।
तया
विहृत्य
भूयस्तां
ग्रसत्येवं
महेश्वरः
22
▾
Meaning
Keep
यत्र
यत्र
मनो
देही
धारयेत्सकलं
धिया
।
स्नेहाद्द्वेषाद्भयाद्वापि
याति
तत्तत्स्वरूपताम्
23
▾
Meaning
Keep
कीटः
पेशस्कृतं
ध्यायन्
कुड्यां
तेन
प्रवेशितः
।
याति
तत्सात्मतां
राजन्
पूर्वरूपमसंत्यजन्
24
▾
Meaning
Keep
एवं
गुरुभ्य
एतेभ्य
एषा
मे
शिक्षिता
मतिः
।
स्वात्मोपशिक्षितां
बुद्धिं
शृणु
मे
वदतः
प्रभो
25
▾
Meaning
Keep
देहो
गुरुर्मम
विरक्तिविवेकहेतुर्बिभ्रत्
स्म
सत्त्वनिधनं
सततार्त्युदर्कम्
।
तत्त्वान्यनेन
विमृशामि
यथा
तथापि
पारक्यमित्यवसितो
विचराम्यसङ्गः
26
▾
Meaning
Keep
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति
यत्प्रियचिकीर्षया
वितन्वन्
।
स्वान्ते
सकृच्छ्रमवरुद्धधनः
स
देहः
सृष्ट्वास्य
बीजमवसीदति
वृक्षधर्मः
27
▾
Meaning
Keep
जिह्वैकतोऽमुमपकर्षति
कर्हि
तर्षा
शिश्नोऽन्यतस्त्वगुदरं
श्रवणं
कुतश्चित्
।
घ्राणोऽन्यतश्चपलदृक्
क्व
च
कर्मशक्ति-
र्बह्व्यः
सपत्न्य
इव
गेहपतिं
लुनन्ति
28
▾
Meaning
Keep
सृष्ट्वा
पुराणि
विविधान्यजयाऽऽत्मशक्त्या
वृक्षान्
सरीसृपपशून्
खगदंशमत्स्यान्
।
तैस्तैरतुष्टहृदयः
पुरुषं
विधाय
ब्रह्मावलोकधिषणं
मुदमाप
देवः
29
▾
Meaning
Keep
लब्ध्वा
सुदुर्लभमिदं
बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह
धीरः
।
तूर्णं
यतेत
न
पतेदनुमृत्यु
याव-
न्निःश्रेयसाय
विषयः
खलु
सर्वतः
स्यात्
30
▾
Meaning
Keep
एवं
सञ्जातवैराग्यो
विज्ञानालोक
आत्मनि
।
विचरामि
महीमेतां
मुक्तसङ्गोऽनहङ्कृतिः
31
▾
Meaning
Keep
न
ह्येकस्माद्गुरोर्ज्ञानं
सुस्थिरं
स्यात्सुपुष्कलम्
।
ब्रह्मैतदद्वितीयं
वै
गीयते
बहुधर्षिभिः
32
▾
Meaning
Keep
श्रीभगवानुवाच ।
इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः ।
वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम्
33
▾
Meaning
Keep
अवधूतवचः
श्रुत्वा
पूर्वेषां
नः
स
पूर्वजः
।
सर्वसङ्गविनिर्मुक्तः
समचित्तो
बभूव
ह
Previous
←
The Python, the Bee and Pingala
Next
The Two Firesticks
→