Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Where He Shows Himself
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
त्वं
ब्रह्म
परमं
साक्षादनाद्यन्तमपावृतम्
।
सर्वेषामपि
भावानां
त्राणस्थित्यप्ययोद्भवः
2
▾
Meaning
Keep
उच्चावचेषु
भूतेषु
दुर्ज्ञेयमकृतात्मभिः
।
उपासते
त्वां
भगवन्
याथातथ्येन
ब्राह्मणाः
3
▾
Meaning
Keep
येषु
येषु
च
भूतेषु
भक्त्या
त्वां
परमर्षयः
।
उपासीनाः
प्रपद्यन्ते
संसिद्धिं
तद्
वदस्व
मे
4
▾
Meaning
Keep
गूढश्चरसि
भूतात्मा
भूतानां
भूतभावन
।
न
त्वां
पश्यन्ति
भूतानि
पश्यन्तं
मोहितानि
ते
5
▾
Meaning
Keep
याः
काश्च
भूमौ
दिवि
वै
रसायां
विभूतयो
दिक्षु
महाविभूते
।
ता
मह्यमाख्याह्यनुभावितास्ते
नमामि
ते
तीर्थपदाङ्घ्रिपद्मम्
6
▾
Meaning
Keep
श्रीभगवानुवाच ।
एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।
युयुत्सुना विनशने सपत्नैरर्जुनेन वै
7
▾
Meaning
Keep
ज्ञात्वा
ज्ञातिवधं
गर्ह्यमधर्मं
राज्यहेतुकम्
।
ततो
निवृत्तो
हन्ताहं
हतोऽयमिति
लौकिकः
8
▾
Meaning
Keep
स
तदा
पुरुषव्याघ्रो
युक्त्या
मे
प्रतिबोधितः
।
अभ्यभाषत
मामेवं
यथा
त्वं
रणमूर्धनि
9
▾
Meaning
Keep
अहमात्मोद्धवामीषां
भूतानां
सुहृदीश्वरः
।
अहं
सर्वाणि
भूतानि
तेषां
स्थित्युद्भवाप्ययः
10
▾
Meaning
Keep
अहं
गतिर्गतिमतां
कालः
कलयतामहम्
।
गुनाणां
चाप्यहं
साम्यं
गुणिन्यौत्पत्तिको
गुणः
11
▾
Meaning
Keep
गुणिनामप्यहं
सूत्रं
महतां
च
महानहम्
।
सूक्ष्माणामप्यहं
जीवो
दुर्जयानामहं
मनः
12
▾
Meaning
Keep
हिरण्यगर्भो
वेदानां
मन्त्राणां
प्रणवस्त्रिवृत्
।
अक्षराणामकारोऽस्मि
पदानिच्छन्दसामहम्
13
▾
Meaning
Keep
इन्द्रोऽहं
सर्वदेवानां
वसूनामस्मि
हव्यवाट्
।
आदित्यानामहं
विष्णू
रुद्राणां
नीललोहितः
14
▾
Meaning
Keep
ब्रह्मर्षीणां
भृगुरहं
राजर्षीणामहं
मनुः
।
देवर्षीणां
नारदोऽहं
हविर्धान्यस्मि
धेनुषु
15
▾
Meaning
Keep
सिद्धेश्वराणां
कपिलः
सुपर्णोऽहं
पतत्रिणाम्
।
प्रजापतीनां
दक्षोऽहं
पितॄणामहमर्यमा
16
▾
Meaning
Keep
मां
विद्ध्युद्धव
दैत्यानां
प्रह्लादमसुरेश्वरम्
।
सोमं
नक्षत्रौषधीनां
धनेशं
यक्षरक्षसाम्
17
▾
Meaning
Keep
ऐरावतं
गजेन्द्राणां
यादसां
वरुणं
प्रभुम्
।
तपतां
द्युमतां
सूर्यं
मनुष्याणां
च
भूपतिम्
18
▾
Meaning
Keep
उच्चैःश्रवास्तुरङ्गाणां
धातूनामस्मि
काञ्चनम्
।
यमः
संयमतां
चाहं
सर्पाणामस्मि
वासुकिः
19
▾
Meaning
Keep
नागेन्द्राणामनन्तोऽहं
मृगेन्द्रः
शृङ्गिदंष्ट्रिणाम्
।
आश्रमाणामहं
तुर्यो
वर्णानां
प्रथमोऽनघ
20
▾
Meaning
Keep
तीर्थानां
स्रोतसां
गङ्गा
समुद्रः
सरसामहम्
।
आयुधानां
धनुरहं
त्रिपुरघ्नो
धनुष्मताम्
21
▾
Meaning
Keep
धिष्ण्यानामस्म्यहं
मेरुर्गहनानां
हिमालयः
।
वनस्पतीनामश्वत्थ
ओषधीनामहं
यवः
22
▾
Meaning
Keep
पुरोधसां
वसिष्ठोऽहं
ब्रह्मिष्ठानां
बृहस्पतिः
।
स्कन्दोऽहं
सर्वसेनान्यामग्रण्यां
भगवानजः
23
▾
Meaning
Keep
यज्ञानां
ब्रह्मयज्ञोऽहं
व्रतानामविहिंसनम्
।
वाय्वग्न्यर्काम्बुवागात्मा
शुचीनामप्यहं
शुचिः
24
▾
Meaning
Keep
योगानामात्मसंरोधो
मन्त्रोऽस्मि
विजिगीषताम्
।
आन्वीक्षिकी
कौशलानां
विकल्पः
ख्यातिवादिनाम्
25
▾
Meaning
Keep
स्त्रीणां
तु
शतरूपाहं
पुंसां
स्वायम्भुवो
मनुः
।
नारायणो
मुनीनां
च
कुमारो
ब्रह्मचारिणाम्
26
▾
Meaning
Keep
धर्माणामस्मि
संन्यासः
क्षेमाणामबहिर्मतिः
।
गुह्यानां
सूनृतं
मौनं
मिथुनानामजस्त्वहम्
27
▾
Meaning
Keep
संवत्सरोऽस्म्यनिमिषामृतूनां
मधुमाधवौ
।
मासानां
मार्गशीर्षोऽहं
नक्षत्राणां
तथाभिजित्
28
▾
Meaning
Keep
अहं
युगानां
च
कृतं
धीराणां
देवलोऽसितः
।
द्वैपायनोऽस्मि
व्यासानां
कवीनां
काव्य
आत्मवान्
29
▾
Meaning
Keep
वासुदेवो
भगवतां
त्वं
तु
भागवतेष्वहम्
।
किंपुरुषाणां
हनुमान्
विद्याध्राणां
सुदर्शनः
30
▾
Meaning
Keep
रत्नानां
पद्मरागोऽस्मि
पद्मकोशः
सुपेशसाम्
।
कुशोऽस्मि
दर्भजातीनां
गव्यमाज्यं
हविःष्वहम्
31
▾
Meaning
Keep
व्यवसायिनामहं
लक्ष्मीः
कितवानां
छलग्रहः
।
तितिक्षास्मि
तितिक्षूणां
सत्त्वं
सत्त्ववतामहम्
32
▾
Meaning
Keep
ओजः
सहो
बलवतां
कर्माहं
विद्धि
सात्वताम्
।
सात्वतां
नवमूर्तीनामादिमूर्तिरहं
परा
33
▾
Meaning
Keep
विश्वावसुः
पूर्वचित्तिर्गन्धर्वाप्सरसामहम्
।
भूधराणामहं
स्थैर्यं
गन्धमात्रमहं
भुवः
34
▾
Meaning
Keep
अपां
रसश्च
परमस्तेजिष्ठानां
विभावसुः
।
प्रभा
सूर्येन्दुताराणां
शब्दोऽहं
नभसः
परः
35
▾
Meaning
Keep
ब्रह्मण्यानां
बलिरहं
वीराणामहमर्जुनः
।
भूतानां
स्थितिरुत्पत्तिरहं
वै
प्रतिसंक्रमः
36
▾
Meaning
Keep
गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षनम्
।
आस्वादश्रुत्यवघ्राणमहं
सर्वेन्द्रियेन्द्रियम्
37
▾
Meaning
Keep
पृथिवी
वायुराकाश
आपो
ज्योतिरहं
महान्
।
विकारः
पुरुषोऽव्यक्तं
रजः
सत्त्वं
तमः
परम्
।
अहमेतत्प्रसङ्ख्यानं
ज्ञानं
तत्त्वविनिश्चयः
38
▾
Meaning
Keep
मयेश्वरेण
जीवेन
गुणेन
गुणिना
विना
।
सर्वात्मनापि
सर्वेण
न
भावो
विद्यते
क्वचित्
39
▾
Meaning
Keep
संख्यानं
परमाणूनां
कालेन
क्रियते
मया
।
न
तथा
मे
विभूतीनां
सृजतोऽण्डानि
कोटिशः
40
▾
Meaning
Keep
तेजः
श्रीः
कीर्तिरैश्वर्यं
ह्रीस्त्यागः
सौभगं
भगः
।
वीर्यं
तितिक्षा
विज्ञानं
यत्र
यत्र
स
मेंऽशकः
41
▾
Meaning
Keep
एतास्ते
कीर्तिताः
सर्वाः
सङ्क्षेपेण
विभूतयः
।
मनोविकारा
एवैते
यथा
वाचाभिधीयते
42
▾
Meaning
Keep
वाचं
यच्छ
मनो
यच्छ
प्राणान्
यच्छेन्द्रियाणि
च
।
आत्मानमात्मना
यच्छ
न
भूयः
कल्पसेऽध्वने
43
▾
Meaning
Keep
यो
वै
वाङ्मनसी
सम्यगसंयच्छन्
धिया
यतिः
।
तस्य
व्रतं
तपो
दानं
स्रवत्यामघटाम्बुवत्
44
▾
Meaning
Keep
तस्मान्मनोवचःप्राणान्
नियच्छेन्मत्परायणः
।
मद्भक्तियुक्तया
बुद्ध्या
ततः
परिसमाप्यते
Previous
←
The Powers, and What They Are Worth
Next
The Classes, and the Student and the Householder
→