Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Classes, and the Student and the Householder
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यस्त्वयाभिहितः
पूर्वं
धर्मस्त्वद्भक्तिलक्षणः
।
वर्णाश्रमाचारवतां
सर्वेषां
द्विपदामपि
2
▾
Meaning
Keep
यथानुष्ठीयमानेन
त्वयि
भक्तिर्नृणां
भवेत्
।
स्वधर्मेणारविन्दाक्ष
तत्समाख्यातुमर्हसि
3
▾
Meaning
Keep
पुरा
किल
महाबाहो
धर्मं
परमकं
प्रभो
।
यत्तेन
हंसरूपेण
ब्रह्मणेऽभ्यात्थ
माधव
4
▾
Meaning
Keep
स
इदानीं
सुमहता
कालेनामित्रकर्शन
।
न
प्रायो
भविता
मर्त्यलोके
प्रागनुशासितः
5
▾
Meaning
Keep
वक्ता
कर्ताविता
नान्यो
धर्मस्याच्युत
ते
भुवि
।
सभायामपि
वैरिञ्च्यां
यत्र
मूर्तिधराः
कलाः
6
▾
Meaning
Keep
कर्त्रावित्रा
प्रवक्त्रा
च
भवता
मधुसूदन
।
त्यक्ते
महीतले
देव
विनष्टं
कः
प्रवक्ष्यति
7
▾
Meaning
Keep
तत्त्वं
नः
सर्वधर्मज्ञ
धर्मस्त्वद्भक्तिलक्षणः
।
यथा
यस्य
विधीयेत
तथा
वर्णय
मे
प्रभो
8
▾
Meaning
Keep
इत्थं
स्वभृत्यमुख्येन
पृष्टः
स
भगवान्
हरिः
।
प्रीतः
क्षेमाय
मर्त्यानां
धर्मानाह
सनातनान्
9
▾
Meaning
Keep
श्रीभगवानुवाच ।
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।
वर्णाश्रमाचारवतां तमुद्धव निबोध मे
10
▾
Meaning
Keep
आदौ
कृतयुगे
वर्णो
नृणां
हंस
इति
स्मृतः
।
कृतकृत्याः
प्रजा
जात्या
तस्मात्कृतयुगं
विदुः
11
▾
Meaning
Keep
वेदः
प्रणव
एवाग्रे
धर्मोऽहं
वृषरूपधृक्
।
उपासते
तपोनिष्ठा
हंसं
मां
मुक्तकिल्बिषाः
12
▾
Meaning
Keep
त्रेतामुखे
महाभाग
प्राणान्
मे
हृदयात्त्रयी
।
विद्या
प्रादुरभूत्तस्या
अहमासं
त्रिवृन्मखः
13
▾
Meaning
Keep
विप्रक्षत्रियविट्शूद्रा
मुखबाहूरुपादजाः
।
वैराजात्पुरुषाज्जाता
य
आत्माचारलक्षणाः
14
▾
Meaning
Keep
गृहाश्रमो
जघनतो
ब्रह्मचर्यं
हृदो
मम
।
वक्षःस्थलाद्
वने
वासो
न्यासः
शीर्षणि
संस्थितः
15
▾
Meaning
Keep
वर्णानामाश्रमाणां
च
जन्मभूम्यनुसारिणीः
।
आसन्
प्रकृतयो
नॄणां
नीचैर्नीचोत्तमोत्तमाः
16
▾
Meaning
Keep
शमो
दमस्तपः
शौचं
संतोषः
क्षान्तिरार्जवम्
।
मद्भक्तिश्च
दया
सत्यं
ब्रह्मप्रकृतयस्त्विमाः
17
▾
Meaning
Keep
तेजो
बलं
धृतिः
शौर्यं
तितिक्षौदार्यमुद्यमः
।
स्थैर्यं
ब्रह्मण्यमैश्वर्यं
क्षत्रप्रकृतयस्त्विमाः
18
▾
Meaning
Keep
आस्तिक्यं
दाननिष्ठा
च
अदम्भो
ब्रह्मसेवनम्
।
अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः
19
▾
Meaning
Keep
शुश्रूषणं
द्विजगवां
देवानां
चाप्यमायया
।
तत्र
लब्धेन
संतोषः
शूद्रप्रकृतयस्त्विमाः
20
▾
Meaning
Keep
अशौचमनृतं
स्तेयं
नास्तिक्यं
शुष्कविग्रहः
।
कामः
क्रोधश्च
तर्षश्च
स्वभावोऽन्त्यावसायिनाम्
21
▾
Meaning
Keep
अहिंसा
सत्यमस्तेयमकामक्रोधलोभता
।
भूतप्रियहितेहा
च
धर्मोऽयं
सार्ववर्णिकः
22
▾
Meaning
Keep
द्वितीयं
प्राप्यानुपूर्व्याज्जन्मोपनयनं
द्विजः
।
वसन्
गुरुकुले
दान्तो
ब्रह्माधीयीत
चाहूतः
23
▾
Meaning
Keep
मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून्
।
जटिलोऽधौतदद्वासोऽरक्तपीठः
कुशान्
दधत्
24
▾
Meaning
Keep
स्नानभोजनहोमेषु
जपोच्चारे
च
वाग्यतः
।
नच्छिन्द्यान्नखरोमाणि
कक्षोपस्थगतान्यपि
25
▾
Meaning
Keep
रेतो
नावकिरेज्जातु
ब्रह्मव्रतधरः
स्वयम्
।
अवकीर्णेऽवगाह्याप्सु
यतासुस्त्रिपदीं
जपेत्
26
▾
Meaning
Keep
अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्छुचिः
।
समाहित
उपासीत
सन्ध्ये
च
यतवाग्
जपन्
27
▾
Meaning
Keep
आचार्यं
मां
विजानीयान्नावमन्येत
कर्हिचित्
।
न
मर्त्यबुद्ध्यासूयेत
सर्वदेवमयो
गुरुः
28
▾
Meaning
Keep
सायं
प्रातरुपानीय
भैक्ष्यं
तस्मै
निवेदयेत्
।
यच्चान्यदप्यनुज्ञातमुपयुञ्जीत
संयतः
29
▾
Meaning
Keep
शुश्रूषमाण
आचार्यं
सदोपासीत
नीचवत्
।
यानशय्यासनस्थानैर्नातिदूरे
कृताञ्जलिः
30
▾
Meaning
Keep
एवंवृत्तो
गुरुकुले
वसेद्भोगविवर्जितः
।
विद्या
समाप्यते
यावद्बिभ्रद्व्रतमखण्डितम्
31
▾
Meaning
Keep
यद्यसौ
छन्दसां
लोकमारोक्ष्यन्
ब्रह्मविष्टपम्
।
गुरवे
विन्यसेद्देहं
स्वाध्यायार्थं
बृहद्व्रतः
32
▾
Meaning
Keep
अग्नौ
गुरावात्मनि
च
सर्वभूतेषु
मां
परम्
।
अपृथग्धीरुपासीत
ब्रह्मवर्चस्व्यकल्मषः
33
▾
Meaning
Keep
स्त्रीणां
निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम्
।
प्राणिनो
मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत्
34
▾
Meaning
Keep
शौचमाचमनं
स्नानं
सन्ध्योपासनमार्जवम्
।
तीर्थसेवा
जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम्
35
▾
Meaning
Keep
सर्वाश्रमप्रयुक्तोऽयं
नियमः
कुलनन्दन
।
मद्भावः
सर्वभूतेषु
मनोवाक्कायसंयमः
36
▾
Meaning
Keep
एवं
बृहद्व्रतधरो
ब्राह्मणोऽग्निरिव
ज्वलन्
।
मद्भक्तस्तीव्रतपसा
दग्धकर्माशयोऽमलः
37
▾
Meaning
Keep
अथानन्तरमावेक्ष्यन्
यथा
जिज्ञासितागमः
।
गुरवे
दक्षिणां
दत्त्वा
स्नायाद्गुर्वनुमोदितः
38
▾
Meaning
Keep
गृहं
वनं
वोपविशेत्प्रव्रजेद्वा
द्विजोत्तमः
।
आश्रमादाश्रमं
गच्छेन्नान्यथा
मत्परश्चरेत्
39
▾
Meaning
Keep
गृहार्थी
सदृशीं
भार्यामुद्वहेदजुगुप्सिताम्
।
यवीयसीं
तु
वयसा
यां
सवर्णामनुक्रमात्
40
▾
Meaning
Keep
इज्याध्ययनदानानि
सर्वेषां
च
द्विजन्मनाम्
।
प्रतिग्रहोऽध्यापनं
च
ब्राह्मणस्यैव
याजनम्
41
▾
Meaning
Keep
प्रतिग्रहं
मन्यमानस्तपस्तेजोयशोनुदम्
।
अन्याभ्यामेव
जीवेत
शिलैर्वा
दोषदृक्
तयोः
42
▾
Meaning
Keep
ब्राह्मणस्य
हि
देहोऽयं
क्षुद्रकामाय
नेष्यते
।
कृच्छ्राय
तपसे
चेह
प्रेत्यानन्तसुखाय
च
43
▾
Meaning
Keep
शिलोञ्छवृत्त्या
परितुष्टचित्तो
धर्मं
महान्तं
विरजं
जुषाणः
।
मय्यर्पितात्मा
गृह
एव
तिष्ठन्
नातिप्रसक्तः
समुपैति
शान्तिम्
44
▾
Meaning
Keep
समुद्धरन्ति
ये
विप्रं
सीदन्तं
मत्परायणम्
।
तानुद्धरिष्ये
न
चिरादापद्भ्यो
नौरिवार्णवात्
45
▾
Meaning
Keep
सर्वाः
समुद्धरेद्राजा
पितेव
व्यसनात्प्रजाः
।
आत्मानमात्मना
धीरो
यथा
गजपतिर्गजान्
46
▾
Meaning
Keep
एवंविधो
नरपतिर्विमानेनार्कवर्चसा
।
विधूयेहाशुभं
कृत्स्नमिन्द्रेण
सह
मोदते
47
▾
Meaning
Keep
सीदन्
विप्रो
वणिग्वृत्त्या
पण्यैरेवापदं
तरेत्
।
खड्गेन
वाऽऽपदाक्रान्तो
न
श्ववृत्त्या
कथंचन
48
▾
Meaning
Keep
वैश्यवृत्त्या
तु
राजन्यो
जीवेन्मृगययाऽऽपदि
।
चरेद्
वा
विप्ररूपेण
न
श्ववृत्त्या
कथंचन
49
▾
Meaning
Keep
शूद्रवृत्तिं
भजेद्वैश्यः
शूद्रः
कारुकटक्रियाम्
।
कृच्छ्रान्मुक्तो
न
गर्ह्येण
वृत्तिं
लिप्सेत
कर्मणा
50
▾
Meaning
Keep
वेदाध्यायस्वधास्वाहा
बल्यन्नाद्यैर्यथोदयम्
।
देवर्षिपितृभूतानि
मद्रूपाण्यन्वहं
यजेत्
51
▾
Meaning
Keep
यदृच्छयोपपन्नेन
शुक्लेनोपार्जितेन
वा
।
धनेनापीडयन्
भृत्यान्
न्यायेनैवाहरेत्क्रतून्
52
▾
Meaning
Keep
कुटुम्बेषु
न
सज्जेत
न
प्रमाद्येत्कुटुम्ब्यपि
।
विपश्चिन्नश्वरं
पश्येददृष्टमपि
दृष्टवत्
53
▾
Meaning
Keep
पुत्रदाराप्तबन्धूनां
सङ्गमः
पान्थसङ्गमः
।
अनुदेहं
वियन्त्येते
स्वप्नो
निद्रानुगो
यथा
54
▾
Meaning
Keep
इत्थं
परिमृशन्
मुक्तो
गृहेष्वतिथिवद्वसन्
।
न
गृहैरनुबध्येत
निर्ममो
निरहङ्कृतः
55
▾
Meaning
Keep
कर्मभिर्गृहमेधीयैरिष्ट्वा
मामेव
भक्तिमान्
।
तिष्ठेद्वनं
वोपविशेत्प्रजावान्
वा
परिव्रजेत्
56
▾
Meaning
Keep
यस्त्वासक्तमतिर्गेहे
पुत्रवित्तैषणातुरः
।
स्त्रैणः
कृपणधीर्मूढो
ममाहमिति
बध्यते
57
▾
Meaning
Keep
अहो
मे
पितरौ
वृद्धौ
भार्या
बालात्मजाऽऽत्मजाः
।
अनाथा
मामृते
दीनाः
कथं
जीवन्ति
दुःखिताः
58
▾
Meaning
Keep
एवं
गृहाशयाक्षिप्तहृदयो
मूढधीरयम्
।
अतृप्तस्ताननुध्यायन्
मृतोऽन्धं
विशते
तमः
Previous
←
Where He Shows Himself
Next
The Forest and the Wandering Life
→