Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Forest and the Wandering Life
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
वन एव वसेच्छान्तस्तृतीयं भागमायुषः
2
▾
Meaning
Keep
कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं
प्रकल्पयेत्
।
वसीत
वल्कलं
वासस्तृणपर्णाजिनानि
च
3
▾
Meaning
Keep
केशरोमनखश्मश्रुमलानि
बिभृयाद्दतः
।
न
धावेदप्सु
मज्जेत
त्रिकालं
स्थण्डिलेशयः
4
▾
Meaning
Keep
ग्रीष्मे
तप्येत
पञ्चाग्नीन्
वर्षास्वासारषाड्जले
।
आकण्ठमग्नः
शिशिर
एवं
वृत्तस्तपश्चरेत्
5
▾
Meaning
Keep
अग्निपक्वं
समश्नीयात्कालपक्वमथापि
वा
।
उलूखलाश्मकुट्टो
वा
दन्तोलूखल
एव
वा
6
▾
Meaning
Keep
स्वयं
संचिनुयात्
सर्वमात्मनो
वृत्तिकारणम्
।
देशकालबलाभिज्ञो
नाददीतान्यदाहृतम्
7
▾
Meaning
Keep
वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान्
।
न
तु
श्रौतेन
पशुना
मां
यजेत
वनाश्रमी
8
▾
Meaning
Keep
अग्निहोत्रं
च
दर्शश्च
पूर्णमासश्च
पूर्ववत्
।
चातुर्मास्यानि
च
मुनेराम्नातानि
च
नैगमैः
9
▾
Meaning
Keep
एवं
चीर्णेन
तपसा
मुनिर्धमनिसन्ततः
।
मां
तपोमयमाराध्य
ऋषिलोकादुपैति
माम्
10
▾
Meaning
Keep
यस्त्वेतत्कृच्छ्रतश्चीर्णं
तपो
निःश्रेयसं
महत्
।
कामायाल्पीयसे
युञ्ज्याद्बालिशः
कोऽपरस्ततः
11
▾
Meaning
Keep
यदासौ
नियमेऽकल्पो
जरया
जातवेपथुः
।
आत्मन्यग्नीन्
समारोप्य
मच्चित्तोऽग्निं
समाविशेत्
12
▾
Meaning
Keep
यदा
कर्मविपाकेषु
लोकेषु
निरयात्मसु
।
विरागो
जायते
सम्यङ्
न्यस्ताग्निः
प्रव्रजेत्ततः
13
▾
Meaning
Keep
इष्ट्वा
यथोपदेशं
मां
दत्त्वा
सर्वस्वमृत्विजे
।
अग्नीन्
स्वप्राण
आवेश्य
निरपेक्षः
परिव्रजेत्
14
▾
Meaning
Keep
विप्रस्य
वै
संन्यसतो
देवा
दारादिरूपिणः
।
विघ्नान्
कुर्वन्त्ययं
ह्यस्मानाक्रम्य
समियात्
परम्
15
▾
Meaning
Keep
बिभृयाच्चेन्मुनिर्वासः
कौपीनाच्छादनं
परम्
।
त्यक्तं
न
दण्डपात्राभ्यामन्यत्
किंचिदनापदि
16
▾
Meaning
Keep
दृष्टिपूतं
न्यसेत्पादं
वस्त्रपूतं
पिबेज्जलम्
।
सत्यपूतां
वदेद्वाचं
मनःपूतं
समाचरेत्
17
▾
Meaning
Keep
मौनानीहानिलायामा
दण्डा
वाग्देहचेतसाम्
।
न
ह्येते
यस्य
सन्त्यङ्ग
वेणुभिर्न
भवेद्यतिः
18
▾
Meaning
Keep
भिक्षां
चतुर्षु
वर्णेषु
विगर्ह्यान्
वर्जयंश्चरेत्
।
सप्तागारानसंकॢप्तांस्तुष्येल्लब्धेन
तावता
19
▾
Meaning
Keep
बहिर्जलाशयं
गत्वा
तत्रोपस्पृश्य
वाग्यतः
।
विभज्य
पावितं
शेषं
भुञ्जीताशेषमाहृतम्
20
▾
Meaning
Keep
एकश्चरेन्महीमेतां
निःसङ्गः
संयतेन्द्रियः
।
आत्मक्रीड
आत्मरत
आत्मवान्
समदर्शनः
21
▾
Meaning
Keep
विविक्तक्षेमशरणो
मद्भावविमलाशयः
।
आत्मानं
चिन्तयेदेकमभेदेन
मया
मुनिः
22
▾
Meaning
Keep
अन्वीक्षेतात्मनो
बन्धं
मोक्षं
च
ज्ञाननिष्ठया
।
बन्ध
इन्द्रियविक्षेपो
मोक्ष
एषां
च
संयमः
23
▾
Meaning
Keep
तस्मान्नियम्य
षड्वर्गं
मद्भावेन
चरेन्मुनिः
।
विरक्तः
क्षुल्लकामेभ्यो
लब्ध्वाऽऽत्मनि
सुखं
महत्
24
▾
Meaning
Keep
पुरग्रामव्रजान्
सार्थान्
भिक्षार्थं
प्रविशंश्चरेत्
।
पुण्यदेशसरिच्छैलवनाश्रमवतीं
महीम्
25
▾
Meaning
Keep
वानप्रस्थाश्रमपदेष्वभीक्ष्णं
भैक्ष्यमाचरेत्
।
संसिध्यत्याश्वसम्मोहः
शुद्धसत्त्वः
शिलान्धसा
26
▾
Meaning
Keep
नैतद्वस्तुतया
पश्येद्दृश्यमानं
विनश्यति
।
असक्तचित्तो
विरमेदिहामुत्र
चिकीर्षितात्
27
▾
Meaning
Keep
यदेतदात्मनि
जगन्मनोवाक्प्राणसंहतम्
।
सर्वं
मायेति
तर्केण
स्वस्थस्त्यक्त्वा
न
तत्स्मरेत्
28
▾
Meaning
Keep
ज्ञाननिष्ठो
विरक्तो
वा
मद्भक्तो
वानपेक्षकः
।
सलिङ्गानाश्रमांस्त्यक्त्वा
चरेदविधिगोचरः
29
▾
Meaning
Keep
बुधो
बालकवत्क्रीडेत्कुशलो
जडवच्चरेत्
।
वदेदुन्मत्तवद्विद्वान्
गोचर्यां
नैगमश्चरेत्
30
▾
Meaning
Keep
वेदवादरतो
न
स्यान्न
पाखण्डी
न
हैतुकः
।
शुष्कवादविवादे
न
कंचित्
पक्षं
समाश्रयेत्
31
▾
Meaning
Keep
नोद्विजेत
जनाद्धीरो
जनं
चोद्वेजयेन्न
तु
।
अतिवादांस्तितिक्षेत
नावमन्येत
कञ्चन
।
देहमुद्दिश्य
पशुवद्वैरं
कुर्यान्न
केनचित्
32
▾
Meaning
Keep
एक
एव
परो
ह्यात्मा
भूतेष्वात्मन्यवस्थितः
।
यथेन्दुरुदपात्रेषु
भूतान्येकात्मकानि
च
33
▾
Meaning
Keep
अलब्ध्वा
न
विषीदेत
काले
कालेऽशनं
क्वचित्
।
लब्ध्वा
न
हृष्येद्धृतिमानुभयं
दैवतन्त्रितम्
34
▾
Meaning
Keep
आहारार्थं
समीहेत
युक्तं
तत्प्राणधारणम्
।
तत्त्वं
विमृश्यते
तेन
तद्विज्ञाय
विमुच्यते
35
▾
Meaning
Keep
यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम्
।
तथा
वासस्तथा
शय्यां
प्राप्तं
प्राप्तं
भजेन्मुनिः
36
▾
Meaning
Keep
शौचमाचमनं
स्नानं
न
तु
चोदनया
चरेत्
।
अन्यांश्च
नियमाञ्ज्ञानी
यथाहं
लीलयेश्वरः
37
▾
Meaning
Keep
न
हि
तस्य
विकल्पाख्या
या
च
मद्वीक्षया
हता
।
आदेहान्तात्क्वचित्ख्यातिस्ततः
सम्पद्यते
मया
38
▾
Meaning
Keep
दुःखोदर्केषु
कामेषु
जातनिर्वेद
आत्मवान्
।
अजिज्ञासितमद्धर्मो
गुरुं
मुनिमुपाव्रजेत्
39
▾
Meaning
Keep
तावत्परिचरेद्भक्तः
श्रद्धावाननसूयकः
।
यावद्ब्रह्म
विजानीयान्मामेव
गुरुमादृतः
40
▾
Meaning
Keep
यस्त्वसंयतषड्वर्गः
प्रचण्डेन्द्रियसारथिः
।
ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति
41
▾
Meaning
Keep
सुरानात्मानमात्मस्थं
निह्नुते
मां
च
धर्महा
।
अविपक्वकषायोऽस्मादमुष्माच्च
विहीयते
42
▾
Meaning
Keep
भिक्षोर्धर्मः
शमोऽहिंसा
तप
ईक्षा
वनौकसः
।
गृहिणो
भूतरक्षेज्या
द्विजस्याचार्यसेवनम्
43
▾
Meaning
Keep
ब्रह्मचर्यं
तपः
शौचं
संतोषो
भूतसौहृदम्
।
गृहस्थस्याप्यृतौ
गन्तुः
सर्वेषां
मदुपासनम्
44
▾
Meaning
Keep
इति
मां
यः
स्वधर्मेण
भजेन्नित्यमनन्यभाक्
।
सर्वभूतेषु
मद्भावो
मद्भक्तिं
विन्दते
दृढाम्
45
▾
Meaning
Keep
भक्त्योद्धवानपायिन्या
सर्वलोकमहेश्वरम्
।
सर्वोत्पत्त्यप्ययं
ब्रह्म
कारणं
मोपयाति
सः
46
▾
Meaning
Keep
इति
स्वधर्मनिर्णिक्तसत्त्वो
निर्ज्ञातमद्गतिः
।
ज्ञानविज्ञानसम्पन्नो
न
चिरात्समुपैति
माम्
47
▾
Meaning
Keep
वर्णाश्रमवतां
धर्म
एष
आचारलक्षणः
।
स
एव
मद्भक्तियुतो
निःश्रेयसकरः
परः
48
▾
Meaning
Keep
एतत्तेऽभिहितं
साधो
भवान्
पृच्छति
यच्च
माम्
।
यथा
स्वधर्मसंयुक्तो
भक्तो
मां
समियात्परम्
Previous
←
The Classes, and the Student and the Householder
Next
What Knowledge Is, and What the Words Mean
→