Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Three Ways, and the One That Carries
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विधिश्च
प्रतिषेधश्च
निगमो
हीश्वरस्य
ते
।
अवेक्षतेऽरविन्दाक्ष
गुणं
दोषं
च
कर्मणाम्
2
▾
Meaning
Keep
वर्णाश्रमविकल्पं
च
प्रतिलोमानुलोमजम्
।
द्रव्यदेशवयःकालान्
स्वर्गं
नरकमेव
च
3
▾
Meaning
Keep
गुणदोषभिदा
दृष्टिमन्तरेण
वचस्तव
।
निःश्रेयसं
कथं
नॄणां
निषेधविधिलक्षणम्
4
▾
Meaning
Keep
पितृदेवमनुष्याणां
वेदश्चक्षुस्तवेश्वर
।
श्रेयस्त्वनुपलब्धेऽर्थे
साध्यसाधनयोरपि
5
▾
Meaning
Keep
गुणदोषभिदादृष्टिर्निगमात्ते
न
हि
स्वतः
।
निगमेनापवादश्च
भिदाया
इति
ह
भ्रमः
6
▾
Meaning
Keep
श्रीभगवानुवाच
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित्
7
▾
Meaning
Keep
निर्विण्णानां
ज्ञानयोगो
न्यासिनामिह
कर्मसु
।
तेष्वनिर्विण्णचित्तानां
कर्मयोगस्तु
कामिनाम्
8
▾
Meaning
Keep
यदृच्छया
मत्कथादौ
जातश्रद्धस्तु
यः
पुमान्
।
न
निर्विण्णो
नातिसक्तो
भक्तियोगोऽस्य
सिद्धिदः
9
▾
Meaning
Keep
तावत्कर्माणि
कुर्वीत
न
निर्विद्येत
यावता
।
मत्कथाश्रवणादौ
वा
श्रद्धा
यावन्न
जायते
10
▾
Meaning
Keep
स्वधर्मस्थो
यजन्
यज्ञैरनाशीः
काम
उद्धव
।
न
याति
स्वर्गनरकौ
यद्यन्यन्न
समाचरेत्
11
▾
Meaning
Keep
अस्मिँल्लोके
वर्तमानः
स्वधर्मस्थोऽनघः
शुचिः
।
ज्ञानं
विशुद्धमाप्नोति
मद्भक्तिं
वा
यदृच्छया
12
▾
Meaning
Keep
स्वर्गिणोऽप्येतमिच्छन्ति
लोकं
निरयिणस्तथा
।
साधकं
ज्ञानभक्तिभ्यामुभयं
तदसाधकम्
13
▾
Meaning
Keep
न
नरः
स्वर्गतिं
काङ्क्षेन्नारकीं
वा
विचक्षणः
।
नेमं
लोकं
च
काङ्क्षेत
देहावेशात्प्रमाद्यति
14
▾
Meaning
Keep
एतद्विद्वान्
पुरा
मृत्योरभवाय
घटेत
सः
।
अप्रमत्त
इदं
ज्ञात्वा
मर्त्यमप्यर्थसिद्धिदम्
15
▾
Meaning
Keep
छिद्यमानं
यमैरेतैः
कृतनीडं
वनस्पतिम्
।
खगः
स्वकेतमुत्सृज्य
क्षेमं
याति
ह्यलम्पटः
16
▾
Meaning
Keep
अहोरात्रैश्छिद्यमानं
बुद्ध्वाऽऽयुर्भयवेपथुः
।
मुक्तसङ्गः
परं
बुद्ध्वा
निरीह
उपशाम्यति
17
▾
Meaning
Keep
नृदेहमाद्यं
सुलभं
सुदुर्लभं
प्लवं
सुकल्पं
गुरुकर्णधारम्
।
मयानुकूलेन
नभस्वतेरितं
पुमान्
भवाब्धिं
न
तरेत्स
आत्महा
18
▾
Meaning
Keep
यदाऽऽरम्भेषु
निर्विण्णो
विरक्तः
संयतेन्द्रियः
।
अभ्यासेनात्मनो
योगी
धारयेदचलं
मनः
19
▾
Meaning
Keep
धार्यमाणं
मनो
यर्हि
भ्राम्यदाश्वनवस्थितम्
।
अतन्द्रितोऽनुरोधेन
मार्गेणात्मवशं
नयेत्
20
▾
Meaning
Keep
मनोगतिं
न
विसृजेज्जितप्राणो
जितेन्द्रियः
।
सत्त्वसम्पन्नया
बुद्ध्या
मन
आत्मवशं
नयेत्
21
▾
Meaning
Keep
एष
वै
परमो
योगो
मनसः
संग्रहः
स्मृतः
।
हृदयज्ञत्वमन्विच्छन्
दम्यस्येवार्वतो
मुहुः
22
▾
Meaning
Keep
सांख्येन
सर्वभावानां
प्रतिलोमानुलोमतः
।
भवाप्ययावनुध्यायेन्मनो
यावत्
प्रसीदति
23
▾
Meaning
Keep
निर्विण्णस्य
विरक्तस्य
पुरुषस्योक्तवेदिनः
।
मनस्त्यजति
दौरात्म्यं
चिन्तितस्यानुचिन्तया
24
▾
Meaning
Keep
यमादिभिर्योगपथैरान्वीक्षिक्या
च
विद्यया
।
ममार्चोपासनाभिर्वा
नान्यैर्योग्यं
स्मरेन्मनः
25
▾
Meaning
Keep
यदि
कुर्यात्प्रमादेन
योगी
कर्म
विगर्हितम्
।
योगेनैव
दहेदंहो
नान्यत्तत्र
कदाचन
26
▾
Meaning
Keep
स्वे
स्वेऽधिकारे
या
निष्ठा
स
गुणः
परिकीर्तितः
।
कर्मणां
जात्यशुद्धानामनेन
नियमः
कृतः
।
गुणदोषविधानेन
सङ्गानां
त्याजनेच्छया
27
▾
Meaning
Keep
जातश्रद्धो
मत्कथासु
निर्विण्णः
सर्वकर्मसु
।
वेददुःखात्मकान्
कामान्
परित्यागेऽप्यनीश्वरः
28
▾
Meaning
Keep
ततो
भजेत
मां
प्रीतः
श्रद्धालुर्दृढनिश्चयः
।
जुषमाणश्च
तान्
कामान्
दुःखोदर्कांश्च
गर्हयन्
29
▾
Meaning
Keep
प्रोक्तेन
भक्तियोगेन
भजतो
मासकृन्मुनेः
।
कामा
हृदय्या
नश्यन्ति
सर्वे
मयि
हृदि
स्थिते
30
▾
Meaning
Keep
भिद्यते
हृदयग्रन्थिश्छिद्यन्ते
सर्वसंशयाः
।
क्षीयन्ते
चास्य
कर्माणि
मयि
दृष्टेऽखिलात्मनि
31
▾
Meaning
Keep
तस्मान्मद्भक्तियुक्तस्य
योगिनो
वै
मदात्मनः
।
न
ज्ञानं
न
च
वैराग्यं
प्रायः
श्रेयो
भवेदिह
32
▾
Meaning
Keep
यत्कर्मभिर्यत्तपसा
ज्ञानवैराग्यतश्च
यत्
।
योगेन
दानधर्मेण
श्रेयोभिरितरैरपि
33
▾
Meaning
Keep
सर्वं
मद्भक्तियोगेन
मद्भक्तो
लभतेऽञ्जसा
।
स्वर्गापवर्गं
मद्धाम
कथंचिद्
यदि
वाञ्छति
34
▾
Meaning
Keep
न
किंचित्
साधवो
धीरा
भक्ता
ह्येकान्तिनो
मम
।
वाञ्छन्त्यपि
मया
दत्तं
कैवल्यमपुनर्भवम्
35
▾
Meaning
Keep
नैरपेक्ष्यं
परं
प्राहुर्निःश्रेयसमनल्पकम्
।
तस्मान्निराशिषो
भक्तिर्निरपेक्षस्य
मे
भवेत्
36
▾
Meaning
Keep
न
मय्येकान्तभक्तानां
गुणदोषोद्भवा
गुणाः
।
साधूनां
समचित्तानां
बुद्धेः
परमुपेयुषाम्
37
▾
Meaning
Keep
एवमेतान्
मयाऽऽदिष्टाननुतिष्ठन्ति
मे
पथः
।
क्षेमं
विन्दन्ति
मत्स्थानं
यद्ब्रह्म
परमं
विदुः
Previous
←
What Knowledge Is, and What the Words Mean
Next
Merit and Fault, and What the Veda Means
→