Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Merit and Fault, and What the Veda Means
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते
2
▾
Meaning
Keep
स्वे
स्वेऽधिकारे
या
निष्ठा
स
गुणः
परिकीर्तितः
।
विपर्ययस्तु
दोषः
स्यादुभयोरेष
निश्चयः
3
▾
Meaning
Keep
शुद्धयशुद्धी
विधीयेते
समानेष्वपि
वस्तुषु
।
द्रव्यस्य
विचिकित्सार्थं
गुणदोषौ
शुभाशुभौ
4
▾
Meaning
Keep
धर्मार्थं
व्यवहारार्थं
यात्रार्थमिति
चानघ
।
दर्शितोऽयं
मयाऽऽचारो
धर्ममुद्वहतां
धुरम्
5
▾
Meaning
Keep
भूम्यम्ब्वग्न्यनिलाकाशा
भूतानां
पञ्चधातवः
।
आब्रह्मस्थावरादीनां
शारीरा
आत्मसंयुताः
6
▾
Meaning
Keep
वेदेन
नाम
रूपाणि
विषमाणि
समेष्वपि
।
धातुषूद्धव
कल्प्यन्त
एतेषां
स्वार्थसिद्धये
7
▾
Meaning
Keep
देशकालादिभावानां
वस्तूनां
मम
सत्तम
।
गुणदोषौ
विधीयेते
नियमार्थं
हि
कर्मणाम्
8
▾
Meaning
Keep
अकृष्णसारो
देशानामब्रह्मण्योऽशुचिर्भवेत्
।
कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम्
9
▾
Meaning
Keep
कर्मण्यो
गुणवान्
कालो
द्रव्यतः
स्वत
एव
वा
।
यतो
निवर्तते
कर्म
स
दोषोऽकर्मकः
स्मृतः
10
▾
Meaning
Keep
द्रव्यस्य
शुद्ध्यशुद्धी
च
द्रव्येण
वचनेन
च
।
संस्कारेणाथ
कालेन
महत्वाल्पतयाथ
वा
11
▾
Meaning
Keep
शक्त्याशक्त्याथ
वा
बुद्ध्या
समृद्ध्या
च
यदात्मने
।
अघं
कुर्वन्ति
हि
यथा
देशावस्थानुसारतः
12
▾
Meaning
Keep
धान्यदार्वस्थितन्तूनां
रसतैजसचर्मणाम्
।
कालवाय्वग्निमृत्तोयैः
पार्थिवानां
युतायुतैः
13
▾
Meaning
Keep
अमेध्यलिप्तं
यद्येन
गन्धलेपं
व्यपोहति
।
भजते
प्रकृतिं
तस्य
तच्छौचं
तावदिष्यते
14
▾
Meaning
Keep
स्नानदानतपोऽवस्था
वीर्यसंस्कारकर्मभिः
।
मत्स्मृत्या
चात्मनः
शौचं
शुद्धः
कर्माचरेद्द्विजः
15
▾
Meaning
Keep
मन्त्रस्य
च
परिज्ञानं
कर्मशुद्धिर्मदर्पणम्
।
धर्मः
सम्पद्यते
षड्भिरधर्मस्तु
विपर्ययः
16
▾
Meaning
Keep
क्वचिद्गुणोऽपि
दोषः
स्याद्दोषोऽपि
विधिना
गुणः
।
गुणदोषार्थनियमस्तद्भिदामेव
बाधते
17
▾
Meaning
Keep
समानकर्माचरणं
पतितानां
न
पातकम्
।
औत्पत्तिको
गुणः
सङ्गो
न
शयानः
पतत्यधः
18
▾
Meaning
Keep
यतो
यतो
निवर्तेत
विमुच्येत
ततस्ततः
।
एष
धर्मो
नृणां
क्षेमः
शोकमोहभयापहः
19
▾
Meaning
Keep
विषयेषु
गुणाध्यासात्पुंसः
सङ्गस्ततो
भवेत्
।
सङ्गात्तत्र
भवेत्कामः
कामादेव
कलिर्नृणाम्
20
▾
Meaning
Keep
कलेर्दुर्विषहः
क्रोधस्तमस्तमनुवर्तते
।
तमसा
ग्रस्यते
पुंसश्चेतना
व्यापिनी
द्रुतम्
21
▾
Meaning
Keep
तया
विरहितः
साधो
जन्तुः
शून्याय
कल्पते
।
ततोऽस्य
स्वार्थविभ्रंशो
मूर्च्छितस्य
मृतस्य
च
22
▾
Meaning
Keep
विषयाभिनिवेशेन
नात्मानं
वेद
नापरम्
।
वृक्षजीविकया
जीवन्
व्यर्थं
भस्त्रेव
यः
श्वसन्
23
▾
Meaning
Keep
फलश्रुतिरियं
नॄणां
न
श्रेयो
रोचनं
परम्
।
श्रेयो
विवक्षया
प्रोक्तं
यथा
भैषज्यरोचनम्
24
▾
Meaning
Keep
उत्पत्त्यैव
हि
कामेषु
प्राणेषु
स्वजनेषु
च
।
आसक्तमनसो
मर्त्या
आत्मनोऽनर्थहेतुषु
25
▾
Meaning
Keep
न
तानविदुषः
स्वार्थं
भ्राम्यतो
वृजिनाध्वनि
।
कथं
युञ्ज्यात्पुनस्तेषु
तांस्तमो
विशतो
बुधः
26
▾
Meaning
Keep
एवं
व्यवसितं
केचिदविज्ञाय
कुबुद्धयः
।
फलश्रुतिं
कुसुमितां
न
वेदज्ञा
वदन्ति
हि
27
▾
Meaning
Keep
कामिनः
कृपणा
लुब्धाः
पुष्पेषु
फलबुद्धयः
।
अग्निमुग्धा
धूमतान्ताः
स्वं
लोकं
न
विदन्ति
ते
28
▾
Meaning
Keep
न
ते
मामङ्ग
जानन्ति
हृदिस्थं
य
इदं
यतः
।
उक्थशस्त्रा
ह्यसुतृपो
यथा
नीहारचक्षुषः
29
▾
Meaning
Keep
ते
मे
मतमविज्ञाय
परोक्षं
विषयात्मकाः
।
हिंसायां
यदि
रागः
स्याद्यज्ञ
एव
न
चोदना
30
▾
Meaning
Keep
हिंसाविहारा
ह्यालब्धैः
पशुभिः
स्वसुखेच्छया
।
यजन्ते
देवता
यज्ञैः
पितृभूतपतीन्
खलाः
31
▾
Meaning
Keep
स्वप्नोपमममुं
लोकमसन्तं
श्रवणप्रियम्
।
आशिषो
हृदि
संकल्प्य
त्यजन्त्यर्थान्
यथा
वणिक्
32
▾
Meaning
Keep
रजःसत्त्वतमोनिष्ठा
रजःसत्त्वतमोजुषः
।
उपासत
इन्द्रमुख्यान्
देवादीन्
न
तथैव
माम्
33
▾
Meaning
Keep
इष्ट्वेह
देवता
यज्ञैर्गत्वा
रंस्यामहे
दिवि
।
तस्यान्त
इह
भूयास्म
महाशाला
महाकुलाः
34
▾
Meaning
Keep
एवं
पुष्पितया
वाचा
व्याक्षिप्तमनसां
नृणाम्
।
मानिनां
चातिलुब्धानां
मद्वार्तापि
न
रोचते
35
▾
Meaning
Keep
वेदा
ब्रह्मात्मविषयास्त्रिकाण्डविषया
इमे
।
परोक्षवादा
ऋषयः
परोक्षं
मम
च
प्रियम्
36
▾
Meaning
Keep
शब्दब्रह्म
सुदुर्बोधं
प्राणेन्द्रियमनोमयम्
।
अनन्तपारं
गम्भीरं
दुर्विगाह्यं
समुद्रवत्
37
▾
Meaning
Keep
मयोपबृंहितं
भूम्ना
ब्रह्मणानन्तशक्तिना
।
भूतेषु
घोषरूपेण
बिसेषूर्णेव
लक्ष्यते
38
▾
Meaning
Keep
यथोर्णनाभिर्हृदयादूर्णामुद्वमते
मुखात्
।
आकाशाद्घोषवान्
प्राणो
मनसा
स्पर्शरूपिणा
39
▾
Meaning
Keep
छन्दोमयोऽमृतमयः
सहस्रपदवीं
प्रभुः
।
ओङ्काराद्व्यञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम्
40
▾
Meaning
Keep
विचित्रभाषाविततां
छन्दोभिश्चतुरुत्तरैः
।
अनन्तपारां
बृहतीं
सृजत्याक्षिपते
स्वयम्
41
▾
Meaning
Keep
गायत्र्युष्णिगनुष्टुप्
च
बृहती
पङ्क्तिरेव
च
।
त्रिष्टुब्जगत्यतिच्छन्दो
ह्यत्यष्ट्यतिजगद्विराट्
42
▾
Meaning
Keep
किं
विधत्ते
किमाचष्टे
किमनूद्य
विकल्पयेत्
।
इत्यस्या
हृदयं
लोके
नान्यो
मद्वेद
कश्चन
43
▾
Meaning
Keep
मां
विधत्तेऽभिधत्ते
मां
विकल्प्यापोह्यते
त्वहम्
।
एतावान्
सर्ववेदार्थः
शब्द
आस्थाय
मां
भिदाम्
।
मायामात्रमनूद्यान्ते
प्रतिषिद्धय
प्रसीदति
Previous
←
Three Ways, and the One That Carries
Next
The Count of the Principles
→