Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · He Closed His Lotus Eyes
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
तत्रागमद्ब्रह्मा
भवान्या
च
समं
भवः
।
महेन्द्रप्रमुखा
देवा
मुनयः
सप्रजेश्वराः
2
▾
Meaning
Keep
पितरः
सिद्धगन्धर्वा
विद्याधरमहोरगाः
।
चारणा
यक्षरक्षांसि
किन्नराप्सरसो
द्विजाः
3
▾
Meaning
Keep
द्रष्टुकामा
भगवतो
निर्याणं
परमोत्सुकाः
।
गायन्तश्च
गृणन्तश्च
शौरेः
कर्माणि
जन्म
च
4
▾
Meaning
Keep
ववृषुः
पुष्पवर्षाणि
विमानावलिभिर्नभः
।
कुर्वन्तः
सङ्कुलं
राजन्
भक्त्या
परमया
युताः
5
▾
Meaning
Keep
भगवान्
पितामहं
वीक्ष्य
विभूतीरात्मनो
विभुः
।
संयोज्यात्मनि
चात्मानं
पद्मनेत्रे
न्यमीलयत्
6
▾
Meaning
Keep
लोकाभिरामां
स्वतनुं
धारणाध्यानमङ्गलम्
।
योगधारणयाऽऽग्नेय्यादग्ध्वा
धामाविशत्स्वकम्
7
▾
Meaning
Keep
दिवि
दुन्दुभयो
नेदुः
पेतुः
सुमनसश्च
खात्
।
सत्यं
धर्मो
धृतिर्भूमेः
कीर्तिः
श्रीश्चानु
तं
ययुः
8
▾
Meaning
Keep
देवादयो
ब्रह्ममुख्या
न
विशन्तं
स्वधामनि
।
अविज्ञातगतिं
कृष्णं
ददृशुश्चातिविस्मिताः
9
▾
Meaning
Keep
सौदामन्या
यथाऽऽकाशे
यान्त्या
हित्वाभ्रमण्डलम्
।
गतिर्न
लक्ष्यते
मर्त्यैस्तथा
कृष्णस्य
दैवतैः
10
▾
Meaning
Keep
ब्रह्मरुद्रादयस्ते
तु
दृष्ट्वा
योगगतिं
हरेः
।
विस्मितास्तां
प्रशंसन्तः
स्वं
स्वं
लोकं
ययुस्तदा
11
▾
Meaning
Keep
राजन्
परस्य
तनुभृज्जननाप्ययेहा
मायाविडम्बनमवेहि
यथा
नटस्य
।
सृष्ट्वाऽऽत्मनेदमनुविश्य
विहृत्य
चान्ते
संहृत्य
चात्ममहिनोपरतः
स
आस्ते
12
▾
Meaning
Keep
मर्त्येन
यो
गुरुसुतं
यमलोकनीतं
त्वां
चानयच्छरणदः
परमास्त्रदग्धम्
।
जिग्येऽन्तकान्तकमपीशमसावनीशः
किं
स्वावने
स्वरनयन्मृगयुं
सदेहम्
13
▾
Meaning
Keep
तथाप्यशेषस्थितिसम्भवाप्यये-
ष्वनन्यहेतुर्यदशेषशक्तिधृक् ।
नैच्छत्प्रणेतुं वपुरत्र शेषितं
मर्त्येन किं स्वस्थगतिं प्रदर्शयन्
14
▾
Meaning
Keep
य
एतां
प्रातरुत्थाय
कृष्णस्य
पदवीं
पराम्
।
प्रयतः
कीर्तयेद्भक्त्या
तामेवाप्नोत्यनुत्तमाम्
15
▾
Meaning
Keep
दारुको
द्वारकामेत्य
वसुदेवोग्रसेनयोः
।
पतित्वा
चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः
16
▾
Meaning
Keep
कथयामास
निधनं
वृष्णीनां
कृत्स्नशो
नृप
।
तच्छ्रुत्वोद्विग्नहृदया
जनाः
शोकविर्मूर्च्छिताः
17
▾
Meaning
Keep
तत्र
स्म
त्वरिता
जग्मुः
कृष्णविश्लेषविह्वलाः
।
व्यसवः
शेरते
यत्र
ज्ञातयो
घ्नन्त
आननम्
18
▾
Meaning
Keep
देवकी
रोहिणी
चैव
वसुदेवस्तथा
सुतौ
।
कृष्णरामावपश्यन्तः
शोकार्ता
विजहुः
स्मृतिम्
19
▾
Meaning
Keep
प्राणांश्च
विजहुस्तत्र
भगवद्विरहातुराः
।
उपगुह्य
पतींस्तात
चितामारुरुहुः
स्त्रियः
20
▾
Meaning
Keep
रामपत्न्यश्च
तद्देहमुपगुह्याग्निमाविशन्
।
वसुदेवपत्न्यस्तद्गात्रं
प्रद्युम्नादीन्
हरेः
स्नुषाः
।
कृष्णपत्न्योऽविशन्नग्निं
रुक्मिण्याद्यास्तदात्मिकाः
21
▾
Meaning
Keep
अर्जुनः
प्रेयसः
सख्युः
कृष्णस्य
विरहातुरः
।
आत्मानं
सान्त्वयामास
कृष्णगीतैः
सदुक्तिभिः
22
▾
Meaning
Keep
बन्धूनां
नष्टगोत्राणामर्जुनः
साम्परायिकम्
।
हतानां
कारयामास
यथावदनुपूर्वशः
23
▾
Meaning
Keep
द्वारकां
हरिणा
त्यक्तां
समुद्रोऽप्लावयत्क्षणात्
।
वर्जयित्वा
महाराज
श्रीमद्भगवदालयम्
24
▾
Meaning
Keep
नित्यं
सन्निहितस्तत्र
भगवान्
मधुसूदनः
।
स्मृत्याशेषाशुभहरं
सर्वमङ्गलमङ्गलम्
25
▾
Meaning
Keep
स्त्रीबालवृद्धानादाय
हतशेषान्
धनञ्जयः
।
इन्द्रप्रस्थं
समावेश्य
वज्रं
तत्राभ्यषेचयत्
26
▾
Meaning
Keep
श्रुत्वा
सुहृद्वधं
राजन्नर्जुनात्ते
पितामहाः
।
त्वां
तु
वंशधरं
कृत्वा
जग्मुः
सर्वे
महापथम्
27
▾
Meaning
Keep
य
एतद्देवदेवस्य
विष्णोः
कर्माणि
जन्म
च
।
कीर्तयेच्छ्रद्धया
मर्त्यः
सर्वपापैः
प्रमुच्यते
28
▾
Meaning
Keep
इत्थं
हरेर्भगवतो
रुचिरावतार-
वीर्याणि
बालचरितानि
च
शन्तमानि
।
अन्यत्र
चेह
च
श्रुतानि
गृणन्
मनुष्यो
भक्तिं
परां
परमहंसगतौ
लभेत
Previous
←
The End of the Yadus
Next
The Kings Who Are Still to Come
→