Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Kings Who Are Still to Come
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
स्वधामानुगते
कृष्णे
यदुवंशविभूषणे
।
कस्य
वंशोऽभवत्पृथ्व्यामेतदाचक्ष्व
मे
मुने
2
▾
Meaning
Keep
योऽन्त्यः
पुरञ्जयो
नाम
भाव्यो
बारहद्रथः
।
तस्यामात्यस्तु
शुनको
हत्वा
स्वामिनमात्मजम्
3
▾
Meaning
Keep
प्रद्योतसंज्ञं
राजानं
कर्ता
यत्पालकः
सुतः
।
विशाखयूपस्तत्पुत्रो
भविता
राजकस्ततः
4
▾
Meaning
Keep
नन्दिवर्धनस्तत्पुत्रः
पञ्च
प्रद्योतना
इमे
।
अष्टत्रिंशोत्तरशतं
भोक्ष्यन्ति
पृथिवीं
नृपाः
5
▾
Meaning
Keep
शिशुनागस्ततो
भाव्यः
काकवर्णस्तु
तत्सुतः
।
क्षेमधर्मा
तस्य
सुतः
क्षेत्रज्ञः
क्षेमधर्मजः
6
▾
Meaning
Keep
विधिसारः
सुतस्तस्याजातशत्रुर्भविष्यति
।
दर्भकस्तत्सुतो
भावी
दर्भकस्याजयः
स्मृतः
7
▾
Meaning
Keep
नन्दिवर्धन
आजेयो
महानन्दिः
सुतस्ततः
।
शिशुनागा
दशैवैते
सष्ट्युत्तरशतत्रयम्
8
▾
Meaning
Keep
समा
भोक्ष्यन्ति
पृथिवीं
कुरुश्रेष्ठ
कलौ
नृपाः
।
महानन्दिसुतो
राजन्
शूद्रागर्भोद्भवो
बली
9
▾
Meaning
Keep
महापद्मपतिः
कश्चिन्नन्दः
क्षत्रविनाशकृत्
।
ततो
नृपा
भविष्यन्ति
शूद्रप्रायास्त्वधार्मिकाः
10
▾
Meaning
Keep
स
एकच्छत्रां
पृथिवीमनुल्लङ्घितशासनः
।
शासिष्यति
महापद्मो
द्वितीय
इव
भार्गवः
11
▾
Meaning
Keep
तस्य
चाष्टौ
भविष्यन्ति
सुमाल्यप्रमुखाः
सुताः
।
य
इमां
भोक्ष्यन्ति
महीं
राजानः
स्म
शतं
समाः
12
▾
Meaning
Keep
नवनन्दान्
द्विजः
कश्चित्प्रपन्नानुद्धरिष्यति
।
तेषामभावे
जगतीं
मौर्या
भोक्ष्यन्ति
वै
कलौ
13
▾
Meaning
Keep
स
एव
चन्द्रगुप्तं
वै
द्विजो
राज्येऽभिषेक्ष्यति
।
तत्सुतो
वारिसारस्तु
ततश्चाशोकवर्धनः
14
▾
Meaning
Keep
सुयशा
भविता
तस्य
संगतः
सुयशःसुतः
।
शालिशूकस्ततस्तस्य
सोमशर्मा
भविष्यति
15
▾
Meaning
Keep
शतधन्वा
ततस्तस्य
भविता
तद्बृहद्रथः
।
मौर्या
ह्येते
दश
नृपाः
सप्तत्रिंशच्छतोत्तरम्
।
समा
भोक्ष्यन्ति
पृथिवीं
कलौ
कुरुकुलोद्वह
16
▾
Meaning
Keep
हत्वा
बृहद्रथं
मौर्यं
तस्य
सेनापतिः
कलौ
।
पुष्यमित्रस्तु
शुङ्गाह्वः
स्वयं
राज्यं
करिष्यति
अग्निमित्रस्ततस्तस्मात्सुज्येष्ठोऽथ
भविष्यति
17
▾
Meaning
Keep
वसुमित्रो
भद्रकश्च
पुलिन्दो
भविता
ततः
।
ततो
घोषः
सुतस्तस्माद्वज्रमित्रो
भविष्यति
18
▾
Meaning
Keep
ततो
भागवतस्तस्माद्देवभूतिरिति
श्रुतः
।
शुङ्गा
दशैते
भोक्ष्यन्ति
भूमिं
वर्षशताधिकम्
19
▾
Meaning
Keep
ततः
कण्वानियं
भूमिर्यास्यत्यल्पगुणान्
नृप
।
शुङ्गं
हत्वा
देवभूतिं
कण्वोऽमात्यस्तु
कामिनम्
20
▾
Meaning
Keep
स्वयं
करिष्यते
राज्यं
वसुदेवो
महामतिः
।
तस्य
पुत्रस्तु
भूमित्रस्तस्य
नारायणः
सुतः
।
नारायणस्य
भविता
सुशर्मा
नाम
विश्रुतः
21
▾
Meaning
Keep
काण्वायना
इमे
भूमिं
चत्वारिंशच्च
पञ्च
च
।
शतानि
त्रीणि
भोक्ष्यन्ति
वर्षाणां
च
कलौ
युगे
22
▾
Meaning
Keep
हत्वा
काण्वं
सुशर्माणं
तद्भृत्यो
वृषलो
बली
।
गां
भोक्ष्यत्यन्ध्रजातीयः
कञ्चित्कालमसत्तमः
23
▾
Meaning
Keep
कृष्णनामाथ
तद्भ्राता
भविता
पृथिवीपतिः
।
श्रीशान्तकर्णस्तत्पुत्रः
पौर्णमासस्तु
तत्सुतः
24
▾
Meaning
Keep
लम्बोदरस्तु
तत्पुत्रस्तस्माच्चिबिलको
नृपः
।
मेघस्वातिश्चिबिलकादटमानस्तु
तस्य
च
25
▾
Meaning
Keep
अनिष्टकर्मा
हालेयस्तलकस्तस्य
चात्मजः
।
पुरीषभीरुस्तत्पुत्रस्ततो
राजा
सुनन्दनः
26
▾
Meaning
Keep
चकोरो
बहवो
यत्र
शिवस्वातिररिन्दमः
।
तस्यापि
गोमतीपुत्रः
पुरीमान्
भविता
ततः
27
▾
Meaning
Keep
मेदशिराः
शिवस्कन्दो
यज्ञश्रीस्तत्सुतस्ततः
।
विजयस्तत्सुतो
भाव्यश्चन्द्रविज्ञः
स
लोमधिः
28
▾
Meaning
Keep
एते
त्रिंशन्नृपतयश्चत्वार्यब्दशतानि
च
।
षट्पञ्चाशच्च
पृथिवीं
भोक्ष्यन्ति
कुरुनन्दन
29
▾
Meaning
Keep
सप्ताभीरा
आवभृत्या
दशगर्दभिनो
नृपाः
।
कङ्काः
षोडश
भूपाला
भविष्यन्त्यतिलोलुपाः
30
▾
Meaning
Keep
ततोऽष्टौ
यवना
भाव्याश्चतुर्दश
तुरुष्ककाः
।
भूयो
दश
गुरुण्डाश्च
मौला
एकादशैव
तु
31
▾
Meaning
Keep
एते
भोक्ष्यन्ति
पृथिवीं
दशवर्षशतानि
च
।
नवाधिकां
च
नवतिं
मौला
एकादश
क्षितिम्
32
▾
Meaning
Keep
भोक्ष्यन्त्यब्दशतान्यङ्ग
त्रीणि
तैः
संस्थिते
ततः
।
किलकिलायां
नृपतयो
भूतनन्दोऽथ
वङ्गिरिः
33
▾
Meaning
Keep
शिशुनन्दिश्च
तद्भ्राता
यशोनन्दिः
प्रवीरकः
।
इत्येते
वै
वर्षशतं
भविष्यन्त्यधिकानि
षट्
34
▾
Meaning
Keep
तेषां
त्रयोदश
सुता
भवितारश्च
बाह्लिकाः
।
पुष्पमित्रोऽथ
राजन्यो
दुर्मित्रोऽस्य
तथैव
च
35
▾
Meaning
Keep
एककाला
इमे
भूपाः
सप्तान्ध्राः
सप्त
कौशलाः
।
विदूरपतयो
भाव्या
निषधास्तत
एव
हि
36
▾
Meaning
Keep
मागधानां
तु
भविता
विश्वस्फूर्जिः
पुरञ्जयः
।
करिष्यत्यपरो
वर्णान्
पुलिन्दयदुमद्रकान्
37
▾
Meaning
Keep
प्रजाश्चाब्रह्मभूयिष्ठाः
स्थापयिष्यति
दुर्मतिः
।
वीर्यवान्
क्षत्रमुत्साद्य
पद्मवत्यां
स
वै
पुरि
।
अनुगङ्गामाप्रयागं
गुप्तां
भोक्ष्यति
मेदिनीम्
38
▾
Meaning
Keep
सौराष्ट्रावन्त्याभीराश्च
शूरा
अर्बुदमालवाः
।
व्रात्या
द्विजा
भविष्यन्ति
शूद्रप्राया
जनाधिपाः
39
▾
Meaning
Keep
सिन्धोस्तटं
चन्द्रभागां
कौन्तीं
काश्मीरमण्डलम्
।
भोक्ष्यन्ति
शूद्रा
व्रात्याद्या
म्लेच्छाश्चाब्रह्मवर्चसः
40
▾
Meaning
Keep
तुल्यकाला
इमे
राजन्
म्लेच्छप्रायाश्च
भूभृतः
।
एतेऽधर्मानृतपराः
फल्गुदास्तीव्रमन्यवः
41
▾
Meaning
Keep
स्त्रीबालगोद्विजघ्नाश्च
परदारधनादृताः
।
उदितास्तमितप्राया
अल्पसत्त्वाल्पकायुषः
42
▾
Meaning
Keep
असंस्कृताः
क्रियाहीना
रजसा
तमसाऽऽवृताः
।
प्रजास्ते
भक्षयिष्यन्ति
म्लेच्छा
राजन्यरूपिणः
43
▾
Meaning
Keep
तन्नाथास्ते
जनपदास्तच्छीलाचारवादिनः
।
अन्योन्यतो
राजभिश्च
क्षयं
यास्यन्ति
पीडिताः
Previous
←
He Closed His Lotus Eyes
Next
What the Kali Age Will Be Like
→