Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Earth Laughs at the Kings
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
दृष्ट्वाऽऽत्मनि
जये
व्यग्रान्
नृपान्
हसति
भूरियम्
।
अहो
मा
विजिगीषन्ति
मृत्योः
क्रीडनका
नृपाः
2
▾
Meaning
Keep
काम
एष
नरेन्द्राणां
मोघः
स्याद्विदुषामपि
।
येन
फेनोपमे
पिण्डे
येऽतिविश्रम्भिता
नृपाः
3
▾
Meaning
Keep
पूर्वं
निर्जित्य
षड्वर्गं
जेष्यामो
राजमन्त्रिणः
।
ततः
सचिवपौराप्तकरीन्द्रानस्य
कण्टकान्
4
▾
Meaning
Keep
एवं
क्रमेण
जेष्यामः
पृथ्वीं
सागरमेखलाम्
।
इत्याशाबद्धहृदया
न
पश्यन्त्यन्तिकेऽन्तकम्
5
▾
Meaning
Keep
समुद्रावरणां
जित्वा
मां
विशन्त्यब्धिमोजसा
।
कियदात्मजयस्यैतन्मुक्तिरात्मजये
फलम्
6
▾
Meaning
Keep
यां
विसृज्यैव
मनवस्तत्सुताश्च
कुरूद्वह
।
गता
यथागतं
युद्धे
तां
मां
जेष्यन्त्यबुद्धयः
7
▾
Meaning
Keep
मत्कृते
पितृपुत्राणां
भ्रातॄणां
चापि
विग्रहः
।
जायते
ह्यसतां
राज्ये
ममताबद्धचेतसाम्
8
▾
Meaning
Keep
ममैवेयं
मही
कृत्स्ना
न
ते
मूढेति
वादिनः
।
स्पर्धमाना
मिथो
घ्नन्ति
म्रियन्ते
मत्कृते
नृपाः
9
▾
Meaning
Keep
पृथुः
पुरूरवा
गाधिर्नहुषो
भरतोऽर्जुनः
।
मान्धाता
सगरो
रामः
खट्वाङ्गो
धुन्धुहा
रघुः
10
▾
Meaning
Keep
तृणबिन्दुर्ययातिश्च
शर्यातिः
शन्तनुर्गयः
।
भगीरथः
कुवलयाश्वः
ककुत्स्थो
नैषधो
नृगः
11
▾
Meaning
Keep
हिरण्यकशिपुर्वृत्रो
रावणो
लोकरावणः
।
नमुचिः
शम्बरो
भौमो
हिरण्याक्षोऽथ
तारकः
12
▾
Meaning
Keep
अन्ये
च
बहवो
दैत्या
राजानो
ये
महेश्वराः
।
सर्वे
सर्वविदः
शूराः
सर्वे
सर्वजितोऽजिताः
13
▾
Meaning
Keep
ममतां
मय्यवर्तन्त
कृत्वोच्चैर्मर्त्यधर्मिणः
।
कथावशेषाः
कालेन
ह्यकृतार्थाः
कृता
विभो
14
▾
Meaning
Keep
कथा
इमास्ते
कथिता
महीयसां
विताय
लोकेषु
यशः
परेयुषाम्
।
विज्ञानवैराग्यविवक्षया
विभो
वचो
विभूतीर्न
तु
पारमार्थ्यम्
15
▾
Meaning
Keep
यस्तूत्तमश्लोकगुणानुवादः
संगीयतेऽभीक्ष्णममङ्गलघ्नः
।
तमेव
नित्यं
शृणुयादभीक्ष्णं
कृष्णेऽमलां
भक्तिमभीप्समानः
16
▾
Meaning
Keep
केनोपायेन
भगवन्
कलेर्दोषान्
कलौ
जनाः
।
विधमिष्यन्त्युपचितांस्तन्मे
ब्रूहि
यथा
मुने
17
▾
Meaning
Keep
युगानि
युगधर्मांश्च
मानं
प्रलयकल्पयोः
।
कालस्येश्वररूपस्य
गतिं
विष्णोर्महात्मनः
18
▾
Meaning
Keep
कृते
प्रवर्तते
धर्मश्चतुष्पात्तज्जनैर्धृतः
।
सत्यं
दया
तपो
दानमिति
पादा
विभोर्नृप
19
▾
Meaning
Keep
संतुष्टाः
करुणा
मैत्राः
शान्ता
दान्तास्तितिक्षवः
।
आत्मारामाः
समदृशः
प्रायशः
श्रमणा
जनाः
20
▾
Meaning
Keep
त्रेतायां
धर्मपादानां
तुर्यांशो
हीयते
शनैः
।
अधर्मपादैरनृतहिंसासंतोषविग्रहैः
21
▾
Meaning
Keep
तदा
क्रिया
तपो
निष्ठा
नातिहिंस्रा
न
लम्पटाः
।
त्रैवर्गिकास्त्रयीवृद्धा
वर्णा
ब्रह्मोत्तरा
नृप
22
▾
Meaning
Keep
तपःसत्यदयादानेष्वर्धं
ह्रसति
द्वापरे
।
हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः
23
▾
Meaning
Keep
यशस्विनो
महाशालाः
स्वाध्यायाध्ययने
रताः
।
आढ्याः
कुटुम्बिनो
हृष्टा
वर्णाः
क्षत्रद्विजोत्तराः
24
▾
Meaning
Keep
कलौ
तु
धर्मपादानां
तुर्यांशोऽधर्महेतुभिः
।
एधमानैः
क्षीयमाणो
ह्यन्ते
सोऽपि
विनङ्क्ष्यति
25
▾
Meaning
Keep
तस्मिँल्लुब्धा
दुराचारा
निर्दयाः
शुष्कवैरिणः
।
दुर्भगा
भूरितर्षाश्च
शूद्रदाशोत्तराः
प्रजाः
26
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
दृश्यन्ते
पुरुषे
गुणाः
।
कालसंचोदितास्ते
वै
परिवर्तन्त
आत्मनि
27
▾
Meaning
Keep
प्रभवन्ति
यदा
सत्त्वे
मनोबुद्धीन्द्रियाणि
च
।
तदा
कृतयुगं
विद्याज्ज्ञाने
तपसि
यद्रुचिः
28
▾
Meaning
Keep
यदा
धर्मार्थकामेषु
भक्तिर्भवति
देहिनाम्
।
तदा
त्रेता
रजोवृत्तिरिति
जानीहि
बुद्धिमन्
29
▾
Meaning
Keep
यदा
लोभस्त्वसंतोषो
मानो
दम्भोऽथ
मत्सरः
।
कर्मणां
चापि
काम्यानां
द्वापरं
तद्
रजस्तमः
30
▾
Meaning
Keep
यदा
मायानृतं
तन्द्रा
निद्रा
हिंसा
विषादनम्
।
शोको
मोहो
भयं
दैन्यं
स
कलिस्तामसः
स्मृतः
31
▾
Meaning
Keep
यस्मात्क्षुद्रदृशो
मर्त्याः
क्षुद्रभाग्या
महाशनाः
।
कामिनो
वित्तहीनाश्च
स्वैरिण्यश्च
स्त्रियोऽसतीः
32
▾
Meaning
Keep
दस्यूत्कृष्टा
जनपदा
वेदाः
पाखण्डदूषिताः
।
राजानश्च
प्रजाभक्षाः
शिश्नोदरपरा
द्विजाः
33
▾
Meaning
Keep
अव्रता
बटवोऽशौचा
भिक्षवश्च
कुटुम्बिनः
।
तपस्विनो
ग्रामवासा
न्यासिनोऽत्यर्थलोलुपाः
34
▾
Meaning
Keep
ह्रस्वकाया
महाहारा
भूर्यपत्या
गतह्रियः
।
शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः
35
▾
Meaning
Keep
पणयिष्यन्ति
वै
क्षुद्राः
किराटाः
कूटकारिणः
।
अनापद्यपि
मंस्यन्ते
वार्तां
साधु
जुगुप्सिताम्
36
▾
Meaning
Keep
पतिं
त्यक्ष्यन्ति
निर्द्रव्यं
भृत्या
अप्यखिलोत्तमम्
।
भृत्यं
विपन्नं
पतयः
कौलं
गाश्चापयस्विनीः
37
▾
Meaning
Keep
पितृभ्रातृसुहृज्ज्ञातीन्
हित्वा
सौरतसौहृदाः
।
ननान्दृश्यालसंवादा
दीनाः
स्त्रैणाः
कलौ
नराः
38
▾
Meaning
Keep
शूद्राः
प्रतिग्रहीष्यन्ति
तपोवेषोपजीविनः
।
धर्मं
वक्ष्यन्त्यधर्मज्ञा
अधिरुह्योत्तमासनम्
39
▾
Meaning
Keep
नित्यमुद्विग्नमनसो
दुर्भिक्षकरकर्शिताः
।
निरन्ने
भूतले
राजन्ननावृष्टिभयातुराः
40
▾
Meaning
Keep
वासोऽन्नपानशयनव्यवायस्नानभूषणैः
।
हीनाः
पिशाचसन्दर्शा
भविष्यन्ति
कलौ
प्रजाः
41
▾
Meaning
Keep
कलौ
काकिणिकेऽप्यर्थे
विगृह्य
त्यक्तसौहृदाः
।
त्यक्ष्यन्ति
च
प्रियान्
प्राणान्
हनिष्यन्ति
स्वकानपि
42
▾
Meaning
Keep
न
रक्षिष्यन्ति
मनुजाः
स्थविरौ
पितरावपि
।
पुत्रान्
सर्वार्थकुशलान्
क्षुद्राः
शिश्नोदरम्भराः
43
▾
Meaning
Keep
कलौ
न
राजञ्जगतां
परं
गुरुं
त्रिलोकनाथानतपादपङ्कजम्
।
प्रायेण
मर्त्या
भगवन्तमच्युतं
यक्ष्यन्ति
पाखण्डविभिन्नचेतसः
44
▾
Meaning
Keep
यन्नामधेयं
म्रियमाण
आतुरः
पतन्
स्खलन्
वा
विवशो
गृणन्
पुमान्
।
विमुक्तकर्मार्गल
उत्तमां
गतिं
प्राप्नोति
यक्ष्यन्ति
न
तं
कलौ
जनाः
45
▾
Meaning
Keep
पुंसां
कलिकृतान्
दोषान्
द्रव्यदेशात्मसम्भवान्
।
सर्वान्
हरति
चित्तस्थो
भगवान्
पुरुषोत्तमः
46
▾
Meaning
Keep
श्रुतः
सङ्कीर्तितो
ध्यातः
पूजितश्चादृतोऽपि
वा
।
नृणां
धुनोति
भगवान्
हृत्स्थो
जन्मायुताशुभम्
47
▾
Meaning
Keep
यथा
हेम्नि
स्थितो
वह्निर्दुर्वर्णं
हन्ति
धातुजम्
।
एवमात्मगतो
विष्णुर्योगिनामशुभाशयम्
48
▾
Meaning
Keep
विद्यातपःप्राणनिरोधमैत्री
तीर्थाभिषेकव्रतदानजप्यैः
।
नात्यन्तशुद्धिं
लभतेऽन्तरात्मा
यथा
हृदिस्थे
भगवत्यनन्ते
49
▾
Meaning
Keep
तस्मात्सर्वात्मना
राजन्
हृदिस्थं
कुरु
केशवम्
।
म्रियमाणो
ह्यवहितस्ततो
यासि
परां
गतिम्
50
▾
Meaning
Keep
म्रियमाणैरभिध्येयो
भगवान्
परमेश्वरः
।
आत्मभावं
नयत्यङ्ग
सर्वात्मा
सर्वसंश्रयः
51
▾
Meaning
Keep
कलेर्दोषनिधे
राजन्नस्ति
ह्येको
महान्
गुणः
।
कीर्तनादेव
कृष्णस्य
मुक्तसङ्गः
परं
व्रजेत्
52
▾
Meaning
Keep
कृते
यद्ध्यायतो
विष्णुं
त्रेतायां
यजतो
मखैः
।
द्वापरे
परिचर्यायां
कलौ
तद्धरिकीर्तनात्
Previous
←
What the Kali Age Will Be Like
Next
The Four Dissolutions
→