Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Four Dissolutions
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कालस्ते
परमाण्वादिर्द्विपरार्धावधिर्नृप
।
कथितो
युगमानं
च
शृणु
कल्पलयावपि
2
▾
Meaning
Keep
चतुर्युगसहस्रं
च
ब्रह्मणो
दिनमुच्यते
।
स
कल्पो
यत्र
मनवश्चतुर्दश
विशांपते
3
▾
Meaning
Keep
तदन्ते
प्रलयस्तावान्
ब्राह्मी
रात्रिरुदाहृता
।
त्रयो
लोका
इमे
तत्र
कल्पन्ते
प्रलयाय
हि
4
▾
Meaning
Keep
एष
नैमित्तिकः
प्रोक्तः
प्रलयो
यत्र
विश्वसृक्
।
शेतेऽनन्तासनो
विश्वमात्मसात्कृत्य
चात्मभूः
5
▾
Meaning
Keep
द्विपरार्धे
त्वतिक्रान्ते
ब्रह्मणः
परमेष्ठिनः
।
तदा
प्रकृतयः
सप्त
कल्पन्ते
प्रलयाय
वै
6
▾
Meaning
Keep
एष
प्राकृतिको
राजन्
प्रलयो
यत्र
लीयते
।
अण्डकोशस्तु
सङ्घातो
विघात
उपसादिते
7
▾
Meaning
Keep
पर्जन्यः
शतवर्षाणि
भूमौ
राजन्
न
वर्षति
।
तदा
निरन्ने
ह्यन्योन्यं
भक्षमाणाः
क्षुधार्दिताः
8
▾
Meaning
Keep
क्षयं
यास्यन्ति
शनकैः
कालेनोपद्रुता
प्रजाः
।
सामुद्रं
दैहिकं
भौमं
रसं
सांवर्तको
रविः
9
▾
Meaning
Keep
रश्मिभिः
पिबते
घोरैः
सर्वं
नैव
विमुञ्चति
।
ततः
संवर्तको
वह्निः
सङ्कर्षणमुखोत्थितः
10
▾
Meaning
Keep
दहत्यनिलवेगोत्थः
शून्यान्
भूविवरानथ
।
उपर्यधः
समन्ताच्च
शिखाभिर्वह्निसूर्ययोः
11
▾
Meaning
Keep
दह्यमानं
विभात्यण्डं
दग्धगोमयपिण्डवत्
।
ततः
प्रचण्डपवनो
वर्षाणामधिकं
शतम्
12
▾
Meaning
Keep
परः
सांवर्तको
वाति
धूम्रं
खं
रजसाऽऽवृतम्
।
ततो
मेघकुलान्यङ्ग
चित्रवर्णान्यनेकशः
13
▾
Meaning
Keep
शतं
वर्षाणि
वर्षन्ति
नदन्ति
रभसस्वनैः
।
तत
एकोदकं
विश्वं
ब्रह्माण्डविवरान्तरम्
14
▾
Meaning
Keep
तदा
भूमेर्गन्धगुणं
ग्रसन्त्याप
उदप्लवे
।
ग्रस्तगन्धा
तु
पृथिवी
प्रलयत्वाय
कल्पते
15
▾
Meaning
Keep
अपां
रसमथो
तेजस्ता
लीयन्तेऽथ
नीरसाः
।
ग्रसते
तेजसो
रूपं
वायुस्तद्रहितं
तदा
16
▾
Meaning
Keep
लीयते
चानिले
तेजो
वायोः
खं
ग्रसते
गुणम्
।
स
वै
विशति
खं
राजंस्ततश्च
नभसो
गुणम्
17
▾
Meaning
Keep
शब्दं
ग्रसति
भूतादिर्नभस्तमनुलीयते
।
तैजसश्चेन्द्रियाण्यङ्ग
देवान्
वैकारिको
गुणैः
18
▾
Meaning
Keep
महान्
ग्रसत्यहङ्कारं
गुणाः
सत्त्वादयश्च
तम्
।
ग्रसतेऽव्याकृतं
राजन्
गुणान्
कालेन
चोदितम्
19
▾
Meaning
Keep
न
तस्य
कालावयवैः
परिणामादयो
गुणाः
।
अनाद्यनन्तमव्यक्तं
नित्यं
कारणमव्ययम्
20
▾
Meaning
Keep
न
यत्र
वाचो
न
मनो
न
सत्त्वं
तमो
रजो
वा
महदादयोऽमी
।
न
प्राणबुद्धीन्द्रियदेवता
वा
न
सन्निवेशः
खलु
लोककल्पः
21
▾
Meaning
Keep
न
स्वप्नजाग्रन्न
च
तत्सुषुप्तं
न
खं
जलं
भूरनिलोऽग्निरर्कः
।
संसुप्तवच्छून्यवदप्रतर्क्यं
तन्मूलभूतं
पदमामनन्ति
22
▾
Meaning
Keep
लयः
प्राकृतिको
ह्येष
पुरुषाव्यक्तयोर्यदा
।
शक्तयः
सम्प्रलीयन्ते
विवशाः
कालविद्रुताः
23
▾
Meaning
Keep
बुद्धीन्द्रियार्थरूपेण
ज्ञानं
भाति
तदाश्रयम्
।
दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु
यत्
24
▾
Meaning
Keep
दीपश्चक्षुश्च
रूपं
च
ज्योतिषो
न
पृथग्भवेत्
।
एवं
धीः
खानि
मात्राश्च
न
स्युरन्यतमादृतात्
25
▾
Meaning
Keep
बुद्धेर्जागरणं
स्वप्नः
सुषुप्तिरिति
चोच्यते
।
मायामात्रमिदं
राजन्
नानात्वं
प्रत्यगात्मनि
26
▾
Meaning
Keep
यथा
जलधरा
व्योम्नि
भवन्ति
न
भवन्ति
च
।
ब्रह्मणीदं
तथा
विश्वमवयव्युदयाप्ययात्
27
▾
Meaning
Keep
सत्यं
ह्यवयवः
प्रोक्तः
सर्वावयविनामिह
।
विनार्थेन
प्रतीयेरन्
पटस्येवाङ्ग
तन्तवः
28
▾
Meaning
Keep
यत्सामान्यविशेषाभ्यामुपलभ्येत
सभ्रमः
।
अन्योन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु
यत्
29
▾
Meaning
Keep
विकारः
ख्यायमानोऽपि
प्रत्यगात्मानमन्तरा
।
न
निरूप्योऽस्त्यणुरपि
स्याच्चेच्चित्सम
आत्मवत्
30
▾
Meaning
Keep
न
हि
सत्यस्य
नानात्वमविद्वान्
यदि
मन्यते
।
नानात्वं
छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव
31
▾
Meaning
Keep
यथा
हिरण्यं
बहुधा
समीयते
नृभिः
क्रियाभिर्व्यवहारवर्त्मसु
।
एवं
वचोभिर्भगवानधोक्षजो
व्याख्यायते
लौकिकवैदिकैर्जनैः
32
▾
Meaning
Keep
यथा
घनोऽर्कप्रभवोऽर्कदर्शितो
ह्यर्कांशभूतस्य
च
चक्षुषस्तमः
।
एवं
त्वहं
ब्रह्म
गुणस्तदीक्षितो
ब्रह्मांशकस्यात्मन
आत्मबन्धनः
33
▾
Meaning
Keep
घनो
यदार्कप्रभवो
विदीर्यते
चक्षुः
स्वरूपं
रविमीक्षते
तदा
।
यदा
ह्यहङ्कार
उपाधिरात्मनो
जिज्ञासया
नश्यति
तर्ह्यनुस्मरेत्
34
▾
Meaning
Keep
यदैवमेतेन
विवेकहेतिना
मायामयाहङ्करणात्मबन्धनम्
।
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते
तमाहुरात्यन्तिकमङ्ग
सम्प्लवम्
35
▾
Meaning
Keep
नित्यदा
सर्वभूतानां
ब्रह्मादीनां
परन्तप
।
उत्पत्तिप्रलयावेके
सूक्ष्मज्ञाः
सम्प्रचक्षते
36
▾
Meaning
Keep
कालस्रोतो
जवेनाशु
ह्रियमाणस्य
नित्यदा
।
परिणामिनामवस्थास्ता
जन्मप्रलयहेतवः
37
▾
Meaning
Keep
अनाद्यन्तवतानेन
कालेनेश्वरमूर्तिना
।
अवस्था
नैव
दृश्यन्ते
वियति
ज्योतिषामिव
38
▾
Meaning
Keep
नित्यो
नैमित्तिकश्चैव
तथा
प्राकृतिको
लयः
।
आत्यन्तिकश्च
कथितः
कालस्य
गतिरीदृशी
39
▾
Meaning
Keep
एताः
कुरुश्रेष्ठ
जगद्विधातु-
र्नारायणस्याखिलसत्त्वधाम्नः
।
लीलाकथास्ते
कथिताः
समासतः
कार्त्स्न्येन
नाजोऽप्यभिधातुमीशः
40
▾
Meaning
Keep
संसारसिन्धुमतिदुस्तरमुत्तितीर्षो-
र्नान्यः
प्लवो
भगवतः
पुरुषोत्तमस्य
।
लीलाकथारसनिषेवणमन्तरेण
पुंसो
भवेद्विविधदुःखदवार्दितस्य
41
▾
Meaning
Keep
पुराणसंहितामेतामृषिर्नारायणोऽव्ययः
।
नारदाय
पुरा
प्राह
कृष्णद्वैपायनाय
सः
42
▾
Meaning
Keep
स
वै
मह्यं
महाराज
भगवान्
बादरायणः
।
इमां
भागवतीं
प्रीतः
संहितां
वेदसम्मिताम्
43
▾
Meaning
Keep
एतां
वक्ष्यत्यसौ
सूत
ऋषिभ्यो
नैमिषालये
।
दीर्घसत्रे
कुरुश्रेष्ठ
सम्पृष्टः
शौनकादिभिः
Previous
←
The Earth Laughs at the Kings
Next
You Were Not Born
→