Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · You Were Not Born
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अत्रानुवर्ण्यतेऽभीक्ष्णं
विश्वात्मा
भगवान्
हरिः
।
यस्य
प्रसादजो
ब्रह्मा
रुद्रः
क्रोधसमुद्भवः
2
▾
Meaning
Keep
त्वं
तु
राजन्
मरिष्येति
पशुबुद्धिमिमां
जहि
।
न
जातः
प्रागभूतोऽद्य
देहवत्त्वं
न
नङ्क्ष्यसि
3
▾
Meaning
Keep
न
भविष्यसि
भूत्वा
त्वं
पुत्रपौत्रादिरूपवान्
।
बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो
यथानलः
4
▾
Meaning
Keep
स्वप्ने
यथा
शिरश्छेदं
पञ्चत्वाद्यात्मनः
स्वयम्
।
यस्मात्पश्यति
देहस्य
तत
आत्मा
ह्यजोऽमरः
5
▾
Meaning
Keep
घटे
भिन्ने
यथाऽऽकाश
आकाशः
स्याद्
यथा
पुरा
।
एवं
देहे
मृते
जीवो
ब्रह्म
सम्पद्यते
पुनः
6
▾
Meaning
Keep
मनः
सृजति
वै
देहान्
गुणान्
कर्माणि
चात्मनः
।
तन्मनः
सृजते
माया
ततो
जीवस्य
संसृतिः
7
▾
Meaning
Keep
स्नेहाधिष्ठानवर्त्यग्निसंयोगो
यावदीयते
।
ततो
दीपस्य
दीपत्वमेवं
देहकृतो
भवः
।
रजःसत्त्वतमोवृत्त्या
जायतेऽथ
विनश्यति
8
▾
Meaning
Keep
न
तत्रात्मा
स्वयंज्योतिर्यो
व्यक्ताव्यक्तयोः
परः
।
आकाश
इव
चाधारो
ध्रुवोऽनन्तोपमस्ततः
9
▾
Meaning
Keep
एवमात्मानमात्मस्थमात्मनैवामृश
प्रभो
।
बुद्ध्यानुमानगर्भिण्या
वासुदेवानुचिन्तया
10
▾
Meaning
Keep
चोदितो
विप्रवाक्येन
न
त्वां
धक्ष्यति
तक्षकः
।
मृत्यवो
नोपधक्ष्यन्ति
मृत्यूनां
मृत्युमीश्वरम्
11
▾
Meaning
Keep
अहं
ब्रह्म
परं
धाम
ब्रह्माहं
परमं
पदम्
।
एवं
समीक्षन्नात्मानमात्मन्याधाय
निष्कले
12
▾
Meaning
Keep
दशन्तं
तक्षकं
पादे
लेलिहानं
विषाननैः
।
न
द्रक्ष्यसि
शरीरं
च
विश्वं
च
पृथगात्मनः
13
▾
Meaning
Keep
एतत्ते
कथितं
तात
यथाऽऽत्मा
पृष्टवान्
नृप
।
हरेर्विश्वात्मनश्चेष्टां
किं
भूयः
श्रोतुमिच्छसि
Previous
←
The Four Dissolutions
Next
The Death of Pariksit, and the Dividing of the Veda
→