Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Markandeya's Austerity
Śrīmad Bhāgavatam
›
Canto 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सूत
जीव
चिरं
साधो
वद
नो
वदतां
वर
।
तमस्यपारे
भ्रमतां
नृणां
त्वं
पारदर्शनः
2
▾
Meaning
Keep
आहुश्चिरायुषमृषिं
मृकण्डतनयं
जनाः
।
यः
कल्पान्ते
उर्वरितो
येन
ग्रस्तमिदं
जगत्
3
▾
Meaning
Keep
स
वा
अस्मत्कुलोत्पन्नः
कल्पेऽस्मिन्
भार्गवर्षभः
।
नैवाधुनापि
भूतानां
सम्प्लवः
कोऽपि
जायते
4
▾
Meaning
Keep
एक
एवार्णवे
भ्राम्यन्
ददर्श
पुरुषं
किल
।
वटपत्रपुटे
तोकं
शयानं
त्वेकमद्भुतम्
5
▾
Meaning
Keep
एष
नः
संशयो
भूयान्
सूत
कौतूहलं
यतः
।
तं
नश्छिन्धि
महायोगिन्
पुराणेष्वपि
सम्मतः
6
▾
Meaning
Keep
प्रश्नस्त्वया
महर्षेऽयं
कृतो
लोकभ्रमापहः
।
नारायणकथा
यत्र
गीता
कलिमलापहा
7
▾
Meaning
Keep
प्राप्तद्विजातिसंस्कारो
मार्कण्डेयः
पितुः
क्रमात्
।
छन्दांस्यधीत्य
धर्मेण
तपःस्वाध्यायसंयुतः
8
▾
Meaning
Keep
बृहद्व्रतधरः
शान्तो
जटिलो
वल्कलाम्बरः
।
बिभ्रत्कमण्डलुं
दण्डमुपवीतं
समेखलम्
9
▾
Meaning
Keep
कृष्णाजिनं
साक्षसूत्रं
कुशांश्च
नियमर्द्धये
।
अग्न्यर्कगुरुविप्रात्मस्वर्चयन्
सन्ध्ययोर्हरिम्
10
▾
Meaning
Keep
सायं
प्रातः
स
गुरवे
भैक्ष्यमाहृत्य
वाग्यतः
।
बुभुजे
गुर्वनुज्ञातः
सकृन्नो
चेदुपोषितः
11
▾
Meaning
Keep
एवं
तपःस्वाध्यायपरो
वर्षाणामयुतायुतम्
।
आराधयन्
हृषीकेशं
जिग्ये
मृत्युं
सुदुर्जयम्
12
▾
Meaning
Keep
ब्रह्मा
भृगुर्भवो
दक्षो
ब्रह्मपुत्राश्च
येऽपरे
।
नृदेवपितृभूतानि
तेनासन्नतिविस्मिताः
13
▾
Meaning
Keep
इत्थं
बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः
।
दध्यावधोक्षजं
योगी
ध्वस्तक्लेशान्तरात्मना
14
▾
Meaning
Keep
तस्यैवं
युञ्जतश्चित्तं
महायोगेन
योगिनः
।
व्यतीयाय
महान्
कालो
मन्वन्तरषडात्मकः
15
▾
Meaning
Keep
एतत्पुरन्दरो
ज्ञात्वा
सप्तमेऽस्मिन्
किलान्तरे
।
तपोविशङ्कितो
ब्रह्मन्नारेभे
तद्विघातनम्
16
▾
Meaning
Keep
गन्धर्वाप्सरसः
कामं
वसन्तमलयानिलौ
।
मुनये
प्रेषयामास
रजस्तोकमदौ
तथा
17
▾
Meaning
Keep
ते
वै
तदाश्रमं
जग्मुर्हिमाद्रेः
पार्श्व
उत्तरे
।
पुष्पभद्रानदी
यत्र
चित्राख्या
च
शिला
विभो
18
▾
Meaning
Keep
तदाश्रमपदं
पुण्यं
पुण्यद्रुमलताञ्चितम्
।
पुण्यद्विजकुलाकीर्णं
पुण्यामलजलाशयम्
19
▾
Meaning
Keep
मत्तभ्रमरसङ्गीतं
मत्तकोकिलकूजितम्
।
मत्तबर्हिनटाटोपं
मत्तद्विजकुलाकुलम्
20
▾
Meaning
Keep
वायुः
प्रविष्ट
आदाय
हिमनिर्झरशीकरान्
।
सुमनोभिः
परिष्वक्तो
ववावुत्तम्भयन्
स्मरम्
21
▾
Meaning
Keep
उद्यच्चन्द्रनिशावक्त्रः
प्रवालस्तबकालिभिः
।
गोपद्रुमलताजालैस्तत्रासीत्कुसुमाकरः
22
▾
Meaning
Keep
अन्वीयमानो
गन्धर्वैर्गीतवादित्रयूथकैः
।
अदृश्यतात्तचापेषुः
स्वःस्त्रीयूथपतिः
स्मरः
23
▾
Meaning
Keep
हुत्वाग्निं
समुपासीनं
ददृशुः
शक्रकिङ्कराः
।
मीलिताक्षं
दुराधर्षं
मूर्तिमन्तमिवानलम्
24
▾
Meaning
Keep
ननृतुस्तस्य
पुरतः
स्त्रियोऽथो
गायका
जगुः
।
मृदङ्गवीणापणवैर्वाद्यं
चक्रुर्मनोरमम्
25
▾
Meaning
Keep
सन्दधेऽस्त्रं
स्वधनुषि
कामः
पञ्चमुखं
तदा
।
मधुर्मनो
रजस्तोक
इन्द्रभृत्या
व्यकम्पयन्
26
▾
Meaning
Keep
क्रीडन्त्याः
पुञ्जिकस्थल्याः
कन्दुकैः
स्तनगौरवात्
।
भृशमुद्विग्नमध्यायाः
केशविस्रंसितस्रजः
27
▾
Meaning
Keep
इतस्ततो
भ्रमद्दृष्टेश्चलन्त्या
अनुकन्दुकम्
।
वायुर्जहार
तद्वासः
सूक्ष्मं
त्रुटितमेखलम्
28
▾
Meaning
Keep
विससर्ज
तदा
बाणं
मत्वा
तं
स्वजितं
स्मरः
।
सर्वं
तत्राभवन्मोघमनीशस्य
यथोद्यमः
29
▾
Meaning
Keep
त
इत्थमपकुर्वन्तो
मुनेस्तत्तेजसा
मुने
।
दह्यमाना
निववृतुः
प्रबोध्याहिमिवार्भकाः
30
▾
Meaning
Keep
इतीन्द्रानुचरैर्ब्रह्मन्
धर्षितोऽपि
महामुनिः
।
यन्नागादहमो
भावं
न
तच्चित्रं
महत्सु
हि
31
▾
Meaning
Keep
दृष्ट्वा
निस्तेजसं
कामं
सगणं
भगवान्
स्वराट्
।
श्रुत्वानुभावं
ब्रह्मर्षेर्विस्मयं
समगात्परम्
32
▾
Meaning
Keep
तस्यैवं
युञ्जतश्चित्तं
तपःस्वाध्यायसंयमैः
।
अनुग्रहायाविरासीन्नरनारायणो
हरिः
33
▾
Meaning
Keep
तौ
शुक्लकृष्णौ
नवकञ्जलोचनौ
चतुर्भुजौ
रौरववल्कलाम्बरौ
।
पवित्रपाणी
उपवीतकं
त्रिवृत्
कमण्डलुं
दण्डमृजुं
च
वैणवम्
34
▾
Meaning
Keep
पद्माक्षमालामुत
जन्तुमार्जनं
वेदं
च
साक्षात्तप
एव
रूपिणौ
।
तपत्तडिद्वर्णपिशङ्गरोचिषा
प्रांशू
दधानौ
विबुधर्षभार्चितौ
35
▾
Meaning
Keep
ते
वै
भगवतो
रूपे
नरनारायणावृषी
।
दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन
दण्डवत्
36
▾
Meaning
Keep
स
तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशयः
।
हृष्टरोमाश्रुपूर्णाक्षो
न
सेहे
तावुदीक्षितुम्
37
▾
Meaning
Keep
उत्थाय
प्राञ्जलिः
प्रह्व
औत्सुक्यादाश्लिषन्निव
।
नमो
नम
इतीशानौ
बभाषे
गद्गदाक्षरम्
38
▾
Meaning
Keep
तयोरासनमादाय
पादयोरवनिज्य
च
।
अर्हणेनानुलेपेन
धूपमाल्यैरपूजयत्
39
▾
Meaning
Keep
सुखमासनमासीनौ
प्रसादाभिमुखौ
मुनी
।
पुनरानम्य
पादाभ्यां
गरिष्ठाविदमब्रवीत्
Hymn
40
▾
Meaning
Keep
किं
वर्णये
तव
विभो
यदुदीरितोऽसुः
संस्पन्दते
तमनु
वाङ्मन
इन्द्रियाणि
।
स्पन्दन्ति
वै
तनुभृतामजशर्वयोश्च
स्वस्याप्यथापि
भजतामसि
भावबन्धुः
41
▾
Meaning
Keep
मूर्ती
इमे
भगवतो
भगवंस्त्रिलोक्याः
क्षेमाय
तापविरमाय
च
मृत्युजित्यै
।
नानाबिभर्ष्यवितुमन्यतनूर्यथेदं
सृष्ट्वा
पुनर्ग्रससि
सर्वमिवोर्णनाभिः
42
▾
Meaning
Keep
तस्यावितुः
स्थिरचरेशितुरङ्घ्रिमूलं
यत्स्थं
न
कर्मगुणकालरजः
स्पृशन्ति
।
यद्वै
स्तुवन्ति
निनमन्ति
यजन्त्यभीक्ष्णं
ध्यायन्ति
वेदहृदया
मुनयस्तदाप्त्यै
43
▾
Meaning
Keep
नान्यं
तवाङ्घ्र्युपनयादपवर्गमूर्तेः
क्षेमं
जनस्य
परितो
भिय
ईश
विद्मः
।
ब्रह्मा
बिभेत्यलमतो
द्विपरार्धधिष्ण्यः
कालस्य
ते
किमुत
तत्कृतभौतिकानाम्
44
▾
Meaning
Keep
तद्वै
भजाम्यृतधियस्तव
पादमूलं
हित्वेदमात्मच्छदि
चात्मगुरोः
परस्य
।
देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं
विन्देत
ते
तर्हि
सर्वमनीषितार्थम्
45
▾
Meaning
Keep
सत्त्वं
रजस्तम
इतीश
तवात्मबन्धो
मायामयाः
स्थितिलयोदयहेतवोऽस्य
।
लीलाधृता
यदपि
सत्त्वमयी
प्रशान्त्यै
नान्ये
नृणां
व्यसनमोहभियश्च
याभ्याम्
46
▾
Meaning
Keep
तस्मात्तवेह
भगवन्नथ
तावकानां
शुक्लां
तनुं
स्वदयितां
कुशला
भजन्ति
।
यत्
सात्वताः
पुरुषरूपमुशन्ति
सत्त्वं
लोको
यतोऽभयमुतात्मसुखं
न
चान्यत्
47
▾
Meaning
Keep
तस्मै
नमो
भगवते
पुरुषाय
भूम्ने
विश्वाय
विश्वगुरवे
परदैवतायै
।
नारायणाय
ऋषये
च
नरोत्तमाय
हंसाय
संयतगिरे
निगमेश्वराय
48
▾
Meaning
Keep
यं
वै
न
वेद
वितथाक्षपथैर्भ्रमद्धीः
सन्तं
स्वकेष्वसुषु
हृद्यपि
दृक्पथेषु
।
तन्माययाऽऽवृतमतिः
स
उ
एव
साक्षा-
दाद्यस्तवाखिलगुरोरुपसाद्य
वेदम्
49
▾
Meaning
Keep
यद्दर्शनं
निगम
आत्मरहःप्रकाशं
मुह्यन्ति
यत्र
कवयोऽजपरा
यतन्तः
।
तं
सर्ववादविषयप्रतिरूपशीलं
वन्दे
महापुरुषमात्मनिगूढबोधम्
Previous
←
The Ten Marks of a Purana
Next
Markandeya Asks to See Maya
→