Century of Verses on His Holiness Jagadguru Sri Abhinava Vidyatirtha Mahasvamin
DEDICATION
His Holiness Jagadguru Śrī Abhinava Vidyātīrtha Mahāsvāmin
परब्रह्ममायेशकारुण्यसिन्धुं स्वमायाधृताङ्गं सदा बन्धशून्यम् ।
कृताध्यात्मिकाभ्याससिद्ध्याप्तिलीलं भवाचार्यमत्कृत्स्नमेकं प्रपद्ये ॥
(I seek refuge in Him alone, who is the Supreme Brahman, who is the Lord of Māyā, who is an ocean of mercy, who, by His own Māyā, assumed a body, who is ever bereft of any bondage, who enacted the divine play of attaining perfection through recourse to spiritual practices, who is the Guru of the world, and who is my all.)
इमां कृतिं मत्परमपूज्यसद्गुरुश्रीमदभिनवविद्यातीर्थमहास्वामिनां पादपद्मयोः त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये इति भावेन सप्रणामं समर्पये ।
(With the idea, ‘O Lord, I offer You what is Yours,’ I offer this work, with my namaskāras, at the lotus-feet of my worthiest of worship, enlightened and enlightenment-giving Guru, His Holiness Jagadguru Śrī Abhinava Vidyātīrtha Mahāsvāmin.)
His Holiness Jagadguru Śrī Abhinava Vidyātīrtha Mahāsvāmin paying obeisance to His Guru, His Holiness Jagadguru Śrī Candraśekhara Bhāratī Mahāsvāmin
His Holiness Jagadguru Śrī Bhāratī-tīrtha Mahāsvāmin paying obeisance to His Guru, His Holiness Jagadguru Śrī Abhinava Vidyātīrtha Mahāsvāmin
श्रीशारदापीठम् , शृङ्गेरी परम पूजनीयाः अस्मद्गुरुचरणाः जगद्गुरु श्रीमदभिनवविद्यातीर्थ महास्वामिनः स्वीये चतुर्दशे वयसि स्वीकृतपारमहंस्याः जन्मान्तरीय सुकृत परिपाकवशात् स्वदेशिकवर्याणां जगद्गुरु श्री-चन्द्रशेखरभारती महास्वामि-चरणानां निरवग्रहानुग्रहेण च स्वीये अष्टादशे वयसि युव मार्गशीर्ष कृष्णद्वितीयायां ब्रह्मसाक्षात्कार मवाप्य जीवन्मुक्तिसुखमन्वभुवन् । तात्त्विकं तेषामनुभवं तदीय मुखारविन्दादेवश्रुत्वा अवागमत् तेषामस्माकंच प्रियशिष्यः श्रीमान् उमेशब्रह्मचारी । सच स्वेनावगतं तमपूर्वं विषयं श्लोकशतेन उपनिबध्य अस्मान् प्रादर्शयत् । वयंच तदवलोक्य नितराममोदिष्महि । ईदृशं पुण्यश्लोकानामपूर्वमनुभवं अनेन श्लोकशतेनावगत्य लोकाः कृतार्था भूयासुरित्याशास्महे । शृंगगिरिः इति नारायणस्मरणम् विश्वावसुश्रावणकृष्णत्रयोदशी भारतीतीर्थः गुरुवासरः २१-८-२०२५