Century of Verses on His Holiness Jagadguru Sri Abhinava Vidyatirtha Mahasvamin
Appendix
Passages and Verses That were Paraphrased
In Verses 9-10 (on Page 2):
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ (Śrīdakṣiṇāmūrti-stotra 9)
In Verses 13-14 (on Page 3):
शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
(Dhyāna-śloka of the Sāmbasadāśiva-pañcākṣarī-mantra)
In Verse 20 (on Page 4):
वत्स, श्वःप्रभृत्यत्र निराकारे परे तत्त्वे मनः समाधत्स्व । अचिरेण ब्रह्मसंस्थो भविष्यसि ।
(Śiva’s words to H.H. Jagadguru Śrī Abhinava Vidyātīrtha Mahāsvāmin)
In Verses 23-24 (on Page 5):
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
ममृतकलशविद्याज्ञानमुद्राः कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमोडे ॥
(Dhyāna-śloka of the Medhā-dakṣiṇāmūrti-mantra)
In Verse 28 (on Page 6):
ब्रह्मविदाप्नोति परम् । (Taittirīya-upaniṣad 2.1.1)
आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । (Taittirīya-upaniṣad 2.4.1)
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । (Taittirīya-upaniṣad 2.7.1)
In Verse 51 (on Page 10):
सत्यं ज्ञानमनन्तं ब्रह्म । (Taittirīya-upaniṣad 2.1.1)
In Verse 53 (on Page 11):
तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । (Taittirīya-upaniṣad 2.1.1)
In Verse 54 (on Page 11):
यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । (Taittirīya-upaniṣad 3.1.1)
In Verse 56 (on Page 11):
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । (Taittirīya-upaniṣad 2.8.5)
In Verse 75 (on Page 15):
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुन इति । (Br̥hadāraṇyaka-upaniṣad 4.4.7)
In Verse 96 (on Page 18):
दयासान्द्रं बालं निखिलजगतीरक्षणचणं
हरन्तं विघ्नाद्रिं विमलविमलैर्वीक्षणचयैः ।
परब्रह्माकारं प्रणवविदितं शान्तमनसं
गुरुं विद्यातीर्थं कलयत बुधाश्चित्तकमले ॥
(Composition of H.H. Jagadguru Śrī Candraśekhara-bhāratī Mahāsvāmin)