Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Dhanyā kṣitiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 2
The Blessed Land and an Uncommon Boy
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अस्ति
श्रीनृत्तभूः
साक्षाद्दक्षिणा
केरलक्षितिः ।
अशुभ्रा
वनवीथीभिः
शुभ्राऽपि
निजकीर्तिभिः
॥ १ ॥
2
▾
Meaning
Keep
गुरुवातपतिः
कृष्णो
बिल्वशैलपतिः
प्रभुः ।
उपास्यदेवा
यत्रान्ये
पद्मनाभादयस्तथा
॥ २ ॥
3
▾
Meaning
Keep
आसीच्च
यस्यास्तनपः
परिव्राट्
श्रीशङ्करो
भाष्यकृदप्रधृष्यः ।
भूभृन्मणिर्भक्तकुलोत्तमाङ्गश्रीशेखरः
श्रीकुलशेखरश्च
॥ ३ ॥
4
▾
Meaning
Keep
तत्रान्धपरम्परासमेधितनानागर्हितकर्माचरणक्रमेषु
गुरुतरदुराग्रहदूषितायामपि
स्थिरतरास्तिक्यभावभूषितायां
क्षीराटवीप्रान्तभुवि
भुवमवातरत्
श्रीस्वामी
तपोवनयतिः
षट्चत्वारिंशदधिकनवशतोत्तरसहस्रतमे
विक्रमाब्दे
॥ ४ ॥
5
▾
Meaning
Keep
तस्य
चास्तामब्धिगम्भीरौ
चिरसम्प्रार्थनासम्पत्परिणामायितस्यास्य
सुब्रह्मण्यशिशोरब्रह्मण्यसुदूरगौ
दानदयाविनयादिबहुदैवगुणमण्डितौ
मातापितरौ
बालाम्बाच्युतशुभसञ्ज्ञकौ
स्वधर्मनिष्ठया
लब्धप्रतिष्ठौ
क्षत्रनायकवंशजौ
॥ ५ ॥
6
▾
Meaning
Keep
ब्रह्मविद्येव
साधूनां
साधनान्वितचेतसाम् ।
अन्वहं
ववृधे
बालः
स्वीयहृत्पद्मभास्करः
॥ ६ ॥
7
▾
Meaning
Keep
अमानी
मानदो
मानी
धन्यो
मान्यः
सुशिक्षितः ।
बहुमानुषवित्ताढ्यो
दैववित्तेऽप्यदुर्विधः
॥ ७ ॥
8
▾
Meaning
Keep
सुतजन्मसुहृष्टात्मा
सुतकल्याणकामुकः ।
प्रददौ
द्रव्यमर्थिभ्यो
ब्राह्मणेभ्यश्च
तत्पिता
॥ ८ ॥
Previous
←
Tajjīvitaṃ jīvitam
Next
Kesarī kemadrumaśca
→